ऋग्वेदः सूक्तं १०.१६७
(ऋग्वेद: सूक्तं १०.१६७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation
Jump to search
← सूक्तं १०.१६६ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६७ विश्वामित्र-जमदग्नी। |
सूक्तं १०.१६८ → |
दे. इन्द्रः, ३ सोम-वरुण-बृहस्पति- अनुमति-मघवत्- धातृ-विधातारः। जगती। |
तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि ।
त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥१॥
स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुताँ उप ।
इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥२॥
सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि ।
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥३॥
प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे ।
सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥४॥
मण्डल १० |
---|