सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.११३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.११२ ऋग्वेदः - मण्डल १०
सूक्तं १०.११३
वैरूपः शतप्रभेदनः
सूक्तं १०.११४ →
दे. इन्द्रः । जगती, १० त्रिष्टुप्।


तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् ।
यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥१॥
तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते ।
देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥२॥
वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे ।
विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥३॥
जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् ।
अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥४॥
आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत ।
अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥५॥
इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे ।
वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥६॥
या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः ।
ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥७॥
विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्सोमवत्या वचस्यया ।
रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥८॥
भूरि दक्षेभिर्वचनेभिरृक्वभिः सख्येभिः सख्यानि प्र वोचत ।
इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये ॥९॥
त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन् ।
सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य ॥१०॥

सायणभाष्यम्

दशमेऽनुवाके षोडश सूक्तानि । तत्र ‘ तमस्य' इति दशर्चं प्रथम सूक्तमैन्द्रम् । शतप्रभेदनो नाम वैरूप ऋषिः । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं -- तमस्य शतप्रभेदनस्त्रिष्टुबन्तम् । इति । दशरात्रस्याष्टमेऽहनि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च - ‘ तमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयम्' (आश्व. श्रौ. ६, ७) इति ॥


तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् ।

यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥१

तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् ।

यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥१

तम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् ।

यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥१

“सचेतसा सह चेतयन्त्यौ “द्यावापृथिवी द्यावापृथियौ “विश्वेभिः सर्वैः “देवैः सह “अस्य ॥ अन्वादेशेऽशादेशोऽनुदात्तः ( पा. सू. २, ४, ३२ ) ॥ एतस्येन्द्रस्य “तं “शुष्मं शत्रूणां शोषकं बलम् “अनु “आवतां रक्षताम् । तस्य बलं पूर्वमस्मान् रक्षतु पश्चादेतेऽपि रक्षतामिति भावः। अवतेर्लुङ् ।। “कृण्वानः वृत्रवधादिकं कुर्वाणः सः “महिमानम् “इन्द्रियम् इन्द्रस्यात्मनः पर्याप्तं वीर्यं च “यत् यदा “ऐत् प्राप्नोत् ॥ ‘ इण गतौ । आदादिकः । ‘ आडजादीनाम् इत्याडागमः। तदा “क्रतुमान् कर्मवान् सः “सोमस्य “पीत्वी सोमं पीत्वा “अवर्धत ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । ‘ चतुर्थ्यर्थे बहुलम्' इति षष्ठी । पीत्वी । ‘ स्नात्व्यादयश्च ' इति निपातितः ।।


तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।

दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥२

तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ ।

दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥२

तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते ।

देवेभिः । इन्द्रः । मघऽवा । सयावऽभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥२

“विष्णुः एतन्नामकः । व्याप्तो यज्ञो वा। “मधुनः मदकरस्य सोमस्य “अंशुं लताखण्डं “दधन्वान् प्रेरयन् ॥ धवेर्गत्यर्थस्य क्वसौ इदित्त्वानुमागमे कृते वलि लोपः ॥ “ओजसe स्ववीर्येण संजातम् “अस्य इन्द्रस्य “तं “महिमानं “वि “रप्शते विविधं शब्दयति । स्तौति । “मघवा धनवान् “सयावभिः ॥ याते: ‘ आतो मनिन् ' इति क्वनिप् ॥ सहगन्तृभिः “देवेभिः देवैः मरुद्भिश्च “वृत्रं जघन्वान् हतवान् “इन्द्रः “वरेण्यः सर्वैर्वरणीयः संभजनीयः “अभवत् ॥


वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।

विश्वे॑ ते॒ अत्र॑ म॒रुत॑ः स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥३

वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ ।

विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥३

वृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्ऽअस्थिथाः । युधये । शंसम् । आऽविदे ।

विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम् ॥३

"युधये योधनाय “आयुधा आयुधानि वज्रादीनि “बिभ्रत् धारयन्निन्द्रस्त्वं “यत् यदा “अहिना आहन्तव्येन “वृत्रेण “समस्थिथाः सहास्थाः ॥ तिष्ठतेर्लुङि ‘ समवप्रविभ्यः स्थः' (पा. सू. १. ३. २२ ) इत्यात्मनेपदम् । ‘ स्थाध्वोरिच्च ' इति सिचः कित्त्वमिकारश्चान्तादेशः । ‘ ह्रस्वादङ्गात् ' (पा. सू. ८. २, २७ ) इति सिचो लोपः । यद्योगादनिघातः । ‘ तिङि चोदात्तवति ' इति गतेर्निघातः ॥ तत् “आविदे॥ कृत्यार्थे केन्प्रत्ययः ॥ तव वृत्रवधादिकं वीर्यं प्रज्ञापयितुं “शंसम् अशंसम् । शस्त्रैरहं स्तौमि ॥ शन्सु स्तुतौ । लङ्। वाक्यभेदादनिघातः ॥ किंच हे “उग्र उद्गूर्णबल “अत्र अस्मिन् काले एव “ते त्वदीयं “महिमानमिन्द्रियं वीर्यं च “विश्वे सर्वे “मरुतः “त्मना आत्मना “सह एव “अवर्धन् । वर्णलोपश्छान्दसः । अवर्धयन् । मरुतो हीन्द्रस्य वीर्यं भवति ॥


ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒ः प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् ।

अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑ः सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥४

ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् ।

अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥४

जज्ञानः । एव । वि । अबाधत । स्पृधः । प्र । अपश्यत् । वीरः । अभि । पौंस्यम् । रणम् ।

अवृश्चत् । अद्रिम् । अव । सऽस्यदः । सृजत् । अस्तभ्नात् । नाकम् । सुऽअपस्यया । पृथुम् ॥४

स इन्द्रः "जज्ञान “एव ॥ ‘ जनी प्रादुर्भावे' । छान्दसस्य लिटः कानच् ॥ जायमाना एव “स्पृधः शत्रून् “व्यबाधत अत्यर्थमपीडयत् ॥ स्पृधः । ‘ स्पर्ध संघर्षे । क्विप। ‘ अपस्पृधेथाम् । इति निपातनेनैकत्र संप्रसारणदर्शनादत्रापि भवति ॥ अत एव “वीरः समर्थः सः “रणं संग्रामम् अभिलक्ष्य “पौंस्यम् आत्मीयं बलं “प्रापश्यत् । अस्यैतावद्बलमिति प्रकर्षेण पश्यति । जानाति । किंच “अद्रिं मेघम् “अवृश्चत् वर्षणार्थमच्छिनत् । अनन्तरं “सस्यदः ॥ ‘ स्यन्दू प्रस्रवणे'। क्विप् । शसि नलोपः । सह स्यन्दमाना अपः “अव “सृजत् अवाङ्मुखमसृजत् निरामयत्। तथा सः “पृथुं महान्तं “नाकं लोकं “स्वपस्यया ॥ सुप आत्मनः क्यच् । अ प्रत्ययात् ' ( पा. सू. ३.३.१०२) इति स्त्रियामप्रत्ययः ॥ शोभनकर्मेच्छया अस्तभ्नात् । निरुद्धमकरोत् ।। स्तम्भिः सौत्रो धातुः ।।


आदिन्द्र॑ः स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।

अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥५

आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ ।

अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥५

आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत ।

अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे ॥५

“आत् अपि च स “इन्द्रः “तविषीः महतीः सेनाः “सत्रा सहैव “अपत्यत अगच्छत् । ‘पद गतौ । दैवादिकः । वर्णव्यत्ययः ।। यद्वा । पत्यत इत्यैश्वर्यकर्मा । सेनानामीष्टे । तासामीश्वरोऽभवदित्यर्थः । स एव “द्यावापृथिवी द्यावापृथिव्यौ “वरीयः ॥ तृतीयायाः सुः । उरुतरेण महिम्ना “अबाधत । तयोरन्तःस्थितान् शत्रूनवधीदित्यर्थः । “धृषितः शत्रुवधे प्रगल्भः सन् “आयसम् अयोमयं “वज्रम् अवाभरत् अधारयत्। किमर्थम् । “मित्राय “वरुणाय “दाशुषे हविर्दत्तवते यज्वने च “शेवं सुखं कर्तुम् ॥ ॥ १४ ॥


इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ ।

वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥६

इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ ।

वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥६

इन्द्रस्य । अत्र । तविषीभ्यः । विऽरप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे ।

वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परिऽवृतम् ॥६

“अत्र अस्मिन् काल एव “विरप्शिनः महतो विविधं शब्दायमानस्य वा “ऋघायतः शत्रून् हिंसतः “इन्द्रस्य “तविषीभ्यः । षष्ठ्यर्थे चतुर्थी । बलानां “मन्यवे प्रख्यापनाय “अरंहयन्त । आपो निरगच्छन् । रहिर्गत्यर्थः। “उग्रः उद्गूर्णः सः “अपः उदकानि “बिभ्रतं धारयन्तं “तमसा “परीवृतं परितो वेष्टितम् । वृणोतेः कर्मणि क्तः । ‘ गतिरनन्तरः' इति स्वरः । संहितायाम् ' उपसर्गस्य घञि (पा, सू. ६.३० १२२) इति दीर्घः ।। तं “वृत्रं “यत् यस्मिन् काले “ओजसा स्ववीर्येण “व्यवृश्चत् अत्यर्थमवधीत् ।।


या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतु॑ः ।

ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥७

या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ ।

ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒ते । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥७

या । वीर्याणि । प्रथमानि । कर्त्वा । महिऽत्वेभिः । यतमानौ । सम्ऽईयतुः ।

ध्वान्तम् । तमः । अव । दध्वसे । हते । इन्द्रः । मह्ना । पूर्वऽहूतौ । अपत्यत ॥७

"महित्वेभिः मंहनीयैः स्वबलैः “यतमानौ युद्धाय प्रयत्नं कुर्वन्तौ इन्द्रवृत्रौ “प्रथमानि पूर्वभावीनि “कर्त्वा । कृत्यार्थे त्वन्प्रत्ययः । कर्तव्यानि “या यानि “वीर्याणि “समीयतुः संयोजयामासतुः ।। ‘ इण् गतौ' । लिटि ‘ दीर्घं इणः किति' (पा. सू. ७. ४. ६९ ) इति दीर्घः ।। तयोर्मध्ये इन्द्रेण वृत्रे “हते सति “ध्वान्तम् अतिनिबिडं “तमः “अव “दध्वसे। अवध्वस्तं विनष्टमभूत् ।। ध्वंसेर्लिट् । कित्त्वान्नलोपः ।। “इन्द्रः तु “मह्ना स्वमहिम्ना “पूर्वहूतौ प्रथमाह्वाने “अपत्यत अगच्छत् । शूराणां मध्येऽयमेव प्रथममाहूयमानोऽभवदित्यर्थः ।।


विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्सोम॑वत्या वच॒स्यया॑ ।

र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥८

विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते॒ । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ ।

र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥८

विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमऽवत्या । वचस्यया ।

रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥८

हे इन्द्र “अध वृत्रहननानन्तरं “विश्वे “देवासः देवा ऋत्विजः “सोमवत्या सोमयुक्त्या “वचस्यया स्तुतीच्छया “ते त्वदीयानि “वृष्ण्यानि बलानि “अवर्धयन् वर्धयन्ति। “इन्द्रस्य “हन्मना हननसाधनेन वज्रेण “रद्धम् । रध हिंसासंराध्योः । हिँसितम् “अहिं “वृत्रम् अपामावरकं मेघं “तृषु शीघ्रम् “अन्नमावयत् अभक्षयत् । तज्जन्येनोदकेन संपादितमन्नं जनोऽभक्षयदित्यर्थः । आवयतिरत्तिकर्मा । तत्र दृष्टान्तः । “अग्निर्न यथाग्निः “जम्भैः आत्मीयैर्दन्तैरन्नं भक्षयति तद्वत् ॥


भूरि॒ दक्षे॑भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभि॑ः स॒ख्यानि॒ प्र वो॑चत ।

इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥९

भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ ।

इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥९

भूरि । दक्षेभिः । वचनेभिः । ऋक्वऽभिः । सख्येभिः । सख्यानि । प्र । वोचत ।

इन्द्रः । धुनिम् । च । चुमुरिम् । च । दम्भयन् । श्रद्धाऽमनस्या । शृणुते । दभीतये ॥९

हे स्तोतारः “दक्षेभिः वर्धनहेतुभिः “ऋक्वभिः ॥ ‘ छन्दसीवनिपौ' इति वनिप्प्रत्ययः । अयस्मयादित्वेन भत्वाज्जश्त्वाभावः । पदत्वात् कुत्वम् (का. १. ४. २०) ।। मन्त्रयुक्तैः “सख्येभिः ॥ तदर्हतीत्यर्थे ‘ छन्दसि च ' इति यत्प्रत्ययः ।। सख्युरिन्द्रस्य योग्यैः “वचनेभिः वचनैः स्तोत्रैः “सख्यानि स्तुत्यस्तोतृलक्षणान्यभिलक्ष्य “भूरि बहुवारम् इन्द्रं “प्र “वोचत प्रबूत अभिष्टुत । “इन्द्रः तु “दभीतये एतन्नामकाय राजर्षये “धुनिं “च "चुमुरिं च एतन्नामकौ द्वावसुरौ “दम्भयन् हिंसन् “श्रद्धामनस्या । मनःशब्दात् क्यच् । श्रद्धायुक्तया मनस इच्छया “शृणुते । युष्माभिः कृतानि स्तोत्राणि शृणोति ॥


त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।

सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥१०

त्वम् । पु॒रूणि॑ । आ । भ॒र॒ । सु॒ऽअश्व्या॑ । येभिः॑ । मंसै॑ । नि॒ऽवच॑नानि । शंस॑न् ।

सु॒ऽगेभिः॑ । विश्वा॑ । दुः॒ऽइ॒ता । त॒रे॒म॒ । वि॒दो इति॑ । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥१०

त्वम् । पुरूणि । आ । भर । सुऽअश्व्या । येभिः । मंसै । निऽवचनानि । शंसन् ।

सुऽगेभिः । विश्वा । दुःऽइता । तरेम । विदो इति । सु । नः । उर्विया । गाधम् । अद्य ॥१०

हे इन्द्र “त्वं “स्वश्व्या स्वश्व्यानि शोभनाश्वयुक्तानि “पुरूणि बहूनि धनानि मह्यम् “आ “भर आहर प्रयच्छ । “निवचनानि नितरां वक्तव्यानि स्तोत्राणि “शंसन् अहं “येभिः धनैः “मंसै । मन्यतिरर्चतिकर्मा । देवान् पूजयानि तानि देहि ॥ मन्यतेर्लोटि ' बहुलं छन्दसि' इति विकरणस्य लुक् । सिप्यडागमः । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वरः ॥ “सुगेभिः सुष्ठु गन्तव्यैस्तैर्धनैः स्तोत्रैर्वा “विश्वा सर्वाणि “दुरिता दुरितानि पापानि “तरेम । हे इन्द्र “अद्य अस्मिन् कर्मणि “गाधं ग्रथ्यमानं क्रियमाणं "नः अस्मदीयं स्तोत्रम् “उर्विया उरुत्वेन बहुमानेन 'सु' सुष्ठु “विदो । विद उ । जानीह्येव ।। ॥ १५ ॥

टिप्पणी

तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रियमिति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते - ऐ.ब्रा. ५.१८.१६


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११३&oldid=289656" इत्यस्माद् प्रतिप्राप्तम्