ऋग्वेदः सूक्तं १०.१५०
← सूक्तं १०.१४९ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५० मृडीको वासिष्ठः। |
सूक्तं १०.१५१ → |
दे. अग्निः । बृहती, ४-५ उपरिष्टाज्ज्योतिः, ४ जगती वा। |
समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन ।
आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥१॥
इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे ॥२॥
त्वामु जातवेदसं विश्ववारं गृणे धिया ।
अग्ने देवाँ आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान् ॥३॥
अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे ।
अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥४॥
अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे ।
अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥५॥
सायणभाष्यम्
' समिद्धः ' इति पञ्चर्चं द्वाविंशं सूक्तं वसिष्ठपुत्रस्य मृळीकस्यार्षमाग्नेयम् । चतुर्थीपञ्चम्यानुपरिष्टाज्ज्योतिषी त्रिद्वादशाष्टकवत्यौ । अक्षरव्यूहेन चतुर्थी जगती वा । शिष्टा बृहत्यः । तथा चानुक्रान्तं-' समिद्धो मृळीको वासिष्ठ आग्नेयं बार्हतमन्त्ये उपरिष्टाज्ज्योतिषी जगत्युपान्त्या वा 'इति । गतो विनियोगः ।।
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥१
सम्ऽइ॑द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय॑ । नः॒ । आ । ग॒हि॒ ॥१
सम्ऽइद्धः । चित् । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।
आदित्यैः । रुद्रैः । वसुऽभिः । नः । आ । गहि । मृळीकाय । नः । आ । गहि ॥१
हे हव्यवाहन हव्यानां हविषां वोढरग्ने “समिद्धश्चित् संदीप्तोऽपि “देवेभ्यः यागार्थं “समिध्यसे । पुनरप्यृत्विग्भिः समिद्भिः संदीप्यसे । स त्वम् “आदित्यैः आदित्यादिभिस्त्रिभिर्गणैः सार्धं “नः अस्मान् “आ “गहि आगच्छ । तथा “नः अस्माकं “मृळीकाय सुखाय तदर्थमपि “आ “गहि । यद्वा । मृळीकायैतत्संज्ञाय नो मह्यमृषये श्रेयांसि कर्तुमागच्छ ।।
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥२
इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।
मर्ता॑सः । त्वा॒ । स॒म्ऽइ॒धा॒न॒ । ह॒वा॒म॒हे॒ । मृ॒ळी॒काय॑ । ह॒वा॒म॒हे॒ ॥२
इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपऽआगहि ।
मर्तासः । त्वा । सम्ऽइधान । हवामहे । मृळीकाय । हवामहे ॥२
हे अग्ने “इमम् अस्माभिः क्रियमाणं पुरोवर्तिनं “यज्ञमिदं “वचः स्तोत्रं व “जुजुषाणः सेवमानः “उपागहि उपागच्छ । हे “समिधान समिध्यमान “मर्तास: मर्ता मनुष्याः “त्वा त्वां “हवामहे आह्वयामहे । "मृळीकाय सुखायैतत्संज्ञाय वा ऋषये त्वामेवाह्वयामहे ॥
त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥३
त्वाम् । ऊं॒ इति॑ । जा॒तऽवे॑दसम् । वि॒श्वऽवा॑रम् । गृ॒णे॒ । धि॒या ।
अग्ने॑ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒यऽव्र॑तान् । मृ॒ळी॒काय॑ । प्रि॒यऽव्र॑तान् ॥३
त्वाम् । ऊं इति । जातऽवेदसम् । विश्वऽवारम् । गृणे । धिया ।
अग्ने । देवान् । आ । वह । नः । प्रियऽव्रतान् । मृळीकाय । प्रियऽव्रतान् ॥३
हे “अग्ने “विश्ववारं विश्वैः सर्वैर्वरणीयं “जातवेदसं “जातानां वेदितारं जातप्रज्ञं जातधनं वा “त्वामु त्वामेव “धिया स्तुत्या “गृणे स्तौमि। ‘ गॄ शब्दे ' । क्रैयादिकः । प्वादित्वाद्धूस्वः । “प्रियव्रतान् प्रियाणि व्रतानि कर्माणि येषां तादृशान् "देवान् नः अस्मदर्थम् “आ “वह “आनय । अस्मद्यज्ञं प्रापय । “मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यं प्रियव्रतान् तानेवावह ॥
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे ।
अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥४
अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ ।
अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥४
अग्निः । देवः । देवानाम् । अभवत् । पुरःऽहितः । अग्निम् । मनुष्याः । ऋषयः । सम् । ईधिरे ।
अग्निम् । महः । धनऽसातौ । अहम् । हुवे । मृळीकम् । धनऽसातये ॥४
“देवः दानादिगुणयुक्तः “अग्निः “देवानाम् अन्येषां “पुरोहितः पुरस्ताद्धृतः “अभवत् । यद्वा पुरोहितवद्धितकार्यभवत् । यत एवमतः कारणात् तमेव “अग्निम् “ऋषयः अतीन्द्रियार्थदर्शिनो “मनुष्याः मानवा यजमानाः “समीधिरे संदीपयन्ति । अपि च तम् “अग्निं “महः महतः “धनसातौ धनस्य संभजने निमित्त भूते “अहं “हुवे आह्वये । विशेषणसापेक्षस्यापि धनशब्दस्य छान्दसः समासः । यद्वा । महतो यागस्य कर्तारमग्निमित्यर्थः । “धनसातये धनलाभार्थं “मृळीकं सुखमेतत्संज्ञं वा मां सोऽग्निः करोत्वित्यर्थः ।।
अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥५
अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे ।
अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥५
अग्निः । अत्रिम् । भरत्ऽवाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आऽहवे ।
अग्निम् । वसिष्ठः । हवते । पुरःऽहितः । मृळीकाय । पुरःऽहितः ॥५
“अत्रिं “भरद्वाजं “गविष्ठिरं “कण्वं “त्रसदस्युं च “नः अस्मान् “आहवे संग्रामे अयम् “अग्निः “प्रावत् प्ररक्षतु । “पुरोहितः पुरोहितवद्धितकारी मम पिता “वसिष्ठः ऋषिः अग्निं “हवते स्तुतिभिराह्वयति । स चाहूतः “मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यं पुरोहितः पुरोधा देवानां पुरःस्थापयिता भवतु ॥ ॥ ८ ॥
मण्डल १० | ||||
---|---|---|---|---|