ऋग्वेदः सूक्तं १०.३७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.३६ ऋग्वेदः - मण्डल १०
सूक्तं १०.३७
सौर्योऽभितपाः
सूक्तं १०.३८ →
दे. सूर्यः। जगती, १० त्रिष्टुप्


नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥१॥
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च ।
विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥२॥
न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि ।
प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥३॥
येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना ।
तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ॥४॥
विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु ।
यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥५॥
तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥६॥
विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः ।
उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥७॥
महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः ।
आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥८॥
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः ।
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥९॥
शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।
यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥१०॥
अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।
अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥११॥
यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥१२॥


सायणभाष्यम्

नमो मित्रस्य ' इति द्वादशर्चमष्टमं सूक्तम् । अभितपा नाम सूर्यपुत्र ऋषिः । इदमादीनि पञ्च सूक्तानि जागतानि । अस्य सूक्तस्य दशमी त्रिष्टुप् । सूर्यो देवता । तथा चानुकान्तं -- नमो द्वादश सौर्योऽभितपाः सौर्यं जागर्त वै त्रिष्टुब्दशमी ' इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्यकाण्ड एतत्सूक्तम् । सूत्रितं च --- चित्रं देवानां नमो मित्रस्य ' (आश्व. श्रौ. ६. ५) इति । विषुवति निष्केवल्य आद्यस्तृचोऽनुरूपः । सूत्रितं च -- विभ्राड्बृहत्पिबतु सौम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ८. ६ ) इति । स्वपन्तमभ्यस्तमये सति रात्रिशेषं स्थित्वा प्रातः ‘ येन सूर्यं ज्योतिषा' इत्यादिभिः पञ्चभिः सूर्यं उपस्थेयः । सूत्रितं च --- अव्याधित चेत्स्वपन्तमादित्योऽभ्यस्तमियाद्वाग्यतोऽनुपविशन् रात्रिशेषं भूत्वा येन सूर्यं ज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ' (आश्. गृ. ३.७.१ )। स्वपन्तमभ्युदिते ' यस्य ते विश्वा ' इत्यादिभिश्चतसृभिः सूर्य उपस्थेयः । सूत्रितं च --अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तराभिश्चतसृभिरुपस्थानम् ' ( आश्व. गृ. ३, ७, २ ) इति । एकादशिनस्य सौर्यस्य पशोर्हविषी याज्या। सूत्रितं च --- शं नो भव चक्षसा शं नो अह्ना वायो भूष शुचिपाः' (आश्व. श्रौ. ३. ८) इति । होत्रकाणां शकलाधाने “ यद्वो देवाः ' इत्येषा ( आश्व. श्रौ. ६, १२ )। विवाहे कन्यारोदनीये ‘ जीवं रुदन्ती' इत्येषा जप्या ( आश्व. गृ. १, ८, ४ ) ॥


नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।

दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥१

नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।

दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥१

नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत ।

दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥१

हे ऋत्विजः यूयं “मित्रस्य "वरुणस्य मित्रावरुणयोः "चक्षसे द्रष्ट्रे "महः महते “देवाय द्योतमानाय "दूरेदृशे दूरे सन्तमपि पश्यते "देवजाताय देवेषु जाताय “केतवे विश्वस्य प्रज्ञापकाय “दिवः "पुत्राय पुत्रभूताय । दिवि जायमानत्वात् तत्पुत्रत्वव्यपदेशः । "सूर्याय सूर्यार्थं "नमः कृत्वा “तत् विहितम् “ऋतं यागादिलक्षणं कर्म "सपर्यत पूजयत । “शंसत स्तुतिमपि कुरुत ॥


सा मा॑ स॒त्योक्ति॒ः परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।

विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्य॑ः ॥२

सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ ।

विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥२

सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च ।

विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥२

“सा “सत्योक्तिः तत्सत्यवचनं "मा मां "विश्वतः सर्वतः "परि “पातु परिरक्षतु । यया सत्योक्त्या "यत्र यस्मिन् देशे “द्यावा “च द्यावापृथिव्यौ "अहानि रात्रयः "च "ततनन् अतन्वन् तत्र "विश्वं सर्वम् "अन्यत् भूतजातं “नि "विशते विश्राम्यति । "यत् एतद्भूतजातम् “एजति कम्पते “विश्वाहा सर्वदा "आपः च स्यन्दन्ते "विश्वाहा सर्वदा "सूर्यः च "उदेति । सा सत्योक्तिर्मां परिपात्वित्यर्थः ॥ ।


न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभि॑ः पत॒रै र॑थ॒र्यसि॑ ।

प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥३

न । ते॒ । अदे॑वः । प्र॒ऽदिवः॑ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः॑ । प॒त॒रैः । र॒थ॒र्यसि॑ ।

प्रा॒चीन॑म् । अ॒न्यत् । अनु॑ । व॒र्त॒ते॒ । रजः॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । या॒सि॒ । सू॒र्य॒ ॥३

न । ते । अदेवः । प्रऽदिवः । नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि ।

प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य ॥३

हे "सूर्य “ते तव समीपे “प्रदिवः प्रत्नः पुरातनः कश्चित् "अदेवः असुरो राक्षसो वा "न "नि “वासते न निवसति । कदेत्यत आह । "यत् यदा त्वं “पतरैः गमनशीलैः “एतशेभिः अश्वैः “रथर्यसि रथं कामयसे योक्तुम् । किंच "प्राचीनमन्यत् त्वदीयं ज्योतिः "रजः उदकम् "अनु "वर्तते । “अन्येन तेन "ज्योतिषा “उत् "यासि उदेषि । यद्वा । प्राचीनमन्यत् रजश्चन्द्राख्यं ज्योतिस्त्वामनु वर्तते ततस्त्वमन्येन ज्योतिषा सहोदेषीत्यर्थः ॥


येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।

तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥४

येन॑ । सू॒र्य॒ । ज्योति॑षा । बाध॑से । तमः॑ । जग॑त् । च॒ । विश्व॑म् । उ॒त्ऽइ॒यर्षि॑ । भा॒नुना॑ ।

तेन॑ । अ॒स्मत् । विश्वा॑म् । अनि॑राम् । अना॑हुतिम् । अप॑ । अमी॑वाम् । अप॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥४

येन । सूर्य । ज्योतिषा । बाधसे । तमः । जगत् । च । विश्वम् । उत्ऽइयर्षि । भानुना ।

तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुःऽस्वप्न्यम् । सुव ॥४

हे "सूर्य त्वं "येन "ज्योतिषा तेजसा “तमः अन्धकारं "बाधसे निवारयसि येन "च “भानुना तेजसा "विश्वं सर्वं "जगत् जङ्गमम् "उदियर्षि उद्गमयसि "तेन ज्योतिषा “अस्मत् अस्मत्तः “अनिराम् अन्नाभावम् “अनाहुतिम् अहोमं च “अमीवां रोगजातं च “अप “सुव अपगमय । “दुःस्वप्न्यं दुःस्वप्नप्रभवमनिष्टं च “अप सुवः ॥


विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।

यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥५

विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ ।

यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥५

विश्वस्य । हि । प्रऽइषितः । रक्षसि । व्रतम् । अहेळयन् । उत्ऽचरसि । स्वधाः । अनु ।

यत् । अद्य । त्वा । सूर्य । उपऽब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥५

हे “सूर्य “प्रेषितः प्रेरितस्त्वम् “अहेळयन् अक्रुध्यन् “विश्वस्य सर्वस्य यजमानस्य “व्रतं कर्म “रक्षसि “हि । यज्ञविध्वंसकेभ्यो राक्षसेभ्यः पालयसि । “स्वधा: हवींषि “अनु “उच्चरसि उद्गच्छसि च । प्रातर्होमे निवृत्ते सति पश्चादुद्गच्छसीत्यर्थः । तथा च यत् “यदा “अद्य अस्मिन्नहनि “त्वा त्वाम् “उपब्रवामहै उपब्रूमः तदा “नः अस्माकं “तं “क्रतुं तत्कर्म "देवाः इन्द्रादयः “अनु “मंसीरत अनुमन्यन्ताम् ।।


तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑ः शृण्वन्तु म॒रुतो॒ हवं॒ वच॑ः ।

मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥६

तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ ।

मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥६

तम् । नः । द्यावापृथिवी इति । तत् । नः । आपः । इन्द्रः । शृण्वन्तु । मरुतः । हवम् । वचः ।

मा । शूने । भूम । सूर्यस्य । सम्ऽदृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि ॥६

“द्यावापृथिवी द्यावापृथिव्यौ “आपः च “इन्द्रः च मरुतः च “नः अस्माकं “तं “हवम् आह्वानं “नः अस्माकं “तत “वचः स्तुतिरूपं वाक्यं च । न इति द्विरुक्तिरादरार्था। “शृण्वन्तु । किंच वयं “सूर्यस्य “संदृशि संदर्शने “शूने प्रवृद्धाय दुःखाय “मा “भूम मैव भवेम । किंतु “जीवन्तः चिरं प्राणान् धारयन्तो वयं “भद्रं कल्याणं “जरणां वृद्धत्वममरत्वं च "अशीमहि प्राप्नुयाम ॥ ॥ १२ ॥


वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः ।

उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥७

वि॒श्वाहा॑ । त्वा॒ । सु॒ऽमन॑सः । सु॒ऽचक्ष॑सः । प्र॒जाऽव॑न्तः । अ॒न॒मी॒वाः । अना॑गसः ।

उ॒त्ऽयन्त॑म् । त्वा॒ । मि॒त्र॒ऽम॒हः॒ । दि॒वेऽदि॑वे । ज्योक् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥७

विश्वाहा । त्वा । सुऽमनसः । सुऽचक्षसः । प्रजाऽवन्तः । अनमीवाः । अनागसः ।

उत्ऽयन्तम् । त्वा । मित्रऽमहः । दिवेऽदिवे । ज्योक् । जीवाः । प्रति । पश्येम । सूर्य ॥७

हे “सूर्य “त्वा त्वां “सुमनसः प्रीतियुक्तमनस्काः “सुचक्षसः सुदर्शनाः “प्रजावन्तः पुत्राद्युपेताः “अनमीवाः रोगरहिताः “अनागसः अपराधवर्जिताश्च वयं “विश्वाहा सर्वदा यजेमेति शेषः । किंच हे “मित्रमहः मित्राणां पूजयितः “सूर्यं “दिवेदिवे प्रतिदिनम् “उद्यन्तम् उदयं प्राप्नुवन्तं “त्वा त्वां “ज्योक् चिरं “जीवाः जीवन्तो वयं “प्रति “पश्येम ॥


महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मय॑ः ।

आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥८

महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ ।

आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥८

महि । ज्योतिः । बिभ्रतम् । त्वा । विऽचक्षण । भास्वन्तम् । चक्षुषेऽचक्षुषे । मयः ।

आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥८

हे “विचक्षण विद्रष्टः “सूर्यं “महि महत् “ज्योतिः तेजः “बिभ्रतं धारयन्तं “भास्वन्तं दीप्तिमन्तं “चक्षुषेचक्षुषे सर्वेषां दृष्टॄणां चक्षुषे “मयः सुखकरं “बृहतः महतः “पाजसः बलवतः “परि । महतो बलवतः समुद्रस्योदकस्योपरीत्यर्थः । “आरोहन्तं “त्वा त्वां “जीवाः चिरं जीवन्तः “वयं “प्रति प्रतिदिनं “पश्येम ॥


यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभि॑ः ।

अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥९

यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ ।

अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥९

यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तुऽभिः ।

अनागाःऽत्वेन । हरिऽकेश । सूर्य । अह्नाऽअह्ना । नः । वस्यसाऽवस्यसा । उत् । इहि ॥९

हे "हरिकेश हरितवर्णकेश “सूर्य “यस्य “ते तव “केतुना प्रज्ञानेन “विश्वा विश्वानि “भुवनानि भूतजातानि “प्र “च “ईरते प्रकर्षेण गच्छन्ति “अक्तुभिः रात्रिभिः “नि “विशन्ते “च विश्राम्यन्ति च । स्वपन्तीत्यर्थः । स त्वं “नः अस्माकम् “अनागास्त्वेन अपराधवर्जितत्वेन “वस्यसावस्यसा अत्यन्तश्रेयस्करेण वसुमत्तरेण वा “अह्नाह्ना तेन तेन दिवसेन “उदिहि उद्गच्छ॥


शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।

यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥१०

शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒मा । शम् । घृ॒णेन॑ ।

यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥१०

शम् । नः । भव । चक्षसा । सम् । नः । अह्ना । शम् । भानुना । शम् । हिमा । शम् । घृणेन ।

यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम् ॥१०

हे "सूर्य त्वं “चक्षसा तेजसा “नः अस्माकं “शं सुखकरः “भव । “अह्ना दिवसेन च “शं सुखकरः “नः अस्माकं भव । “भानुना रश्मिना च “शं भव अस्माकं सुखकरो भव । “हिमा शैत्येन च “शं भव । “घृणेन औष्ण्येन च शंकरो भव । “यथा यादृशेन “नः अस्माकम् “अध्वन् अध्वनि मार्गे “शं भवति “दुरोणे गृहे च “शं सुखम् “असत् भवति तत् “चित्रं पूजनीयं “द्रविणं धनं “धेहि अस्मभ्यं प्रयच्छ॥


अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।

अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥११

अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।

अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥११

अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्विऽपदे । चतुःऽपदे ।

अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥११

हे “देवाः सूर्येणाभ्यनुज्ञाता यूयम् “अस्माकं “द्विपदे मनुष्यात्मकाय “चतुष्पदे पश्वात्मकाय च उभयाय उभयविधाय “जन्मने भूतजाताय “शर्म सुखं “यच्छत दत्त । किंच यथास्मत्पुत्रादिकम् “अदत् भक्षणीयं भक्षयत् “पिबत् पानीयं पिबच्च “ऊर्जयमानं बलवन्तमिवात्मानमाचरच्च “आशितं सुहितं च भवति तथा “शं रोगशान्तिनिमित्तकं सुखं “योः विषययोगजनितं सुखं च "अरपः अपापं च "दधातन प्रयच्छत ॥


यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् ।

अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥१२

यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् ।

अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥१२

यत् । वः । देवाः । चकृम । जिह्वया । गुरु । मनसः । वा । प्रऽयुती । देवऽहेळनम् ।

अरावा । यः । नः । अभि । दुच्छुनऽयते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन ॥१२

हे "वसवः वासयितारः "देवाः “वः युष्माकं वयं "जिह्वया वाचा "मनसः "प्रयुती प्रयुत्या प्रयोगेण “गुरु महत् "देवहेळनं देवक्रोधनं च "यत् "एनः “चकृम अकार्ष्म “यः अस्मच्छत्रुः "नः अस्मान् "अभि प्रति "अरावा गमनवान् भूत्वा “दुच्छुनायते पापान्याचरति अस्मानुद्वेजयति वा “तस्मिन् अस्मच्छत्रौ “तत “एनः अस्माभिः कृतं पापं “नि “धेतन सूर्यस्याज्ञया निधत्त । स्थापयतेत्यर्थः ॥ ॥ १३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३७&oldid=202097" इत्यस्माद् पुनः प्राप्तिः