ऋग्वेदः सूक्तं १०.१५२
← सूक्तं १०.१५१ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५२ शासो भारद्वाजः |
सूक्तं १०.१५३ → |
दे. इन्द्रः। अनुष्टुप् |
शास इत्था महाँ अस्यमित्रखादो अद्भुतः ।
न यस्य हन्यते सखा न जीयते कदा चन ॥१॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥२॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥३॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥
सायणभाष्यम्
द्वादशेऽनुवाके चत्वारिंशत्सूक्तानि । तत्र ‘ शासः इत्था ' इति पञ्चर्चं प्रथमं सूक्तं भरद्वाजपुत्रस्य शासनाम्न आर्षमानुष्टुभमैन्द्रम् । अनुक्रान्तं च -- शासः शासो भारद्वाजः । इति । युद्धाय संनद्धं राजानमनेनेक्षेत् ! तथा च सूत्रितम् - ' अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः ( आश्व. गृ. ३. १२. १३ ) इति ।
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।
न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥१
शा॒सः । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽखा॒दः । अद्भु॑तः ।
न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जीय॑ते । कदा॑ । च॒न ॥१
शासः । इत्था । महान् । असि । अमित्रऽखादः । अद्भुतः ।
न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥१
“शासः एतत्संज्ञोऽहम् “इत्था इत्थमनेन वक्ष्यमाण प्रकारेणेन्द्रं स्तौमीति शेषः । हे इन्द्र त्वं “महाँ “असि सर्वेभ्योऽधिको भवसि । “अमित्रखादः अमित्राणां शत्रूणां खादिता विनाशयिता अत एव “अद्भुतः आश्चर्यभूतश्च भवसि । “यस्य इन्र्रस्य “सखा मित्रभूतः पुरुषः “कदा “चन कदाचिदपि “न “हन्यते न हिंस्यते “न “जीयते न च शत्रुभिः पराजितो भवति स त्वं महाँ असीत्यन्वयः।
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्र॑ः पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥२
स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी ।
वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥२
स्वस्तिऽदाः । विशः । पतिः । वृत्रऽहा । विऽमृधः । वशी ।
वृषा । इन्द्रः । पुरः । एतु । नः । सोमऽपाः । अभयम्ऽकरः ॥२
“स्वस्तिदाः स्वस्तेरविनाशस्य दाता “विशस्पतिः सर्वस्याः प्रजायाः पालयिता “वृत्रहा वृत्राणां शत्रूणां हन्ता “विमृधः संग्रामकारी “वशी वशीकर्ता “वृषा वर्षिता कामानां “सोमपाः सोमस्य पाता एवंविधः “इन्द्रः “अभयंकरः अभयस्य भयराहित्यस्य कर्ता सन् “नः अस्माकं “पुर “एतु पुरतो गच्छतु ।।
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥३
वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ ।
वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥३
वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनू इति । रुज ।
वि । मन्युम् । इन्द्र । वृत्रऽहन् । अमित्रस्य । अभिऽदासतः ॥३
हे इन्द्र “रक्षः राक्षसजातं “वि “जहि विनाशय । “मृधः संग्रामकारिणः शत्रूंश्च “वि जहि । “वृत्रस्य अवरकस्यासुरस्य “हनू कपोलप्रान्तौ “वि “रुज विशेषेण भग्नौ कुरु । हे “वृत्रहन् “इन्द्र “अभिदासतः अस्मानुपक्षयतः “अमित्रस्य शत्रोः “मन्युं क्रोधमपि विनाशय ।।
‘वि न इन्द्र' इति वैमृधस्य हविषोऽनुवाक्या । सूत्रितं च--- ‘ वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्ठाः ' ( आश्व. श्रौ. २. १०) इति ।।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑ः ॥४
वि । नः॒ । इ॒न्द्र॒ । मृधः॑ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः ।
यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रम् । ग॒म॒य॒ । तमः॑ ॥४
वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः ।
यः । अस्मान् । अभिऽदासति । अधरम् । गमय । तमः ॥४
हे “इन्द्र “नः अस्माकं “मृधः संग्रामकारिणः शत्रून् “वि “जहि विनाशय । तथा “पृतन्यतः पृतना: सेना आत्मन इच्छतो युयुत्समानानपि “नीचा “यच्छ । नीचीनमवाङ्मुखं यच्छ। गमय । “यः शत्रुः “अस्मान् “अभिदासति अभित उपक्षपयति तम् “अधरं निकृष्टं “तमः अन्धकारं मरणलक्षणं “गमय प्रापय ।।
अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् ।
वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥५
अप॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अप॑ । जिज्या॑सतः । व॒धम् ।
वि । म॒न्योः । शर्म॑ । य॒च्छ॒ । वरी॑यः । य॒व॒य॒ । व॒धम् ॥५
अप । इन्द्र । द्विषतः । मनः । अप । जिज्यासतः । वधम् ।
वि । मन्योः । शर्म । यच्छ । वरीयः । यवय । वधम् ॥५
हे इन्द्र “द्विषतः द्वेष्टुः शत्रोः “मनः “अप जहि । “जिज्यासतः अस्माकं वयोहानिमिच्छतश्च “वधं हननसाधनमायुधं च “अप जहि । “मन्योः शत्रुसंबन्धिनः क्रोधाच्चास्मान् रक्ष। “वरीयः उरुतरं “शर्म सुख विशेषेण “यच्छ देहि। “वधं शत्रुकृतं हननं च “यवय अस्मत्तः पृथक्कुरु ॥ ॥१०॥
मण्डल १० | ||||
---|---|---|---|---|