ऋग्वेदः सूक्तं १०.१३६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१३५ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३६
[[लेखकः :|]]
सूक्तं १०.१३७ →
ऋ. १ जूतिः, २ वातजूतिः, ३ विप्रजूतिः, ४ वृषाणकः, ५ करिक्रतः, ६ एतशः, ७ ऋष्यशृङ्गः (एते वातरशना मुनयः)।

दे. केशिनः - अग्नि - सूर्य-वायवः । अनुष्टुप्

शेषशायी विष्णुः


केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥१॥
मुनयो वातरशनाः पिशङ्गा वसते मला ।
वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥२॥
उन्मदिता मौनेयेन वाताँ आ तस्थिमा वयम् ।
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥३॥
अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।
मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥४॥
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥५॥
अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् ।
केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥६॥
वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा ।
केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥७॥

सायणभाष्यम्

'केशी ' इति सप्तर्चमष्टमं सूक्तमग्निसूर्यवायुदेवताकम् । वातरशनपुत्रा जूतिवातजूतिप्रभृतयः प्रत्यृचं क्रमेणर्षयः । तथा चानुक्रान्तं- केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिर्वृषाणकः करिक्रत एतश ऋष्यशृङ्गश्चैकर्चाः कैशिनम्' इति । गतो विनियोगः ॥


के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।

के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥१

के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ ।

के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥

केशी । अग्निम् । केशी । विषम् । केशी । बिभर्ति । रोदसी इति ।

केशी । विश्वम् । स्वः । दृशे । केशी । इदम् । ज्योतिः । उच्यते ॥ १ ॥

केशाः केशस्थानीया रश्मयः । तद्वन्तः केशिनोऽग्निर्वायुः सूर्यश्च । एते त्रयः स्तूयन्ते। "केशी रश्मिभिर्युक्तः प्रकाशमानो वा सूर्यः "अग्निं “बिभर्ति । हविर्भिः पोषयति धारयति वा । कालविशेषे ह्यग्नेः पोषणाय होमः । स च कालविशेषः सूर्यगत्यधीन इति सूर्य एव बिभर्तीत्युच्यते। तथा विषम् । उदकनामैतत् । उदकं रश्मिभिर्धर्मसमय आहृतमयमैच “केशी बिभर्ति विस्रष्टुम् । तथा 'रोदसी द्यावापृथिंब्यौ अपि अयमेव बिभर्ति । अपि च विश्व व्याप्त स्वः सर्वं जगत् । दर्शनाय अयमेव केशी करोति । प्रकाशयतीत्यर्थः । इत्थंमहानुभावः कैशी को नामेत्यत आह ।। “इदं दृश्यमानं मण्डलस्थं यत् ज्योतिः “इदम् एव “केशी इति उच्यते । नान्य इत्यर्थः ॥


मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ ।

वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥२

मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गा॑ । व॒स॒ते॒ । मला॑ ।

वात॑स्य । अनु॑ । ध्राजि॑म् । य॒न्ति॒ । यत् । दे॒वासः॑ । अवि॑क्षत ॥

मुनयः । वातऽरशनाः । पिशङ्ग । वसते । मला ।।

वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥ २ ॥

"वातरशनाः वातरशनस्य पुत्राः "मुनयः अतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः “पिशङ्गा पिशङ्गानि कपिलवर्णानि "मला मलिनानि वल्कलरूपाणि वासांसि “वसते आच्छादयन्ति । ‘वस आच्छादने । आदादिकः । ईदृशास्ते यत् यदा “देवासः देवाः तपसो महिम्ना दीप्यमानाः सन्तः "अविक्षत देवतास्वरूपं प्राविशन् । विशेर्लुङि शल इगुपधादनिटः क्सः । व्यत्ययेनात्मनेपदम् । तदा ते वातस्य वायोः “ध्राजिं गतिम् "अनु “यन्ति अनुगच्छन्ति । प्राणोपासनया प्राणरूपिणो वायुभावं प्रपन्ना इत्यर्थः ॥


उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् ।

शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥३

उत्ऽम॑दिताः । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् ।

शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥

उत्ऽमदिताः । मौनेयेन । वातान् । आ । तस्थिम । वयम् ।

शरीरा । इत् । अस्माकम् । यूयम् । मर्तासः । अभि । पश्यथ ।। ३ ।।

“मौनेयेन मुनिभावेन लौकिकसर्वव्यवहारविसर्जनेन "उन्मदिताः उन्मत्ता उन्मत्तवदाचरन्तः । यद्वा। उत्कृष्टं मदं हर्षं प्राप्ताः । "वयं "वातान् वायूनस्माभिरुपास्यमानान् “आ “तस्थिम आस्थितवन्तः । हे "मर्तासः मनुष्याः "अस्माकं "शरीरेत् शरीराण्येव "यूयं केवलम् "अभि “पश्यथ । नास्मान् । यतो वयं नीरूपेण वायुना सायुज्यं प्राप्ताः ॥


अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् ।

मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥

अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् ।

मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥

अन्तरिक्षेण । पतति । विश्व । रूपा । अवऽचाकशत् ।

मुनिः । देवस्यऽदेवस्य । सौकृत्याय । सखा हितः ॥ ४ ॥

“मुनिः अस्यर्चो द्रष्टा वृषाणक ऋषिर्वातरूपतां सूर्यास्मतां वा तत्तदुपासनया प्राप्तः सन् “अन्तरिक्षेण आकाशेन "पतति गच्छति । किं कुर्वन् । "विश्वा विश्वानि सर्वाणि रूपाणि रूप्यमाणानि पदार्थजातानि “अवचाकशत् अभिपश्यन् स्वतेजसा दर्शयन् । तथा "देवस्यदेवस्य । नित्यवीप्सयोः' इति द्विर्वचनम् । अनुदात्तं च इति परस्याम्रेडितस्यानुदात्तत्वम्। सर्वस्यापि देवस्य "सख सखिभूतः अत एव "सौकृत्याय । सुष्ठु देवानुद्दिश्य क्रियमाणं यागात्मकं कर्म सुकृतम् । तस्य भावाय सम्यगनुष्ठापनाय “हितः निहितः स्थापितो भवति ॥ .


वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनिः॑ ।

उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥५

वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ ।

उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥

वातस्य । अश्वः । वायोः । सखा । अथो इति । देवऽइषितः । मुनिः ।

उभौ । समुद्रौ । आ । क्षेति । यः । च । पूर्वः । उत । अपरः ।। ५ ।।

“वातस्य वायोर्गतिरिव "अश्वः व्याप्तः । यद्वा । वायोः अशिता भोक्ता। वायुरेव तस्याहार इत्यर्थः । अत एव "वायोः सखा मित्रभूतः "अथो अपि च देवेषितः देवेन द्योतमानेन वायुना सूर्येण वा इषितः प्राप्तः। तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । इदृशो “मुनिः करिक्रताख्य ऋषिरुक्तप्रकारेण वायुरूपः सूर्यरूपो वा सन् “उभौ समुद्रौ उदधी “आ “क्षेति अभिगच्छति । ‘क्षि निवासगत्योः' । छन्दसो विकरणस्य लुक् । कौ तौ समुद्रौ। "यश्च "पूर्वः समुद्रः । उतशब्दश्चार्थे । यश्च "अपरः समुद्रः ।।


अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् ।

के॒शी केत॑स्य वि॒द्वान्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥६

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् ।

के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥

अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् ।।

केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्ऽतमः ।। ६ ।।

“अप्सरसां देवस्त्रीणां “गन्धर्वाणां "चरणे संचारभूते दिव्यन्तरिक्षे च तथा “मृगाणां सिंहादीनां संचारस्थले पृथिव्यां "चरन व्याप्य संचरन् "केशी अग्निर्वायुः सूर्यो वा "केतस्य ज्ञातव्यस्य सर्वस्यार्थजातस्य "विद्वान् यद्वा ज्ञातव्यस्यास्यर्षेरेतशस्य "सखा विद्वान् अविशेषात् सर्वं जानन् स्वादुः स्वादयिता रसयिता सर्वस्य रसस्योत्पादकः अत एव “मदिन्तमः मादयितृतमो भवति । ‘नाद्धस्य ' इति नुडागमः ॥


वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा ।

के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥७

वा॒युः । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा ।

के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥

वायुः । अस्मै । उप । अमन्यत् । पिनष्टि । स्म । कुनंनमा ।।

केशी । विषस्य । पात्रेण । यत् । रुद्रेण । अपिबत् । सह ॥ ७ ॥

“केशी रश्मिभिर्युक्तः सूर्यः "रुद्रेण रुद्रपुत्रेण मरुद्गणेन । यद्वा। ‘रुद्रो वा एष यदग्निः' (तै, सं. ५.४,३.१ ) इति श्रवणाद्रुद्रो वैद्युताग्निः । तेन "सह वर्तमानो “विषस्य । उदकनामैतत् । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । विषमुदकं "पात्रेण पानसाधनेन रश्मिजालेन “यत् यदा अपिबत् पिबति तदा "अस्मै केशिने वायुः उपामन्थन् । भूगतं सर्वं रसमुपमथ्नाति । यद्वा । यदापिबत् पीतवान् भवति तदा सूर्यमण्डले घनीभूतमस्य तदुदकं वायुरुपमथ्नाति । मन्थनेन वैद्युताग्निनालोडयति । तथा “कुनंनमा कुत्सितमपि भृशं नमयित्री स्वयं नमयितुमशक्या स्वतन्त्रा माध्यमिका वाक् "पिनष्टि "स्म । यथाधस्तात् स्रवति तथा चूर्णीकरोति । स्मेति प्रसिद्धौ। कुपूर्वान्नमथतेः पचाद्यचि ‘यङोsचि च' इति यङो लुक् । थाथादिनोत्तरपदान्तोदात्तत्वम् ॥ ॥ २४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

[सम्पाद्यताम्]

टिप्पणी

सूक्तस्य ऋषिरूपेण जूतिः, वातजूतिः एवं विप्रजूतेः उल्लेखमस्ति। सामान्यरूपेण जूतेः अर्थं गतिः भवति, यथा शतपथब्राह्मणे १२.७.१.८ आरण्यानां पशूनां जूतिः। शतपथ ब्राह्मणे १२.९.२.५ - एतावती मै मनुष्ये जूतिः यावान् विक्रमः। तत् यावत्येवास्मिन् जूतिः। तयैव पाप्मानं विजहाति॥ किन्तु अत्र जूतेः अर्थं परोक्षरूपेण द्युति, ज्योति आदि ग्रहणकर्तुं उचितं भवति। प्रमाणार्थं अथर्ववेद १९.५८ - घृतस्य जूतिः समना इत्यादि।

केशी उपरि टिप्पणी

Endless knot

Endless knot in Indus Script by Dr. Kalyanaraman

वातरशना उपरि टिप्पणी एवं संदर्भाः

आरुणकेतुक अपरसंज्ञा नाचिकेताग्निचयनोपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३६&oldid=159306" इत्यस्माद् पुनः प्राप्तिः