ऋग्वेदः सूक्तं १०.१४५
← सूक्तं १०.१४४ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४५ इन्द्राणी |
सूक्तं १०.१४६ → |
दे. सपत्नीबाधनम्( उपनिषत्)। अनुष्टुप्, ६ पङ्क्तिः |
इमां खनाम्योषधिं वीरुधं बलवत्तमाम् ।
यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥
उत्तानपर्णे सुभगे देवजूते सहस्वति ।
सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥२॥
उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
अथा सपत्नी या ममाधरा साधराभ्यः ॥३॥
नह्यस्या नाम गृभ्णामि नो अस्मिन्रमते जने ।
परामेव परावतं सपत्नीं गमयामसि ॥४॥
अहमस्मि सहमानाथ त्वमसि सासहिः ।
उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥५॥
उप तेऽधां सहमानामभि त्वाधां सहीयसा ।
मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
सायणभाष्यम्
' इमाम्' इति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम् । षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः । अनेन सूक्तेन सपन्या बाधनं प्रतिपाद्यते । अत एतत्सूक्तजपादिना सपन्या विनाशो भवति । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तम्---- ‘ इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तम् इति । अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित् सपत्नीघ्नप्रयोगविशेषे दर्शितः -- ‘ त्रिःसप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामीति । श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति । सपत्नीबाधनं च ' ( आप. गृ. ९. ५. ८/३.९.८) इति । अयमर्थः । आद्यया पाठा नामौषधिः खातव्या । ततस्तिसृभिरोषधेरभि, मन्त्रणम् । षष्ठ्याबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति ।।
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥ १
इ॒माम् । ख॒ना॒मि॒ । ओष॑धिम् । वी॒रुध॑म् । बल॑वत्ऽतमाम् ।
यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒म्ऽवि॒न्दते॑ । पति॑म् ॥१
इमाम् । खनामि । ओषधिम् । वीरुधम् । बलवत्ऽतमाम् ।
यया । सऽपत्नीम् । बाधते । यया । सम्ऽविन्दते । पतिम् ॥१
“इमामोषधिं पाठख्यां “वीरुधं लतारूपां “बलवत्तमां स्वकार्यकरणे अतिशयेन बलवतीं “खनामि उन्मूलयामि । “यया ओषध्या “सपत्नीम् । समान एकः पतिर्यस्याः सा सपत्नी । तामेषा वधूः “बाधते हिनस्ति । “यया च “पतिं भर्तारं “संविन्दते सम्यगसाधारण्येन लभते ॥
उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥ २
उत्ता॑नऽपर्णे । सुऽभ॑गे । देव॑ऽजूते । सह॑स्वति ।
स॒ऽपत्नी॑म् । मे॒ । परा॑ । ध॒म॒ । पति॑म् । मे॒ । केव॑लम् । कु॒रु॒ ॥२
उत्तानऽपर्णे । सुऽभगे । देवऽजूते । सहस्वति ।
सऽपत्नीम् । मे । परा । धम । पतिम् । मे । केवलम् । कुरु ॥२
हे “उत्तानपर्णे उत्तानान्यूर्ध्वमुखानि पर्णानि पत्राणि यस्यास्तादृशि हे “सुभगे सौभाग्यहेतुभूते हे “देवजूते देवेन स्रष्ट्रा प्रेरिते हे “सहस्वति अभिभवनवति ईदृशे हे पाठे “मे मम “सपत्नीं स्त्रियं “परा “धम परागमय । धमतिर्गतिकर्मा । “पतिं च “मे ममैव "केवलम् असाधारणं “कुरु ॥
उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥ ३
उत्ऽत॑रा । अ॒हम् । उ॒त्ऽत॒रे॒ । उत्ऽत॑रा । इत् । उत्ऽत॑राभ्यः ।
अथ॑ । स॒ऽपत्नी॑ । या । मम॑ । अध॑रा । सा । अध॑राभ्यः ॥३
उत्ऽतरा । अहम् । उत्ऽतरे । उत्ऽतरा । इत् । उत्ऽतराभ्यः ।
अथ । सऽपत्नी । या । मम । अधरा । सा । अधराभ्यः ॥३
हे “उत्तरे उत्कृष्टतरे पाठे “अहम् “उत्तरा उत्कृष्टतरा भूयासम् । “उत्तराभ्यः लोके या उत्कृष्टतराः सन्ति ताभ्योऽप्यहम् "उत्तरा उत्कृष्टतरैव त्वत्र्ससादाद्भवेयम् । “अथ अनन्तरं “मम “या “सपत्नी “सा “अधराभ्यः निकृष्टाभ्योऽपि “अधरा निकृष्टतरा भवतु ॥
न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥ ४
न॒हि । अ॒स्याः॒ । नाम॑ । गृ॒भ्णामि॑ । नो इति॑ । अ॒स्मिन् । र॒म॒ते॒ । जने॑ ।
परा॑म् । ए॒व । प॒रा॒ऽवत॑म् । स॒ऽपत्नी॑म् । ग॒म॒या॒म॒सि॒ ॥४
नहि । अस्याः । नाम । गृभ्णामि । नो इति । अस्मिन् । रमते । जने ।
पराम् । एव । पराऽवतम् । सऽपत्नीम् । गमयामसि ॥४
”अस्याः सपत्न्याः ”नाम संज्ञामपि ”नहि “गृभ्णामि नैव गृह्णामि उच्चारयामि । ”नो न खलु काचित् ”अस्मिन् “जने सपत्न्याख्ये ”रमते क्रीडति । अपि च तां ”सपत्नीं ”परां “परावतम् “एव अतिशयेन दूरदेशमेव ”गमयामसि गमयामः प्रापयामः । अतिशयेन भर्त्रा वियोजयाम इत्यर्थः ॥
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः ।
उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥ ५
अ॒हम् । अ॒स्मि॒ । सह॑माना । अथ॑ । त्वम् । अ॒सि॒ । स॒स॒हिः ।
उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वी । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥५
अहम् । अस्मि । सहमाना । अथ । त्वम् । असि । ससहिः ।
उभे इति । सहस्वती इति । भूत्वी । सऽपत्नीम् । मे । सहावहै ॥५
हे ओषधि “अहं त्वत्प्रसादात् ”सहमाना ”अस्मि सपत्न्या अभिभवित्री भवामि । ”अथ अपि च “त्वम् अपि “सासहिः ”असि तस्या अभिभवित्री भवसि । आवाम् “उभे अपि “सहस्वती अभिभवित्र्यौ ”भूत्वी भूत्वा ”मे मम ”सपत्नीं ”सहावहै अभिभवाव ॥
उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा ।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥ ० ६
उप॑ । ते॒ । अ॒धा॒म् । सह॑मानाम् । अ॒भि । त्वा॒ । अ॒धा॒म् । सही॑यसा ।
माम् । अनु॑ । प्र । ते॒ । मनः॑ । व॒त्सम् । गौःऽइ॑व । धा॒व॒तु॒ । प॒था । वाःऽइ॑व । धा॒व॒तु॒ ॥६
उप । ते । अधाम् । सहमानाम् । अभि । त्वा । अधाम् । सहीयसा ।
माम् । अनु । प्र । ते । मनः । वत्सम् । गौःऽइव । धावतु । पथा । वाःऽइव । धावतु ॥६
हे पते ”ते तव “सहमानां सपत्न्या अभिभवित्रीमिमामोषधिम् ”उप ”अधाम् । शिरस उपाधानं करोमि । ”सहीयसा अभिभवितृतरेण तेनोपधानेन त्वाम् “अभि “अधाम् अभितो धारयामि । ”ते तव भर्तुः ”मनः ”माम् अनुलक्ष्य “प्र “धावतु प्रकर्षेण शीघ्रं गच्छतु । तत्र निदर्शनद्वयमुच्यते । ”गौरिव यथा गौः ”वत्सं शीघ्रं गच्छति ”पथा निम्नेन मार्गेण “वारिव वारुदकं यथा स्वभावतो गच्छति तद्वत् । अनेन निदर्शनद्वयेनौत्सुक्यातिशयः स्वाभाविकत्वं च प्रतिपाद्यते ।। ।।३।।
टिप्पणी
मण्डल १० | ||||
---|---|---|---|---|