ऋग्वेदः सूक्तं १०.१८१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१८१ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१८० ऋग्वेदः - मण्डल १०
सूक्तं १०.१८१
क्रमेण - प्रथो वासिष्ठः, सप्रथो भारद्वाजः, घर्मः सौर्यः
सूक्तं १०.१८२ →
विश्वे देवाः । त्रिष्टुप्।


प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥१॥
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥२॥
तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥३॥


सायणभाष्यम्

' प्रथः ' इति तृचं त्रिंशं सूक्तं वैश्वदेवं त्रैष्टुभम् । वासिष्ठः प्रथसंज्ञ ऋषिः प्रथमायाः । भारद्वाजः सप्रथाख्य ऋषिर्द्वितीयायाः । सूर्यपुत्रो घर्म ऋषिस्तृतीयायाः । तथा चानुक्रान्तं-' प्रथश्चैकर्चाः प्रथो वासिष्ठः सप्रथो भारद्वाजो घर्मः सौर्यो वैश्वदेवम् ' इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्रितं च-- ' गणानां त्वा प्रथश्च यस्य ' ( आश्व. श्रौ. ४.६) हति ।।


प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥ १

प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥१

प्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥१

“यस्य वसिष्ठस्य “प्रथः “नाम पुत्रो यस्य भरद्वाजस्य “सप्रथः नाम पुत्रः तयोर्मध्ये “वसिष्ठः “आनुष्टुभस्य अनुष्टुप्छन्दसा युक्तस्य “हविषः घर्माख्यस्य “यत् “हविः हविष्ट्वापादकं “रथन्तरम् । रथरंहःसाधनं साम तद्रथन्तरम् । “धातुः धातृसंज्ञाद्देवात् “द्युतानात् द्योतमानात् “सवितुश्च “विष्णोः च “आ “जभार आजहार । हृतवान् ।। ' हृग्रहोर्भः ' हति भत्वम् । रथशब्दोपपदात्तरतेः संज्ञायां ' भृतॄवृजि० ' इति खच् । ' अरुर्द्विषदजन्तस्य इति मुमागमः ।।


अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥ २

अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥२

अविन्दन् । ते । अतिऽहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥२

“ते धात्रादयः तत् “अविन्दन् अलभन्त “यत् बृहत्सामाख्यं घर्मस्य हविषः संस्कारकम् “अतिहितं तिरोहितम् “आसीत् । “यत् च बृहत्साम “यज्ञस्य ज्योतिष्टोमादेः “परमम् उत्कृष्टं “धाम धारकं शरीरभूतं वा “गुहा गुहायामस्मदादिविषये निहितमासीत् तत्ते धात्रादयोऽलभन्त । तेभ्यः “अग्नेः “च सकाशात्तत् “बृहत् साम “भरद्वाजः ऋषिः “आ “चक्रे आभिमुख्येन कृतवान् । आहृतवानित्यर्थः ।।


ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् ।

धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥ ३

ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् ।

धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥३

ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् ।

धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥३

“ते धात्रादयः “दीध्यानाः दीप्यमानाः सन्तः “मनसा बुद्ध्या “अविन्दन् अलभन्त । किं तत् । “यजुः यागसाधनं “स्कन्नं स्कन्दनीयमासेचनीयं प्रवृञ्जनसाधनं “प्रथमं मुख्यं “देवयानं देवानां प्राप्तिसाधनं “घर्मम् । एवं धात्रादिभिः प्रथममुपलब्धं तं घर्मं “धातुः द्योतमानात् “सवितुः “विष्णोः “सूर्यात् “च “एते ऋत्विजः “आ “अभरन् आहरन् । आनीतवन्त इत्यर्थः ।। ।। ३९ ।।


[सम्पाद्यताम्]

टिप्पणी

वसिष्ठ शफौ

प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्वः सतनुमेवैनं तत्सरूपं करोति रथंतरमाजभारा वसिष्ठः भरद्वाजो बृहदा चक्रे अग्नेरिति बृहद्रथंतरवन्तमेवैनं तत्करोति - ऐ.ब्रा १.२१

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८१&oldid=313228" इत्यस्माद् प्रतिप्राप्तम्