सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.९७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.९६ ऋग्वेदः - मण्डल १०
सूक्तं १०.९७
आथर्वणो भिषग्।
सूक्तं १०.९८ →
दे. ओषधयः। अनुष्टुप्


या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥१॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥२॥
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥३॥
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ॥४॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥५॥
यत्रौषधीः समग्मत राजानः समिताविव ।
विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥६॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥७॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥८॥
इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः ।
सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥९॥
अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः ।
ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥१०॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥११॥
यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥१२॥
साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥१३॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥१४॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१५॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥१६॥
अवपतन्तीरवदन्दिव ओषधयस्परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥१७॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
तासां त्वमस्युत्तमारं कामाय शं हृदे ॥१८॥
या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥१९॥
मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥२०॥
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥२१॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (तु. ब्रह्मपुराणम् २.५०.१४)
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥२३॥

सायणभाष्यम्

‘या ओषधीः' इति त्रयोविंशत्यृचं सप्तमं सूक्तम् । अथर्वणः पुत्रस्य भिषङ्नाम्न आर्षम् । अनुष्टुभमौषधिदेवताकम् । तथा चानुक्रान्तं----' या औषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभम्' इति । दीक्षितानां ज्वराद्युपतापे संजातेऽनेन सूक्तेन मार्जयेत् । सूत्रितं च-- ओषधिसूक्तेन चाप्लाव्यानुमृजेत्' (आश्व. श्रौ. ६. ९) इति ॥


या ओष॑धी॒ः पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।

मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥१

याः । ओष॑धीः । पूर्वाः॑ । जा॒ताः । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा ।

मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥१

याः । ओषधीः । पूर्वाः । जाताः । देवेभ्यः । त्रिऽयुगम् । पुरा ।

मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामनि । सप्त । च ।। १ ।।

“याः ओषधीः ओषधयः “पूर्वाः पुरातन्यः “जाताः उत्पन्नाः । केभ्यः सकाशात् । “देवेभ्यः जगन्निर्मातृभ्यः । यद्वा । देवा द्योतमाना ऋतवः । तेभ्यः। कस्मिन् काले। “त्रियुगं त्रिषु युगेषु । विशेषेण प्रादुर्भावापेक्षया कृतादियुगत्रयमुक्तं कलौ त्वत्यन्ताल्पत्वादुपेक्षितम् ।.अथवा त्रिषु युगेषु वसन्ते प्रावृषि शरदि चेत्यर्थः । “अहं बभ्रूणां बभ्रुवर्णानां सोमाद्योषधीनां “शतं “सप्त “च “धामानि अनुलेपमार्जनाभिषेकादिरूपेणाश्रयभूतानि स्थानानि “नु क्षिप्रं मनै मन्ये । संभावयामीत्यर्थः । अत्र वाजसनेयकं-’या औषधीः पूर्व जाता देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ते प्रावृषि शरद मनै नु बभ्रूणामहमिति सोमो वै बभ्रुः सोम्या ओषधय औषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः शतवीर्य एतानि हास्य तानि’ शतं धामानि सप्त चेति । य एवेमे सप्त शीर्षन्प्राणास्तानेतदाह' (श. ब्रा. ७. २. ४. ३६ ) इति । अत्र निरुक्तं च--' या औषधयः पूर्व जाता देवेभ्यस्त्रीणि युगानि पुरा मन्ये नु तद्बभ्रूणामहं बभ्रुवर्णानां भरणानां हरणानामिति वा शतं धामानि सप्त चेति । धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति । जन्मान्यत्राभिप्रेतानि सप्तशतानि सप्त शतं पुरुषस्य मर्मणां तेष्वेना दधति' (निरु. ९.२८) इति॥


श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।

अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥२

श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ ।

अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥२

शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः ।।

अध । शतक्रत्वः । यूयम् । इमम् । मे। अगदम् । कृत ॥ २ ॥

हे “अम्ब मातर ओषधयः “वः युष्माकं “धामानि स्थानानि जन्मानि वा “शतम् अपरिमितानि । “उत अपि च “वः युष्माकं “रुहः प्ररोहः प्रोद्गमः “सहस्रम् अपरिमितः। “अध अपि च हे “शतक्रत्वः शतकर्माणः “यूयमिमं “मे मां मदीयं वा जनमामयग्रस्तम् “अगदम् । गदो रोगः । तद्रहितं “कृत कुरुत ॥


ओष॑धी॒ः प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।

अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥३

ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः ।

अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥३

ओषधीः । प्रति । मोदध्वम् । पुष्पऽवतीः । प्रऽसूवरीः ।

अश्वाऽइव । सऽजित्वरीः । वीरुधः । पारयिष्ण्वः ।। ३ ।।

हे “ओषधीः ओषधयः “प्रति “मोदध्वं इमं रुग्णं प्रति मुदिता हृष्टा भवत । कीदृश्यो यूयम् । “पुष्पवतीः पुष्पवत्यः “प्रसूवरीः । प्रकर्षेण सूयन्त उपभोगायेति प्रसवाः फलानि तद्वत्यः । किंच “अश्वाइव अश्नुवाना हया इव “सजित्वरीः सह रोगं जयन्त्यः “वीरुधः विरोहन्त्यः “पारयिष्ण्वः रुग्णं पुरुषं पारयन्त्यो रोगात् ॥


ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।

स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥४

ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ ।

स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥४

ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे ।

सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष ।। ४ ।।

हे “ओषधीः ओषधयः “देवीः देव्यो द्योतनादिगुणका हे “मातरः जनानां मातृभूताः । मातृवद्धितकारित्वान्मातृत्वोपचारः। अथवा मातर आरोग्यनिर्मात्र्यः “वः युष्माकं संबन्धिनं भिषजं “तत् वक्ष्यमाणम् “इति इत्थम् “उप “ब्रुवे उप ब्रवीमि । किं तदिति चेत् उच्यते । ओषध्यर्थमहम् “अश्वं “गां “वासः अंशुकं किं बहुना "आत्मानम् अपि हे पुरुष चिकित्सक “तव तुभ्यं “सनेयं ददामि ॥


अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।

गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥५

अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता ।

गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥५

अश्वत्थे । वः । निऽसदनम् । पर्णे । वः । वसतिः । कृता ।।

गोऽभाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम् ।। ५ ।।

हे ओषधिदेवताः “वः युष्माकम् अश्वत्थे “निषदनं नितरां वर्तनम् । तथा “वः युष्माकं “पर्णे पलाशे “वसतिः निवासः “कृता । तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वम् ' ( तै. ब्रा. १. १. ३. १०) इति ब्राह्मणात्पलाशस्य पर्णत्वप्रसिद्धिः । अश्वत्थपलाशयोर्यज्ञयोग्यत्वप्राधान्यापेक्षयोपादानम् । किंच “गोभाज “इत्किल गवां भाजयित्र्य एव “असथ भवथ खलु । “यत् यदि “सनवथ संभजध्वे “पुरुषं तर्ह्येवं भवथेति । ‘वन षण संभक्तौ । लेट्यडागमः । व्यत्ययेनोप्रत्ययः । यद्वा । औत्सर्गिकः शप्चेति द्विविकरणता ॥ ॥ ८ ॥


यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒ः समि॑ताविव ।

विप्र॒ः स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥६

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव ।

विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥६

यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव ।।

विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा। अमीवऽचातनः ॥ ६ ॥

“यत्र यस्मिन् देशे “ओषधीः ओषधयः “समग्मत संगच्छन्ते । “राजानः “समिताविव संग्रामे यथा संगता भवन्ति तद्वत् । तासां नानाविधानामोषधीनां संगमनं यस्मिन् देशेऽस्ति तत्र “विप्रः प्राज्ञः ब्राह्मणः “सः “भिषक् उच्यते “रक्षोहा रक्षोहन्ता । "अमीवचातनः। अमीवा व्याधिः । तस्य चातनश्चातयिता नाशयिता च भवति तदानीम् ॥


अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।

आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥७

अ॒श्व॒ऽव॒तीम् । सो॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् ।

आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७

अश्वऽवतीम् । सोमऽवतीम् । ऊर्जयन्तीम् । उत्ऽओजसम् ।।

आ। अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्टऽतातये ।। ७ ।।

अश्वावत्यादयः प्रधानभूता ओषधयश्चतस्रः। ताः सर्वा “ओषधीः "आवित्सि आजाने । स्तौमीत्यर्थः । “अस्मा “अरिष्टतातये । अमुं रोग विनाशयितुमित्यर्थः ॥


उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।

धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥८

उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒स्थात्ऽइ॑व । ई॒र॒ते॒ ।

धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥८

उत् । शुष्माः । ओषधीनाम् । गावः । गोस्थात्ऽइव । ईरते ।।

धनम् । सनिष्यन्तीनाम् । आत्मानम्। तव । पुरुष ।। ८ ।।

“ओषधीनां “शुष्माः बलानि “उत् ईरते उद्गच्छन्ति । रुग्णे स्ववीर्यं प्रोद्गमयन्तीत्यर्थः । “गावो “गोष्ठादिव । ता यथा ततः सकाशादुदीरते तद्वत् । कीदृशीनामोषधीनाम्। उच्यते । “धनं स्वसामर्थ्यलक्षणं “सनिष्यन्तीनां दातुमिच्छन्तीनाम् । किं प्रतीति उच्यते । हे “पूरुष पुरुष रोगग्रस्त “तव “आत्मानं शरीरं प्रति । यद्वा । प्ररोहन्तीरोषधीर्दृष्ट्वा वदति । हे पुरुष प्रियङ्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योषधीनां शुष्मा उदीरते ॥


इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।

सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥९

इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः ।

सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥९

इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । नि:ऽकृतीः ।

सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ ॥ ९ ॥

हे ओषधयः "वो “माता जननी “इष्कृतिर्नाम् । सर्वेषां रुग्णानां निष्कर्त्रीति प्रसिद्धा । यस्मात्सा रुग्णं निष्करोति । “अथ अतो “यूयम् अपि “निष्कृतीः निष्कृतयः “स्थ भवथ। किंच यूयं “सीराः सरणशीलाः पतत्रिणीः “पतनवत्यश्च “स्थन भवथ। ‘तप्तनप्' इति तनादेशः । किंच पुरुषः “यत् यदि “आमयति व्याधितो भवति तं “निष्कृथ संस्कुरुथ ॥


अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।

ओष॑धी॒ः प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥१०

अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ ।

ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥१०

अति । विश्वाः । परिऽस्थाः । स्तेनःऽइव । व्रजम् । अक्रमुः।

ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः ॥ १० ॥

“विश्वाः व्याप्ताः “परिष्ठाः परितः स्थिता ओषधयः "अति “अक्रमुः व्याधीनतिक्रान्तवत्यः । “स्तेनइव “व्रजम् । यथा स्तेनो व्रजमत्यक्रमीत् तद्वत् । तथा कृत्वा “ओषधीः ओषधयः "प्राचुच्यवुः प्रच्यावयन्ति “यत्किं “च “तन्वः रुग्णशरीरस्य “रपः पापं व्याधिलक्षणमस्ति तदिति ॥ ॥ ९ ॥


यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।

आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥११

यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे ।

आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥११

यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आऽदधे ।

आत्मा। यक्ष्मस्य । नश्यति । पुरा। जीवऽगृभः । यथा ।। ११ ।।

“अहं “यत् यदि “इमाः ओषधीः "हस्त "आदधे आधारयामि । किं कुर्वन् । “वाजयन् रुग्णं बलिनं कुर्वन् । ततः “पुरा "यक्ष्मस्य रोगस्य “आत्मा “नश्यति नष्टो भवति “जीवगृभो "यथा । जीवानां शकुन्यादीनां ग्राहकाद्व्याधाद्यथा जीवा नश्यन्ति तद्वत् । यद्वा । जीवगृभो मृत्योः सकाशाज्जीवोऽपह्रियते तद्वत् ॥


यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।

ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥१२

यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः ।

ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥१२

यस्य । ओषधीः । प्रऽसर्पथ । अङ्गम् ऽअङ्गम् । परु:ऽपरुः ।

ततः । यक्ष्मम् । वि। बाधध्वे । उग्रः । मध्यमशीः इव ॥ १२ ॥

हे “ओषधीः ओषधयः “यस्य रुग्णस्य “अङ्गमङ्गं यद्यदङ्गं परुःपरुः यद्यत्पर्व “प्रसर्पथ प्रकर्षेणाश्रयथ “ततः अङ्गात्पर्वणश्च “यक्ष्मं व्याधिं “वि “बाधध्वे । “उग्रः उद्गूर्णबलः “मध्यमशीः मध्यमस्थाने वर्तमानो राजा यथा उपद्रवकारिणः समनन्तरशत्रून् पदे पदे विबाधते तद्वत् ॥


सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।

सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥१३

सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ ।

सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥१३

साकम् । यक्ष्म । प्र । पत। चाषेण । किकिदीविना ।।

साकम् । वातस्य । ध्राज्या । साकम् । नश्य । निऽहाकया ।। १३ ॥

हे अस्मदीयस्य पुरुषस्य शरीराधिष्ठायिन् “यक्ष्म व्याधे त्वं “साकं सहैव “प्र “पत प्रकर्षेण शीघ्रं गच्छ। केन साकमिति । उच्यते । “चाषेण अतिशीघ्रं पतता चाषाख्येन पक्षिणा सह । तथा “किकिदीविना पक्षिणा च सह । तथा “वातस्य शीघ्रं गच्छतो वायोः “ध्राज्या।'ध्रज गतौ' । गत्या वेगेन सह गच्छ। तथा “निहाकया गोधिकया “साकं “नश्य नाशं प्राप्नुहि ॥


अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।

ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥१४

अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ ।

ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥१४

अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत ।

ताः । सर्वाः । सम्ऽविदानाः । इदम् । मे । प्र । अवत । वचः ॥ १४ ॥

हे ओषधयः “वः युष्माकं मध्ये “अन्या ओषधिः “अन्याम् ओषधिम् अवतु प्राप्नोतु । अवतिरत्र गत्यर्थः । तथा अन्यान्यस्याः समीपम् “उपावत उपगच्छत । एवं याः सन्ति क्षित्यामोषधयः “ता: “सर्वाः संविदानाः परस्परमैकमत्यं प्राप्ताः सत्यः “इदं “मे मदीयं “वचः प्रार्थनालक्षणं वचनं “प्रावत प्ररक्षत ॥


याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥१५

याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ ।

बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥१५

याः । फलिनीः । याः । अफलाः । अपुष्पाः । याः । च । पुष्पिणीः ।।

बृहस्पतिऽप्रसूताः । ताः । नः । मुञ्चन्तु। अंहसः ॥ १५ ॥

“याः “फलिनीः फलवत्यः “या “अफलाः फलवर्जिताः याः “अपुष्पाः पुष्परहिताः “याश्च “पुष्पिणीः पुष्पवत्यः “बृहस्पतिप्रसूताः । बृहस्पतिर्मन्त्राभिमानी देवः । तेनानुज्ञाताः। “ता “नः अस्मान् “अंहसः “मुञ्चन्तु मोचयन्तु ॥ ॥ १० ॥


मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।

अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥१६

मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त ।

अथो॒ इति॑ । य॒मस्य॑ । पड्बी॑शात् । सर्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥१६

मुञ्चन्तु । मा। शपथ्यात् । अथो इति। वरुण्यात् । उत ।

अथो इति । यमस्य । पड्बीशात् । सर्वस्मात् । देवऽकिल्बिषात् ॥ १६ ॥

“मा माम् ओषधयः “शपथ्यात् शपथसंजातादेनसः सकाशात् “मुञ्चन्तु । “अथो अपि च “वरुण्यात् वरुणसंभवात् “मां मुञ्चन्तु । वरुणोऽपि स्वपाशेन जातमात्रं पुरुषं बध्नाति । “उत इति पूरणः । “अथो अपि च “यमस्य पड्बीशात् पादबन्धनान्निगडान्मुञ्चन्तु । न केवलं वरुणादेः पापात् किंतु “सर्वस्मादेवकिल्बिषात् देवैः कृतात्पापान्मुञ्चन्तु ॥


अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ ।

यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥१७

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ ।

यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥१७

अवऽपतन्तीः । अवदन् । दिवः । ओषधयः । परि ।

यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥ १७ ॥

“दिवः द्युलोकात "अवपतन्तीः अवपतन्त्यः “ओषधयः इत्थं “परि “अवदन् । किमिति उच्यते । “यं “जीवं जीवन्तम् “अश्नवामहै व्याप्नुमः “न “सः “पूरुषः पुरुषः “रिष्याति रिष्यति विनश्यति ॥


या ओष॑धी॒ः सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।

तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥१८

याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः ।

तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥१८

याः । ओषधीः । सोमऽराज्ञीः । बह्वीः । शतऽविचक्षणाः ।।

तासाम् । त्वम् । असि । उत्ऽतमा । अरम् । कामाय । शम्। हृदे ॥ १८ ॥

"या “ओषधीः ओषधयः “सोमराज्ञीः सोमो राजा स्वामी यासां तास्तथोक्ताः “बह्वीः असंख्याताः “शतविचक्षणाः बहुदर्शना हे सोमाख्ये ओषधे “तासाम् ओषधीनां “त्वम् “उत्तमा “असि । यस्मादेवं तस्मात् "अरम् अलमत्यर्थं “कामाय कान्ताय “हृदे हृदयाय “शं सुखकरी भवेति शेषः ॥


या ओष॑धी॒ः सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।

बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥१९

याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ ।

बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥१९

याः । ओषधीः । सोमऽराज्ञीः । विऽस्थिताः । पृथिवीम् । अनु ।

बृहस्पतिऽप्रसूताः । अस्यै । सम् । दत्त । वीर्यम् ॥ १९॥

“या “ओषधीः ओषधयः “सोमराज्ञीः “पृथिवीमनु “विष्ठिताः विविधं स्थिताः दिवः सकाशादागत्य पृथिव्यां नानाभेदेन स्थिताः "बृहस्पतिप्रसूताः बृहस्पतिनानुज्ञाताः सत्यो यूयम् “अस्यै रुग्णतन्वे “वीर्यं “सं दत्त संधत्त ॥


मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।

द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥२०

मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ ।

द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥२०

मा। वः । रिषत् । खनिता । यस्मै । च । अहम् । खनामि । वः ।।

द्विपत् । चतुःऽपत् । अस्माकम् । सर्वम् । अस्तु । अनातुरम् ॥ २० ॥

हे ओषधयः वः युष्मान् मा “रिषत् मा हिंस्यात् । कः । “खनिता भूमेः खननकर्ता । “यस्मै रुग्णाय “चाहं “खनामि “वः युष्मान् । किंच “अस्माकं संबन्धि “द्विपत् पुत्रभृत्यादिकं “चतुष्पत् गोमहिष्यादिकं च यदस्ति तत् “सर्वम् "अनातुरम् अरोगम् अस्तु ।


याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।

सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥२१

याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः ।

सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥२१

याः । च । इदम्। उपऽशृण्वन्ति । याः । च । दूरम् । पराऽगताः ।

सर्वाः । सम्ऽगत्य । वीरुधः । अस्यै । सम् । दत्त । वीर्यम् ॥ २१ ॥

“याश्च ओषधयः “इदं स्तोत्रम् “उपशृण्वन्ति “याश्च ओषधयः “दूरं “परागताः “सर्वाः “वीरुधः “संगत्य संगताः सत्यो हे वीरुधः “अस्यै रुग्णतन्वे “वीर्यं “सं “दत्त ॥


ओष॑धय॒ः सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।

यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥२२

ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ ।

यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥२२

ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा ।

यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ।। २२ ॥

"ओषधयः सर्वाः “सोमेन “राज्ञा "सह “सं वदन्ते संवादं कुर्वन्ति । किमिति तदुच्यते । “यस्मै रुग्णाय “ब्राह्मणः ओषधिसामर्थ्यज्ञो ब्राह्मणो वैद्यः “कृणोति करोति चिकित्सां “तं रुग्णं हे “राजन् “पारयामसि पारयामः ॥ इदन्तो मसिः ।।


त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।

उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥२३

त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः ।

उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥२३

त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः ।

उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥ २३ ॥

हे “ओषधे सोमाख्ये “त्वम् ओषधीनामन्यासाम्' "उत्तमासि । “तव “वृक्षाः सर्वे “उपस्तयः अधःशायिन एव । तथा सति “सः “उपस्तिरस्तु अधःशायी भवतु “योऽस्मान् “अभिदासति अभिहिनस्ति भ्रातृव्य इति ॥ ॥ ११ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९७&oldid=317292" इत्यस्माद् प्रतिप्राप्तम्