ऋग्वेदः सूक्तं १०.१४९
← सूक्तं १०.१४८ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४९ अर्चन् हैरण्यस्तूपः |
सूक्तं १०.१५० → |
दे. सविता। त्रिष्टुप् |
सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् ।
अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥१॥
यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद ।
अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥२॥
पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना ।
सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥३॥
गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना ।
पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥४॥
हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् ।
एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥५॥
सायणभाष्यम्
‘ सविता यन्त्रैः ' इति पञ्चर्चमेकविंशं सूक्तं हिरण्यस्तूपपुत्रस्यार्चत आर्षं त्रैष्टुभं सवितृदेवत्यम्। अनुक्रान्तं च -- ‘सवितार्चन हैरण्यस्तूपः सावित्रम् ' इति । गतो विनियोगः ॥
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् ।
अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥ १
स॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् ।
अश्व॑म्ऽइव । अ॒धु॒क्ष॒त् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒तूर्ते॑ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥१
सविता । यन्त्रैः । पृथिवीम् । अरम्णात् । अस्कम्भने । सविता । द्याम् । अदृंहत् ।
अश्वम्ऽइव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम् ॥१
“सविता सर्वस्व प्रसविता प्रेरको मध्यमस्थानो देवः सोऽयं ”यन्त्रैः यमनसाधनैर्वृष्टिप्रदानादिभिरुपायैर्वायवीयैः पाशैर्वा ”पृथिवीं प्रथितां भूमिम् ”अरम्णात् अरमयत् । सुखेनावस्थापयति । तथा स एव ”सविता “अस्कम्भने । पतनप्रतिबन्धकमालम्बनं स्कम्भनम् । तद्रहिते स्थले “द्यां द्युलोकमपि “अदृंहत् दृढीकृतवान् । यथाधो न पतति तथात्मीयैरेवोपायैरवस्थापितवानित्यर्थः । ”अश्वमिव “धुनिं कम्पयितव्यं कम्पयितारं वा ”अन्तरिक्षम् अन्तरा क्षान्तं मध्यमस्थानगतम् ”अतूर्ते केनाप्यहिंसितेऽत्वरमाणे वा नभसि वायवीयैः पाशैः “बद्धं ”समुद्रं मेघमयमेव “सविता “अधुक्षत् उदकानि दोग्धि । यद्वा । अन्तरिक्षमिति सप्तम्यर्थे प्रथमा । अतूर्तेऽन्तरिक्षे बद्धं समुदितारं धुनिं कम्पनीयं मेघमश्वमिवाधुक्षत् । सविता क्लेशयति । ‘ धुक्ष धिक्ष संदीपनक्लेशनजीवनेषु । यथा शिक्षकः सादी अश्वं क्लेशयत्येवं वर्षणाय मेघं क्लेशयतीत्यर्थः। अत्र निरुक्तं --- सविता यन्त्रैः पृथिवीमरमयदनारम्भणेऽन्तरिक्षे सविता द्यामदृंहदश्वमिवाधुक्षद्धुनिमन्तरिक्षे मेघं बद्धमतूर्ते बद्धमतूर्णं इति वात्वरमाण इति वा सविता समुदितारम् ' ( निरु. १०. ३२ ) इति ।।
यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ २
यत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ ।
अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥२
यत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद ।
अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥२
“यत्र यस्मिन्नन्तरिक्षे ”समुद्रः समुन्दनशीलो मेघः “स्कभितः स्तम्भितो वायुपाशैर्बद्धः सन् “व्यौनत् विशेषेण भूमिमुनत्ति उदकैः क्लेदयति । ‘ उन्दी क्लेदने । अस्माच्छान्दसे लङि रूपमेतत् । हे “अपां ”नपात् मध्यमस्थान वैद्युताग्ने तव संबन्धी ”सविता प्रेरको देवः” तस्य तत्स्थानं ”वेद वेत्ति जानाति । ”अतः अस्मादेव सवितुः “भूः भूमिरासीत् । ”अतः एव “उत्थितम् ऊर्ध्वमवस्थितं “रजः अन्तरिक्षं च “आः आसीत् अजायत । अस्तेर्लङि ‘ बहुलं छन्दसि ' इतीडभावः । ‘ हल्ङ्याब्भ्यः' इति लोपः । ”अतः अस्मादेव सवितुः ”द्यावापृथिवी द्यावापृथिव्यौ ”अप्रथेतां विस्तीर्णेऽप्यभूताम् ।।
प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना ।
सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥ ३
प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना ।
सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊं॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥३
पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना ।
सुऽपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊं इति । अस्य । अनु । धर्म ॥३
"अन्यत् सवितृव्यतिरिक्तम् ”इदं देवतान्तरं ”पश्चा पश्चात् । ' पश्च पश्चा च च्छन्दसि । ( पा. सू. ५. ३. ३३ ) इति निपात्यते । सवितृप्रेरणानन्तरमेव “यजत्रं यष्टव्यम् ”अभवत् । केन साधनेन । ”अमर्त्यस्य मरणरहितस्य ”भुवनस्य लोकस्य स्वर्गाख्यस्य संबन्धिना “भूना भूतेन । स्वर्गं उत्पन्नेन सोमेनेत्यर्थः । यद्वा । अमर्त्यस्य भुवनस्य संबन्धीदं देवतान्तरं भूना भूम्ना बहुत्वेन युक्तं यष्टव्यमभवत् । कुत इत्यत आह । हे ”अङ्ग स्तोतः ”सुपर्णः शोभनपतनः ”गरुत्मान् सोमस्यापहर्ता तार्क्ष्यः ”सवितुः प्रेरकादस्माद्देवात् ”पूर्वः प्रथमभावी सन् “जातः । अतो हेतोः सुपर्णो गरुत्मान् ”अस्य सवितुः “धर्म धारणमनुसृत्य वर्तते । सवितृप्रेरणाधीनत्वात्सर्वंगतीनां सोमाहरणमपि तदधीनमिति सवितृप्रेरणानन्तरमेव सर्वे सोमयागाः प्रवर्तन्त इत्यर्थः । “उ इति पूरकः ॥
गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।
पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ ४
गावः॑ऽइव । ग्राम॑म् । युयु॑धिःऽइव । अश्वा॑न् । वा॒श्राऽइ॑व । व॒त्सम् । सु॒ऽमनाः॑ । दुहा॑ना ।
पतिः॑ऽइव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्वऽवा॑रः ॥४
गावःऽइव । ग्रामम् । युयुधिःऽइव । अश्वान् । वाश्राऽइव । वत्सम् । सुऽमनाः । दुहाना ।
पतिःऽइव । जायाम् । अभि । नः । नि । एतु । धर्ता । दिवः । सविता । विश्वऽवारः ॥४
“गावइव यथारण्ये संचरन्तो गावः “ग्रामं शीघ्रमभिगच्छन्ति । ”युयुधिरिव यथा योद्धा युद्धार्थम् ”अश्वान् अभिगच्छति । ‘युध संप्रहारे । ‘आदृगमहनजन' इत्यत्र ‘उत्सर्गश्छन्दसि (पा. सू. ३.२. १७१.२ ) इति वचनात् किन्प्रत्ययः । छान्दसं सांहितिकमभ्यासदीर्घत्वम् । "सुमनाः शोभनमनस्का "दुहाना दोग्ध्री बहुपयस्का "वाश्रेव हम्भारवात्मकं शब्दं कुर्वती गौर्यथात्मीयं "वत्सम् अभिगच्छति । "पतिरिव यथा भर्ता "जायां स्वभार्यां शीघ्रमभिगच्छति एवमेव "सविता "नः अस्मान् "नि अभि "एतु नितरामभिगच्छतु । कीदृशः । "दिवः द्युलोकस्य "धर्ता धारयिता अवस्थापयिता वा अत एव "विश्ववारः सर्वैर्वरणीयः ।।
हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥ ५
हिर॑ण्यऽस्तूपः । स॒वि॒तः॒ । यथा॑ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे॑ । अ॒स्मिन् ।
ए॒व । त्वा॒ । अर्च॑न् । अव॑से । वन्द॑मानः । सोम॑स्यऽइव । अं॒शुम् । प्रति॑ । जा॒ग॒र॒ । अ॒हम् ॥५
हिरण्यऽस्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् ।
एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यऽइव । अंशुम् । प्रति । जागर । अहम् ॥५
हे "सवितः प्रेरक "त्वा त्वाम् "आङ्गिरसः अङ्गिरसः पुत्रः "हिरण्यस्तूपः मम पिता "अस्मिन् "वाजे अन्ने निमित्तभूते सति "यथा "जुह्वे आहूतवान् "एव एवम् "अर्चन् एतत्संज्ञोऽहं "त्वा त्वाम् "अवसे अवनाय रक्षणार्थं "वन्दमानः स्तुवन् आह्वयामीति शेषः । आहूय च "सोमस्येवांशुं यथा सोमलतां प्रति यजमाना जाग्रति यागपर्यन्तं तद्रक्षणे प्रबुद्धा वर्तन्ते तथा "अहं त्वत्परिचर्यां "प्रति "जागर जागर्मि । जागर्तेर्णल्युत्तमैकवचने रूपम् । अत्र निरुक्तं - ' हिरण्यस्तूपो हिरण्मयस्तूपो हिरण्यमयः स्तूपोऽस्येति वा । स्तूपः स्त्यायतेः संघातः । सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नैऽस्मिन्नेवं त्वार्चन्नवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम् ' ( निरु. १०. ३३) इति।।७।।
मण्डल १० | ||||
---|---|---|---|---|