ऋग्वेदः सूक्तं १०.१५३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१५३ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१५२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५३
देवजामय इन्द्रमातरः
सूक्तं १०.१५४ →
दे. इन्द्रः । गायत्री।


ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
भेजानासः सुवीर्यम् ॥१॥
त्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं वृषन्वृषेदसि ॥२॥
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
उद्द्यामस्तभ्ना ओजसा ॥३॥
त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
वज्रं शिशान ओजसा ॥४॥
त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
स विश्वा भुव आभवः ॥५॥


सायणभाष्यम्

‘ईङ्खयन्तीः' इति पञ्चर्चं गायत्रमैन्द्रं द्वितीयं सूक्तम् । देवानां स्वसृभूता इन्द्रमातरो नामर्षिकाः । तथा चानुक्रान्तम्--- ईङ्खयन्तीर्देवजामय इन्द्रमातरो गायत्रम्' इति । द्वितीये पर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च -- ईङ्खयन्तीरहं दां पाता सुतम्' (आश्व. श्रौ. ६. ४) इति (सूत्रितं च -- ईंखयंतीरपस्युव इति ब्राह्मणाच्छंस्यावपेत (ऐ. आ. ५. १. १) इति पाठभेदः)। महाव्रतेऽपि प्रातः सवनिके ब्रह्मशस्त्र एतत्सूक्तम् ॥


ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।

भे॒जा॒नास॑ः सु॒वीर्य॑म् ॥१

ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ ।

भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥१

ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते ।

भेजानासः । सुऽवीर्यम् ॥१

“ईङ्खयन्तीः गच्छन्त्यः स्तुत्यादिभिरिन्द्रं प्राप्नुवत्यः “अपस्युवः अपः कर्म आत्मन इच्छन्त्य इन्द्रमातरोऽस्य सूक्तस्य द्रष्ट्र्यः "जातं प्रादुर्भूतम् “इन्द्रम् "उपासते परिचरन्ति । “सुवीर्यं शोभनवीर्योपेतं धनं च “भेजानासः । तस्मादिन्द्रात् संभक्तवत्यो भवन्ति ।।


त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।

त्वं वृ॑ष॒न्वृषेद॑सि ॥२

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः ।

त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥२

त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः ।

त्वम् । वृषन् । वृषा । इत् । असि ॥२

हे “इन्द्र “त्वं “सहसः परेषामभिभावुकात् “बलात् “अधि “जातः असि । अधिः पञ्चम्यर्थानुवादकः । वृत्रादिवधहेतुभूताद्बलाद्धेतोस्त्वं प्रख्यातो भवसीत्यर्थः । अपि च “ओजसः। ओजो नाम बलहेतु हृदयगतं धैर्यम् । तस्मादपि त्वं जातोऽसि । हे “वृषन् वर्षितः “त्वं “वृषेदसि कामानां वर्षितैव भवसि ॥


त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः ।

उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥३

त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ ।

उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥३

त्वम् । इन्द्र । असि । वृत्रऽहा । वि । अन्तरिक्षम् । अतिरः ।

उत् । द्याम् । अस्तभ्नाः । ओजसा ॥३

हे “इन्द्र “त्वं “वृत्रहा “असि । शत्रूणां हन्ता भवसि । “अन्तरिक्षं मध्यमस्थानं च “वि “अतिरः । आवरकापनोदनेन प्रावर्धयः । “द्यां द्युलोकं च “ओजसा बलेन “उत् “अस्तभ्नाः । ऊर्ध्वमस्तम्भीः । यथाधो न पतति तथोपर्यवस्थापितवानित्यर्थः ॥


त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।

वज्रं॒ शिशा॑न॒ ओज॑सा ॥४

त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः ।

वज्र॑म् । शिशा॑नः । ओज॑सा ॥४

त्वम् । इन्द्र । सऽजोषसम् । अर्कम् । बिभर्षि । बाह्वोः ।

वज्रम् । शिशानः । ओजसा ॥४

हे "इन्द्र “त्वं “सजोषसं सह प्रीयमाणम् “अर्कं स्तुत्यं “वज्रम् आत्मीयमायुधम् “ओजसा बलेन “शिशानः निश्यंस्तीक्ष्णीकुर्वन् "बाह्वोः हस्तयोः “बिभर्षि धारयसि शत्रूणां वधार्थम् ॥


त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।

स विश्वा॒ भुव॒ आभ॑वः ॥५

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा ।

सः । विश्वाः॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥५

त्वम् । इन्द्र । अभिऽभूः । असि । विश्वा । जातानि । ओजसा ।

सः । विश्वाः । भुवः । आ । अभवः ॥५

हे "इन्द्र "त्वं "विश्वा सर्वाणि "जातानि जनिमन्ति भूतानि "ओजसा बलेन "अभिभूरसि अभिभविता भवसि। तथा "सः तादृशस्त्वं "विश्वा "भुवः सर्वा भूमीः प्राप्तव्यानि सर्वाण्यपि स्थानानि "आभवः अभितः प्राप्नोः। भू प्राप्तौ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५३&oldid=196146" इत्यस्माद् प्रतिप्राप्तम्