ऋग्वेदः सूक्तं १०.७६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.७६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.७५ ऋग्वेदः - मण्डल १०
सूक्तं १०.७६
सर्प ऐरावतो जरत्कर्णः
सूक्तं १०.७७ →
दे. ग्रावाणः। जगती
बैंकाक नगरे अरुणमन्दिरे ऐरावतोपरि इन्द्रः
ऐरावतेश्वरः



आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥१॥
तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥२॥
तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।
गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥३॥
अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥४॥
दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥५॥
भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।
नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥६॥
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते ।
दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥७॥
एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥८॥




मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

‘आ वः' इत्यष्टर्चमष्टमं सूक्तम् । इरावतः पुत्रस्य सर्पजातेर्जरत्कर्णनाम्न आर्षं जागतम् । सोमाभिषवार्था ये ग्रावाणस्तद्देवत्यम् । तथा चानुक्रान्तम्-‘आ वोऽष्टौ सर्प ऐरावतो जरत्कर्णो ग्राव्णोऽस्तोत्' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रितं च-’आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा' (आश्व. श्रौ. ५. १२) इति ॥


आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन ।

उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

आ। वः । ऋञ्जसे । ऊर्जाम् । विऽउष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन ।।

उभे इति । यथा । नः । अहनी इति । सचाऽभुवा । सदःऽसदः । वरिवस्यातः । उत्ऽभिदा ॥१॥

हे ग्रावाणः वः युष्मान् “ऊर्जां सारभूतानामन्नवतीनां वोषसां “व्युष्टिषु विभातेषु सत्सु "आ “ऋञ्जसे आप्रसाधयामि । यूयं सोमेन “इन्द्रं “मरुतो “रोदसी द्यावापृथिव्यौ च “अनक्तन व्यञ्जयत । "नः अस्मान् "उभे "सचाभुवा सहोत्पन्ने “अहनी द्यावापृथिव्यौ “सदःसदः सर्वेषु यागगृहेषु “वरिवस्यातः परिचरतः। “उद्भिदा उद्भेदकेन धनेन पूरयतामिति ॥


तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।

वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥

तत् । ॐ इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्तऽयतः । अद्रिः । सोतरि ।।

विदत् । हि । अर्यः । अभिऽभूति । पौंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः ॥२॥

हे ग्रावाणः यूयं “तदु तमेव “श्रेष्ठं प्रशस्यं “सवनं सोमं “सुनोतन अभिषुणुत । अथैकवदाह । “अद्रिः अभिषवग्रावा “हस्तयतः हस्ताभ्यां गृहीतः सन् "अत्यो “न धृतोऽश्व इव भवति “सोतरि अभिषवकर्तर्यध्वर्यौ । स यथा हस्ताभ्यां दृढं गृहीतोऽपि वल्गति तद्वत् । “अर्यः ग्राव्णामभिषवाय प्रैरको यजमानः “अभिभूति शत्रूणामभिभावुकं “पौंस्यं बलं “विदद्धि लभते खलु देवेभ्यः । यद्वा । अभिषवायाध्वर्य्यादेः प्रेरितो ग्रावाभिभूति पौंस्यं विदद्यजमानार्थम् । किंच “महे महते “राये “चित् धनायापि “यत् यो ग्रावा "अर्वतः अश्वान् “तरुते तनुते प्रयच्छति ।।


तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।

गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥

तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् ।

गोऽअर्णसि । त्वाष्ट्रे । अश्वऽनिर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः ।। ३ ।।

“इत् इति पूरणः । अस्य ग्राव्णः “तत् “सवनम् अभिषवोपेतमस्मदीयं सोमयागाख्यम् “अपः कर्म “विवेः व्याप्नोतु । विपूर्वस्य वेतैर्लङ्यदादित्वाच्छपो लुक् । वेतैर्विपूर्वस्य वा छान्दसे श्लौ वापररूपमिति संदेहादनवग्रहः । समासस्वरः । “यथा “पुरा मनवे राज्ञे “गातुं गमनम् “अश्रेत् आजगाम तद्वत् व्याप्नोतु । किंच “गोअर्णसि गोरूपे अपहृतैर्गोभिः परिवृते तथा “अश्वनिर्णिजि । निर्णिगिति रूपनाम । अश्वरूपे । अपहृतैरश्वैर्वृत इत्यर्थः । ईदृशे “त्वाष्ट्रे त्वष्टुः पुत्रे हन्तव्ये सतीति शेषः । “ईम् एतान् “अध्वरान् असुरैरहिंस्यानध्वरसाधकान् चोपलान् “अध्वरेषु अशिश्रयुः आश्रयन्ति पूर्वे यजमानाः ॥


अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् ।

आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥

अप । हत। रक्षसः । भङ्गुरऽवतः । स्कभायत । नि:ऽऋतिम् । सेधत । अमतिम् ।।

आ। नः । रयिम् । सर्वऽवीरम् । सुनोतन । देवऽअव्यम् । भरत । श्लोकम् । अद्रयः ।।४।।

हे अद्रयः यूयम् “अप “हत विनाशयत “रक्षसः राक्षसान् । कीदृशान् । “भङ्गुरावतः भञ्जकेन कर्मणा तद्वतः । तथा स्कभायत दूरे परिहरत “निर्ऋतिं पापदेवताम् । यथामुं यज्ञं नागच्छति तथा। किंच “सेधत निषेधत “अमतिं हिंसामतिं रक्षःप्रभृतिम्। किंच “नः अस्माकं “सर्ववीरं बहुपुत्राद्युपेतं रयिं धनम् आ "सुनोतन । अभिषवेन पुत्रधनादीनां लाभादेवमुक्तम् । किंच "देवाव्यं देवप्रीणनं “श्लोकं भरत संपादयत ॥


दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।

वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥

दिवः । चित् । आ । वः । अमवत्ऽतरेभ्यः । विऽभ्वना । चित् । आश्वपःऽतरेभ्यः ।

वायोः । चित् । आ । सोमरभःऽतरेभ्यः । अग्नेः । चित् । अर्च। पितुकृत्ऽतरेभ्यः ।।५।।

"दिवश्चित् आदित्यादपि अमवत्तरेभ्यः अत्यन्तं बलवद्भ्यः “वः युष्मभ्यम् “आ "अर्च अस्तौदध्वर्युः। यद्वा । हे अध्वर्य्वादयः वो यूयमुच्यमानलक्षणेभ्यो ग्रावभ्य आ सर्वतोऽर्च अर्चतेत्येवं प्रतिवाक्यं योज्यम्। “विभ्वना "चित् । विभ्वा सुधन्वनः पुत्रः । तेनापि आश्वपस्तरेभ्यः शीघ्रकर्मभ्य इत्यर्थः । विभ्वादीनां त्रयाणां चमसादिशीघ्रकर्म प्रसिद्धम् । वायोश्चित् वायोरपि “सोमरभस्तरेभ्यः सोमाभिषवार्थेनात्यन्तेन वेगेन युक्तेभ्यः । वायोरपि ग्रावाणो वेगवन्तो भवन्ति सोमाभिषवार्थम् । “अग्नेश्चित् अग्नेरपि “पितुकृत्तरेभ्यः अत्यन्तमन्नसाधकेभ्यः । ईदृशेभ्यो ग्रावभ्यः प्रीणनाय यूयमर्चतेति॥ ॥८॥


भु॒रन्तु॑ नो य॒शस॒ः सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।

नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥

भुरन्तु । नः । यशसः । सोतु । अन्धसः । ग्रावाणः । वाचा । दिविता । दिवित्मता ।।

नरः । यत्र । दुहते । काम्यम् । मधु । आऽघोषयन्तः । अभितः । मिथःऽतुरः ।। ६ ।।

"यशसः यशस्विनः "ग्रावाणः “नः अस्मभ्यं “सोतु सुतम् "अन्धसः सोमस्य रसं "भुरन्तु भरन्तु संपादयन्तु । उकारश्छान्दसः। किंच “दिवित्मता दीप्तिमत्या । लिङ्गव्यत्ययः । “वाचा स्तुतिवाचा “दिविता दिवितायां दीप्तिमत्तायां वास्मान् कुर्वन्तु । सोमयागे स्थापयन्त्वित्यर्थः । क्वैषा दीप्तिमत्तेति उच्यते । “नरः नेतार ऋत्विजः यत्र यागे "काम्यं कमनीयं मधु सोमरसं “दुहते । किं कुर्वन्तः । "आघोषयन्तः सर्वतोऽभिषवशब्दं स्तोत्रशस्त्रादिरूपं वा शब्दं कुर्वन्तः । “अभितः सर्वतः “मिथस्तुरः त्वरमाणाः । सा दीप्तिमत्तेति ॥


सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ॥

सुन्वन्ति । सोमम् । रथिरासः । अद्रयः । निः । अस्य । रसम् ।। गोऽइषः । दुहन्ति । ते।

दुहन्ति । ऊधः । उपऽसेचनाय । कम् । नरः । हव्या । न । मर्जयन्ते । आसऽभिः ॥७॥

“रथिरासः रथवन्तो रंहणवन्तः "अद्रयः ग्रावाणः “सोमं “सुन्वन्ति । ग्रावाणः “अस्य सोमस्य “रसं “निः “दुहन्ति निःशेषेण दुहन्ति । "गविषः स्तुतिवाचमिच्छन्तः सन्तः । दुहन्ति “ऊधः रसं सोमसंबन्धिनम् । किमर्थम् । “उपसेचनाय अग्नेः । “कम् इति पादपूरणः । “नरः नेतारोऽभिषवकर्तार ऋत्विजः “हव्या “न हवींषि चाग्न्युपसेचनानन्तरम् “आसभिः स्वास्यैः “मर्जयन्ते शोधयन्ति । शेषभक्षणेन शुद्धीकुर्वन्ति । यद्वा । अग्नौ होतुर्दशापवित्रात्पुरासभिरास्योपलक्षितैः स्तोत्रैर्मर्जयन्ते ॥


ए॒ते न॑र॒ः स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।

वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु व॒ः पार्थि॑वाय सुन्व॒ते ॥

एते । नरः । सुऽअपसः । अभूतन । ये । इन्द्राय । सुनुथ । सोमम् । अद्रयः ।।

वामम्ऽवामम् । वः । दिव्याय । धाम्ने । वसुऽवसु । वः । पार्थिवाय । सुन्वते ॥ ८ ॥

हे “नरः नेतारः हे “अद्रयः “एते .यूयं “स्वपसोऽभूतन शोभनाभिषवकर्माणो भवत । “ये यूयम् “इन्द्राय "सोमं “सुनुथ "वः यूयं “वामंवामं यद्यद्वननीयं धनमस्ति तत्तत् "दिव्याय “धाम्ने तेजसे कुरुत । तथा “वसुवसु यद्यद्वासयोग्यं धनमस्ति तत् “वः यूयं “पार्थिवाय “सुन्वते यजमानाय कुरुत ॥ ॥ ९ ॥



[सम्पाद्यताम्]

ऐरावतोपरि पौराणिकाः संदर्भाः

ऐरावतोपरि टिप्पणी

टिप्पणी

अस्य सूक्तस्य ऋषिः जरत्कर्णः ऐरावतः सर्पः अस्ति एवं देवता ग्रावाणः अस्ति। अन्यानां सूक्तानामपि देवता ग्रावाणः अस्ति। ऋग्वेद १०.९४ सूक्तस्य ऋषिः अर्बुदः काद्रवेयः सर्पः अस्ति एवं देवता ग्रावाणः अस्ति। ऋग्वेद १०.१७५ सूक्तस्य ऋषिः ऊर्ध्वग्रावा सर्प आर्बुदिः अस्ति एवं देवता ग्रावाणः अस्ति। ऋग्वेदे यत्र - यत्र ग्रावा अथवा ग्रावाणः शब्दः प्रकटयति, तत्र तत्र प्रायः तस्य क्रिया वदति अस्ति (यथा ऋग्वेदः १.८३.६ (ग्रावा यत्र वदति कारुरुक्थ्यः), १.१३५.७(यत्र ग्रावा वदति तत्र गच्छतं), ५.३७.२(ग्रावाणो यस्येषिरं वदन्ति), ८.३४.२(आ त्वा ग्रावा वदन्निह), १०.२६.४(ग्रावा वदन्नप रक्षांसि सेधतु), १०.९४.१(ग्रावभ्यो वाचं वदता वदद्भ्यः )। मैत्रायणी संहिता ४.५.२ अनुसारेण - यज्ञमुखं ग्रावाणः । यागेषु सोमलतायाः पेषणाय ये प्रस्तराः भवन्ति, तेषां संज्ञा ग्रावाणः भवति। धान्यस्य वितुषीकरणार्थं ये उलूखल, मुसलाः भवन्ति, तेषां संज्ञा अपि ग्रावाणः भवति। कर्मकाण्डे, यदा मुसलस्य पतनं उलूखले धान्योपरि भवति, तदा ध्वन्याः जननं भवति । एषैव ग्राव्णः वदनम्। मुखे यदा भोजनस्य ग्रासः गच्छति, तस्य सम्पर्कं प्रथमतः दंष्ट्रैः सह भवति। दंष्ट्राणां संज्ञा अपि ग्रावाणः अस्ति। ऋग्वेदस्य ८.९१ सूक्तस्य संदर्भे आख्यानमस्ति यत् अपाला आत्रेय्याः दन्तध्वनिं श्रुत्वा इन्द्रः आजगाम। अपालायाः दन्तध्वनिं श्रुत्वा इन्द्रः अचिन्तयत् यत् सा सोमस्य शोधनं करोति(जै.ब्रा. १.२२०)। सार्वत्रिकं कथनं अस्ति यत् प्राणा वै ग्रावाणः(मा.श. १४.२.२.२३ आदि)। दन्तेषु मरुत्संज्ञकानां प्राणानां स्थितिः भवति। ग्रावाणः विशःरूपाः भवन्ति, यथा मरुतः, न राज्ञरूपाः। वीणायाः तन्त्रीणां झंकृतकर्तृकस्य प्रस्तरस्य संज्ञा अपि ग्रावा भवति(जै.ब्रा. २.७०)। व्यवहारे, ये व्यावहारिकाः उपस्कराः सन्ति, ते एव ग्रावाणः सन्ति। मम वस्त्राः, मम शय्या, मम भोजनम्, मम गृहं, मम लेखनी, पुस्तकं, मम भ्राता, माता, भगिनी, ते सर्वे ग्रावाणः सन्ति। किन्तु ते सर्वदा तूष्णीं भवन्ति, नैव किंचिदपि वदन्ति। ऐरावतस्य कार्यं तेषां ध्वन्याः श्रवणमस्ति। प्रस्तुते सूक्ते ऐरावतस्य विशेषणं जरत्कर्णः अस्ति। विष्णुधर्मोत्तर पुराणे ३.५०.१२ कथनमस्ति यत् ऐरावणः अर्थस्य प्रतीकमस्ति, ऐरावतस्य दन्ताः मन्त्र शक्तीनां प्रतीकाः सन्ति। अन्यत्र कथनमस्ति यत् शब्दमात्रसमूहस्य स्वामी रामः अस्ति, अर्थमात्रसमूहस्य स्वामी लक्ष्मणः अस्ति। वाल्मीकि रामायणे ६.४.१८ कथनमस्ति यत् यथा इन्द्रः ऐरावतोपरि आरूढः भवति, एवमेव रामः हनुमानोपरि आरोहणं कृत्वा रावणेन सह युद्धं कर्तुं अगमत्। अत्र हनुमतस्य उपमा ऐरावतेन सह अस्ति। अवशिष्टं ग्रावस्तुतोपरि टिप्पण्यां पठनीयमस्ति।

ऋग्वेदे सार्वत्रिकरूपेण ऊर्ध्वग्रावा शब्दः प्रकटयति(यथा १०.७०.७)। अयं अन्वेषणीयः अस्ति - किं अयं ऐरावतेश्वरस्य प्रतीकमस्ति यत्र ऐरावतेश्वरस्य देहे त्रयः ज्योतिर्लिङ्गाः प्रदर्शिताः सन्ति।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७६&oldid=149222" इत्यस्माद् पुनः प्राप्तिः