शतपथब्राह्मणम्/काण्डम् १४/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search

घर्म प्रचरणम्

स यत्रैतां होतान्वाह प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृतेति तदध्वर्युः प्राङुदायन्वातनामानि जुहोत्येतद्वै देवा अबिभयुर्यद्वै न इममन्तरा रक्षांसि नाष्ट्रा न हन्युरिति तमेतत्पुरैवाहवनीयात्स्वाहाकारेणाजुहवुस्तं हुतमेव सन्तमग्नावजुहुवुस्तथो एवैनमेष एतत्पुरैवाहवनीयात्स्वाहाकारेण जुहोति तं हुतमेव सन्तमग्नौ जुहोति - १४.२.२.[१]

समुद्राय त्वा वाताय स्वाहेति अयं वै समुद्रो योऽयं पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति तस्मादाह समुद्राय त्वा वाताय स्वाहा - १४.२.२.[२]

सरिराय त्वा वाताय स्वाहेति अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे
देवाः सर्वाणि भूतानि सहेरते तस्मा एवैनं जुहोति तस्मादाह सरिराय त्वा वाताय
स्वाहा - १४.२.२.[३]

अनाधृष्याय त्वा वाताय स्वाहाऽप्रतिधृष्याय त्वा वाताय स्वाहेति अयं वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते तस्मा एवैनं जुहोति तस्मादाहानाधृष्याय त्वा वाताय स्वाहाऽप्रतिधृष्याय त्वा वाताय स्वाहेति - १४.२.२.[४]

अवस्यवे त्वा वाताय स्वाहाऽशिमिदाय त्वा वाताय स्वाहेति अयं वा अवस्युरशिमिदो योऽयम्पवते तस्मा एवैनं जुहोति तस्मादाहावस्यवे त्वा वाताय स्वाहाऽशिमिदाय त्वा वाताय स्वाहेति - १४.२.२.[५]

इन्द्राय त्वा वसुमते रुद्रवते स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं जुहोति तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजत्यथो प्रातःसवनस्य चैवैतन्माध्यन्दिनस्य च सवनस्य रूपं क्रियते - १४.२.२.[६]

इन्द्राय त्वादित्यवते स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं जुहोति तस्मादाहेन्द्राय त्वेत्यादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजत्यथो तृतीयसवनस्यैवैतद्रूपं क्रियते - १४.२.२.[७]

इन्द्राय त्वाऽभिमातिघ्ने स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं जुहोति
तस्मादाहेन्द्राय त्वेत्यभिमातिघ्न इति सपत्नो वा अभिमातिरिन्द्राय त्वा सपत्नघ्न
इत्येवैतदाह सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते देवेभ्यः - १४.२.२.[८]

सवित्रे त्व ऋभुमते विभुमते वाजवते स्वाहेति अयं वै सविता योऽयं पवते तस्मा एवैनं जुहोति तस्मादाह सवित्रे त्वेत्यृभुमते विभुमते वाजवत इति तदस्मिन्विश्वान्देवानन्वाभजति - १४.२.२.[९]

बृहस्पतये त्वा विश्वदेव्यावते स्वाहेति अयं वै बृहस्पतिर्योऽयं पवते तस्मा एवैनं जुहोति तस्मादाह बृहस्पतये त्वेति विश्वदेव्यावत इति तदस्मिन्विश्वान्त्सर्वान्देवानन्वाभजति - १४.२.२.[१०]

यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति अयं वै यमो योऽयं पवते तस्मा एवैनं जुहोति तस्मादाह यमाय त्वेत्यङ्गिरस्वते पितृमत इति यज्ञस्य शीर्षच्छिन्नस्य [रसो
व्यक्षरत्स] पितॄनगच्छत्त्रया वै पितरस्तानेवैतदन्वाभजति - १४.२.२.[११]

द्वादशैतानि नामानि भवन्ति द्वादश वै मासाः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्माद्द्वादश भवन्ति - १४.२.२.[१२]

अथोपयमन्या महावीर आनयति स्वाहा घर्मायेत्येष वै घर्मो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह स्वाहा घर्मायेत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.२.[१३]

आनीते जपति स्वाहा घर्मः पित्र इति यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स] पितॄनगच्छत्त्रया वै पितरस्तानेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.२.[१४]

नानुवाक्यामन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मान्नानुवाक्यामन्वाहातिक्रम्याश्राव्याह घर्मस्य यजेति वषट्कृते जुहोति - १४.२.२.[१५]

विश्वा आशा दक्षिणसदिति सर्वा आशा दक्षिणसदित्येवैतदाह विश्वान्देवानयाडिहेति
सर्वान्देवानयाक्षीदिहेत्येवैतदाह स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्यश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.२.[१६]

अथ हुत्वोर्ध्वमुत्कम्पयति दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इत्यसौ वा आदित्यो घर्मो यज्ञो दिवि वा एष हितो दिवि प्रतिष्ठितस्तमेवैतत्प्रीणाति तस्मादाह दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इत्यनुवषट्कृते जुहोति - १४.२.२.[१७]

स्वाहाग्नये यज्ञियायेति तत्स्विष्टकृद्भाजनमग्निर्हि स्विष्टकृच्छं यजुर्भ्य इति यजुर्भिर्ह्येषोऽस्मिंलोके प्रतिष्ठितस्तान्येवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.२.[१८]

अथ ब्रह्मानुमन्त्रयते ब्रह्मा वा ऋत्विजां भिषक्तमस्तद्य एवर्त्विजाम्भिषक्तमस्तेनैवैनमेतद्यज्ञं भिषज्यति - १४.२.२.[१९]

अश्विना घर्मं पातमिति अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति - १४.२.२.[२०]

हार्द्वानमहर्दिवाभिरूतिभिरिति अनिरुक्तमनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति - १४.२.२.[२१]

तन्त्रायिण इति एष वै तन्त्रायी य एष तपत्येष हीमांल्लोकांस्तन्त्रमिवानुसञ्चरत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह तन्त्रायिण इति - १४.२.२.[२२]

नमो द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यां निह्नुते ययोरिदं सर्वमधि - १४.२.२.[२३]

अथ यजमानः यज्ञो वै यजमानो यज्ञेनेवैतद्यज्ञं भिषज्यति - १४.२.२.[२४]

अपातामश्विना घर्ममिति अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति - १४.२.२.[२५]

अनुद्यावापृथिवी अमंसातामिति तदिमे द्यावापृथिवी आह ययोरिदं सर्वमधीहैव रातयः सन्त्वितीहैव नो धनानि सन्त्वित्येवैतदाह - १४.२.२.[२६]

अथ पिन्वमानमनुमन्त्रयते इषे पिन्वस्वेति वृष्ट्यै तदाह यदाहेषे पिन्वस्वेत्यूर्जे पिन्वस्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह ब्रह्मणे पिन्वस्वेति तद्ब्रह्मण आह क्षत्राय पिन्वस्वेति तत्क्षत्रायाह द्यावापृथिवीभ्यां पिन्वस्वेति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि - १४.२.२.[२७]

स यदूर्ध्वः पिन्वते तद्यजमानाय पिन्वते यत्प्राङ्तद्देवेभ्यो यद्दक्षिणा तत्पितृभ्यो यत्प्रत्यङ्तत्पशुभ्यो यदुदङ्तत्प्रजाया अनपराद्धं न्वेव यजमानस्योर्ध्वो ह्येष पिन्वित्वाऽथ यां दिशं पिन्वते तां पिन्वते यदा शाम्यन्ति विप्रुषः - १४.२.२.[२८]

अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति - १४.२.२.[२९]

अथ खरे सादयति अमेन्यस्मे नृम्णानि धारयेत्यक्रुध्यन्नो धनानि धारयेत्येवैतदाह ब्रह्म धारय क्षत्रं धारय विशं धारयेत्येतत्सर्वं धारयेत्येवैतदाह - १४.२.२.[३०]

अथ शाकलैर्जुहोति प्राणा वै शाकलाः प्राणानेवास्मिन्नेतद्दधाति - १४.२.२.[३१]

स्वाहा पूष्णे शरस इति अयं वै पूषा योऽयं पवत एष हीदं सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति तस्मादाह स्वाहा पूष्णे शरस इत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुर्हुत्वा मध्यमे परिधा उपश्रयति - १४.२.२.[३२]

स्वाहा ग्रावभ्य इति प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधा उपश्रयति - १४.२.२.[३३]

स्वाहा प्रतिरवेभ्य इति प्राणा वै प्रतिरवाः प्राणान्हीदं सर्वं प्रतिरतम्प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधा उपश्रयति - १४.२.२.[३४]

स्वाहा पितृभ्य ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्य इति अहुत्वैवोदङ्ङीक्षमाणो दक्षिणार्धे बर्हिष उपगूहति यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स] पितॄनगच्छत्त्रया वै पितरस्तानेवैतत्प्रीणात्यथ यन्न प्रेक्षते सकृदु ह्येव पराञ्चः पितरः - १४.२.२.[३५]

स्वाहा द्यावापृथिवीभ्यामिति प्राणोदानौ वै द्यावापृथिवी प्राणोदानावेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधा उपश्रयति - १४.२.२.[३६]

स्वाहा विश्वेभ्यो देवेभ्य इति प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति हुत्वा
मध्यमे परिधा उपश्रयति - १४.२.२.[३७]

स्वाहा रुद्राय रुद्रहूतय इति अहुत्वैव दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति तं स उत्तरतः शालाया उदञ्चं निरस्यत्येषा ह्येतस्य देवस्य दिक् स्वायामेवैनमेतद्दिशि प्रीणात्यथ यन्न प्रेक्षते नेन्मा रुद्रो हिनसदिति- १४.२.२.[३८]

सप्तैता आहुतयो भवन्ति सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति - १४.२.२.[३९]

अथ महावीरादुपयमन्यां प्रत्यानयति स्वाहा सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्मिन्पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते अवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.२.[४०]

अथ रौहिणौ जुहोति अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धुः रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धुः - १४.२.२.[४१]

अथ यजमानाय घर्मोच्छिष्टं प्रयच्छति स उपहवमिष्ट्वा भक्षयति मधुहुतमिन्द्रतमे अग्नाविति मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाहाश्याम ते देव घर्म नमस्ते अस्तु मा मा हिंसीरित्याशिषमेवैतदाशास्ते - १४.२.२.[४२]

अथ दक्षिणतः सिकता उपकीर्णा भवन्ति तन्मार्जयन्ते य एव मार्जालीये बन्धुः सोऽत्रानुप्रहरति शाकलानथोपसदा चरन्त्येतदु यज्ञस्य शिरः संस्कृतं यथायथैनं तदश्विनौ प्रत्यधत्ताम् - १४.२.२.[४३]

तं न प्रथमयज्ञे प्रवृञ्ज्यात् एनस्यं हि तदथो नेन्म इन्द्रः शिरश्छिनददिति द्वितीये वैव तृतीये वापशीर्ष्णा ह्येवाग्रे यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुस्तस्माद्द्वितीये वैव तृतीये वाथो तप्तो वा एष शुशुचानो भवति - १४.२.२.[४४]

तं यत्प्रथमयज्ञे प्रवृञ्ज्यात् एषोऽस्य तप्तः शुशुचानः प्रजां च पशूंश्च प्रदहेदथो आयुः प्रमायुको यजमानः स्यात्तस्माद्द्वितीये वैव तृतीये वा- १४.२.२.[४५]

तं न सर्वस्मा इव प्रवृञ्ज्यात् सर्वं वै प्रवर्ग्यो नेत्सर्वस्मा इव सर्वं करवाणीति यो न्वेव ज्ञातस्तस्मै प्रवृञ्ज्याद्यो वास्य प्रियः स्याद्योवानूचानोऽनूक्तेनैनं प्राप्नुयात् - १४.२.२.[४६]

सहस्रे प्रवृञ्ज्यात् सर्वं वै सहस्रं सर्वमेष सर्ववेदसे प्रवृञ्ज्यात्सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे प्रवृञ्ज्यात्सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये प्रवृञ्ज्यात्सर्वं हि तत्सत्त्रे प्रवृञ्ज्यात्सर्वं वै सत्त्रं सर्वमेष एतान्यस्य प्रवर्जनान्यतो नान्यत्र - १४.२.२.[४७]

तदाहुः यदपशिरा अप्रवर्ग्योऽथ केनास्याग्निहोत्रं शीर्षण्वद्भवतीत्याहवनीयेनेति ब्रूयात्कथं दर्शपूर्णमासावित्याज्येन च पुरोडाशेन चेति ब्रूयात्कथं चातुर्मास्यानीति पयस्ययेति ब्रूयात्कथं पशुबन्ध इति पशुना च पुरोडाशेन चेति ब्रूयात्कथं सौम्योऽध्वर इति हविर्धानेनेति ब्रूयात् - १४.२.२.[४८]

अथो आहुः यज्ञस्य शीर्षच्छिन्नस्य शिर एतद्देवाः प्रत्यदधुर्यदातिथ्यं न ह वा अस्यापशीर्ष्णा केन चन यज्ञेनेष्टं भवति य एवमेतद्वेद - १४.२.२.[४९]

तदाहुः यत्प्रणीताः प्रणयन्ति यज्ञेऽथ कस्मादत्र न प्रणयतीति शिरो वा एतद्यज्ञस्य यत्प्रणीताः शिरः प्रवर्ग्यो नेच्छिरसा शिरोऽभ्यारोहयाणीति- १४.२.२.[५०]

तदाहुः यत्प्रयाजानुयाजा अन्यत्र भवन्त्यथ कस्मादत्र न भवन्तीति प्राणा वै प्रयाजानुयाजाः प्राणा अवकाशाः प्राणाः शाकला नेत्प्राणैः प्राणानभ्यारोहयाणीति - १४.२.२.[५१]

तदाहुः यदाज्यभागावन्यत्र जुह्वत्यथ कस्मादत्र न जुहोतीति चक्षुषी वा एते यज्ञस्य यदाज्यभागौ चक्षुषी रौहिणौ नेच्चक्षुषा चक्षुरभ्यारोहयाणीति - १४.२.२.[५२]

तदाहुः यद्वानस्पत्यैर्देवेभ्यो जुह्वत्यथ कस्मादेतं मृण्मयेनैव जुहोतीति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी अगच्छद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति - १४.२.२.[५३]

स यद्वानस्पत्यः स्यात् प्रदह्येत यद्धिरण्मयः स्यात्प्रलीयेत यल्लोहमयः स्यात्प्रसिच्येत यदयस्मयः स्यात्प्रदहेत्परीशासावथैष एवैतस्मा अतिष्ठत तस्मादेतं मृन्मयेनैव जुहोति - १४.२.२.[५४]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.२.२.[५५]