सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.२५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.२४ ऋग्वेदः - मण्डल १०
सूक्तं १०.२५
ऐन्द्रो विमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा।
सूक्तं १०.२६ →
दे. सोमः। आस्तारपङ्क्तिः


भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् ।
अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥१॥
हृदिस्पृशस्त आसते विश्वेषु सोम धामसु ।
अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥२॥
उत व्रतानि सोम ते प्राहं मिनामि पाक्या ।
अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥३॥
समु प्र यन्ति धीतयः सर्गासोऽवताँ इव ।
क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥४॥
तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे ।
गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥५॥
पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।
समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥६॥
त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।
सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥७॥
त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि ।
क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥८॥
त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।
यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥९॥
अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।
अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥१०॥
अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः ।
अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥११॥

सायणभाष्यम्

‘भद्रम्' इत्येकादशर्चं नवमं सूक्तम् । तुह्यादिपरिभाषयेदमप्यास्तारपाङ्क्तम् । सोमदेवताकम् । ‘ऋषिश्चान्यस्मात्' इति परिभाषया प्राजापत्य ऐन्द्रो वा विमदो वा वासुक्रो वसुकृद्वर्षिः। तथा चानुक्रान्तं -- भद्रमेकादश सौम्यम्' इति । गतो विनियोगः ॥


भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् ।

अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥१

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् ।

अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥१

भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् ।

अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥१

हे सोम त्वं “नः अस्मदीयं मनः “भद्रं कल्याणं “वातय गमय । अस्माकं मनः शुभसंकल्पं कुर्वित्यर्थः । तथा “दक्षमुत दक्षमपि । 'दक्ष वृद्धौ' । वृद्धं सर्वव्यापिनमन्तरात्मानमपि भद्रं शुभकारित्वलक्षणं प्रापय । अस्माकमन्तरात्मानं शुभकारिणं कुर्वित्यर्थः। उतापि च “क्रतुं प्रज्ञानं भद्रं शुभाध्यवसायलक्षणं प्रापय । शुभाध्यवसायिनं कुर्वित्यर्थः। “अध अथ स्तोतारः "ते तव “सख्ये स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणे सखिकर्मणि “रणन् रमन्ताम् । तत्र दृष्टान्तः । “गावो “न “यवसे । यथा धेनवो घासे रमन्ते प्रीतिं कुर्वन्ति तद्वत्। कस्मिन् सति । “अन्धसः सोमाख्यस्यान्नस्य संबन्धिनि “वः तव “विमदे विविधसोमजन्यमदनिमित्ते सति । कस्मादेवम् । यस्मात् “विवक्षसे महान् भवसि ॥


हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।

अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥२

हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु ।

अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥२

हृदिऽस्पृशः । ते । आसते । विश्वेषु । सोम । धामऽसु ।

अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुऽयवः । विवक्षसे ॥२

हे “सोम “ते तव “हृदिस्पृशः स्तुतिभिर्हृदयं स्पृशन्त ऋत्विजो “विश्वेषु “धामसु सर्वेषु स्थानेषु “आसते त्वां स्तुवन्तस्तिष्ठन्ति । “अध अथ ईदृग्भूताः “कामाः अभिलाषाः “वि “वो “मदे तव सोमपानजन्यविविधमदनिमित्ते सति । सोमयागार्थमित्यर्थः। “वसूयवः वसुकामाः धनमिच्छन्तः “मम । हृदयादिति शेषः । “वि “तिष्ठन्ते उत्तिष्ठन्ति । कस्मादेवम् । यस्मात् “विवक्षसे महान् भवसि ॥


उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।

अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥३

उ॒त । व्र॒तानि॑ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या॑ ।

अध॑ । पि॒ताऽइ॑व । सू॒नवे॑ । वि । वः॒ । मदे॑ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव॑क्षसे ॥३

उत । व्रतानि । सोम । ते । प्र । अहम् । मिनामि । पाक्या ।

अध । पिताऽइव । सूनवे । वि । वः । मदे । मृळ । नः । अभि । चित् । वधात् । विवक्षसे ॥३

“उत अपि च हे “सोम “अहं ते तुभ्यं “व्रतानि यागादिकर्माणि “पाक्या परिपक्वया सर्वार्थदर्शिन्या प्रज्ञया । यद्वा । पाक्येति व्रतविशेषणमेतत् । पाक्यानि परिपक्वानि परिनिष्ठितानीत्यर्थः “प्र “मिनामि प्रहिनस्मि । प्रकर्षेण करोमीत्यर्थः । “अध अथ यागानन्तरं “वि “वो “मदे तव विविधे मदे सति “नः अस्मान् “मृळ सुखय । “अभि “चिद्वधात् अभिमुख्येन स्थित्वा शत्र्वादिवधाच्चास्मान् पालयेति शेषः । तत्र दृष्टान्तः । “पितेव “सूनवे । यथा पिता पुत्रार्थं सुखयति सर्वस्मात्पुत्रमेव पालयति तद्वत् । यस्मात् सुख्यमानः पाल्यमानश्चाहं युष्मदर्थं पुनःपुनः सोमयागं करोमि तस्मान्मां सुखय पालय चेत्यर्थः । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान् भवसि । महान्तश्च भक्तान सुखयन्ति पालयन्ति चेति यावत् ।


समु॒ प्र य॑न्ति धी॒तय॒ः सर्गा॑सोऽव॒ताँ इ॑व ।

क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥४

सम् । ऊं॒ इति॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । सर्गा॑सः । अ॒व॒तान्ऽइ॑व ।

क्रतु॑म् । नः॒ । सो॒म॒ । जी॒वसे॑ । वि । वः॒ । मदे॑ । धा॒रय॑ । च॒म॒सान्ऽइ॑व । विव॑क्षसे ॥४

सम् । ऊं इति । प्र । यन्ति । धीतयः । सर्गासः । अवतान्ऽइव ।

क्रतुम् । नः । सोम । जीवसे । वि । वः । मदे । धारय । चमसान्ऽइव । विवक्षसे ॥४

हे “सोम “धीतयः देवतागुणान् दधति गृह्णन्तीति धीतयः स्तुतयोऽस्मदीयाः “समु संभूयैव “प्र “यन्ति प्रकृष्टया गत्या त्वां गच्छन्ति । तत्र दृष्टान्तः । “सर्गासोऽवता निव । विसृज्यन्त उदकपानार्थमिति सर्गा गोसंघा यन्त्रस्था घटसंघा वा । ते यथोदकपानार्थमादानार्थं वा अवतान् । कूपनामैतत् । कूपान् प्रति गच्छन्ति तद्वत् । त्वमप्येतज्ज्ञात्वा “क्रतुं यागादिकं कर्म प्रज्ञां वा “नः अस्माकं “जीवसे चिरंजीवनाय “धारय महतादरेण स्थापय । तत्र दृष्टान्तः। “चमसानिव । यथा “वः तव “विमदे विविधसोमजन्यमदे कर्तव्यत्वेन निमित्तभूते सत्यध्वर्युर्हविर्धाने महता यत्नेन चमसान् सोमपात्राणि स्थापयति तद्वत् । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान्भवसि । यद्वा । धीतयः । अङ्गुलिनामैतत् । धयन्ति पिबन्त्याभिरिति धीतयोऽङ्गुलयः । हे सोम त्वां समु प्र यन्ति सहैव प्रकर्षेण त्वां प्राप्नुवन्ति । किमिव । अवतानिव । जलोद्धरणार्थं विसृज्यन्त इति सर्गा रज्जवः । यथा कूपान् प्रति गच्छन्ति तद्वत् । ततस्त्वं नोऽस्माकं जीवसे चिरंजीवनाय क्रतुं कर्म धारय । यथा संपूर्णं भवति तथा पूरय । किमिव । यथा चमसान् स्वयं पूरयसि तद्वत् ॥ ।


तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।

गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥५

तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः । वि । ऋ॒ण्वि॒रे॒ ।

गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥५

तव । त्ये । सोम । शक्तिऽभिः । निऽकामासः । वि । ऋण्विरे ।

गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गोऽमन्तम् । अश्विनम् । विवक्षसे ॥५

“निकामासः दृष्टादृष्टफले नियतकामाः “त्ये ते प्रसिद्धाः “धीराः मेधाविन ऋत्विजः “शक्तिभिः यागादिकर्मभिः सह हे “सोम “गृत्सस्य मेधाविनः “तवसः महतः “तव “व्यृण्विरे विविधाः स्तुतीर्गमयन्ति प्रापयन्ति । कुर्वन्तीत्यर्थः । अतः कारणात् "वि “वो “मदे तव सोमपानजन्यविविधमदनिमित्तभूते सत्यस्मभ्यं “गोमन्तं गोसहितम् “अश्विनम् अश्वसहितं “व्रजं गोष्ठम् । सामर्थ्यात् मन्दुरा लभ्यते । मन्दुरां च देहीति शेषः । कस्मादेवमुच्यसे । यस्मात् “विवक्षसे महान्भवसि॥ ॥११॥


प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।

स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥६

प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒ऽत्रा । विऽस्थि॑तम् । जग॑त् ।

स॒म्ऽआकृ॑णोषि । जी॒वसे॑ । वि । वः॒ । मदे॑ । विश्वा॑ । स॒म्ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥६

पशुम् । नः । सोम । रक्षसि । पुरुऽत्रा । विऽस्थितम् । जगत् ।

सम्ऽआकृणोषि । जीवसे । वि । वः । मदे । विश्वा । सम्ऽपश्यन् । भुवना । विवक्षसे ॥६

हे “सोम त्वं “नः अस्मदीयं “पशुं देवयागार्थमुपाकृतं “रक्षसि पालयसि । न केवलं पशु किंतु “पुरुत्रा बहुधा “विष्ठितं सुरनरतिर्यग्योन्यादिभावेनावस्थितं “जगत् च रक्षसि । किंच स त्वं “समाकृणोषि जगतो वृत्तिं सम्यगाकरोषीत्यर्थः । किमर्थम् । “जीवसे जीवनार्थम् । किं कुर्वन् । “विश्वा “भुवना विश्वानि भुवनानि भूतजातानि “संपश्यन् । किमर्थमेतदादिकं सर्वं करोषि उच्यते। “वि वो “मदे युष्माकं सर्वेषां देवानां विविधहविर्जन्यतृप्त्यर्थम् । उक्तं हि -- इतः प्रदानमुत देवा उप जीवन्ति अमुतः प्रदानं मनुष्या उप जीवन्ति' (तै. सं. ३. २. ९. ७) इति । अत एव त्वं “विवक्षसे महान् भवसि । महतामेतत्सर्वमुचितमित्यर्थः ॥


त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।

सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दु॒ःशंस॑ ईशता॒ विव॑क्षसे ॥७

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । गो॒पाः । अदा॑भ्यः । भ॒व॒ ।

सेध॑ । रा॒ज॒न् । अप॑ । स्रिधः॑ । वि । वः॒ । मदे॑ । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ । विव॑क्षसे ॥७

त्वम् । नः । सोम । विश्वतः । गोपाः । अदाभ्यः । भव ।

सेध । राजन् । अप । स्रिधः । वि । वः । मदे । मा । नः । दुःऽशंसः । ईशत । विवक्षसे ॥७

हे “सोम "अदाभ्यः केनाप्यहिंस्यः “त्वं “विश्वतः सर्वतः “नः अस्माकं “गोपाः रक्षिता “भव । अपि च हे “राजन् राजमान सोम त्वं “स्रिधः अस्माकमुपक्षपयितॄन् “अप “सेध अस्मत्तोऽपगमय अपजहि वा । “नः अस्माकं दुःशंसः विद्यमानानामविद्यमानानां कर्मणां शंसिता प्रख्यापयिता "मा “ईशत ईशिता मा भूत् । तव प्रसादादस्माकमपवक्ता कश्चिदपि मा भूदित्यर्थः । किमर्थमेतत्सर्वं प्रार्थ्यसे । “वि “वो “मदे तव विविधसोमादिहविर्जन्यतृप्त्यर्थम् । अतो “विवक्षसे त्वं महान्भवसि ॥


त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।

क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥८

त्वम् । नः॒ । सो॒म॒ । सु॒ऽक्रतुः॑ । व॒यः॒ऽधेया॑य । जा॒गृ॒हि॒ ।

क्षे॒त्र॒वित्ऽत॑रः । मनु॑षः । वि । वः॒ । मदे॑ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥८

त्वम् । नः । सोम । सुऽक्रतुः । वयःऽधेयाय । जागृहि ।

क्षेत्रवित्ऽतरः । मनुषः । वि । वः । मदे । द्रुहः । नः । पाहि । अंहसः । विवक्षसे ॥८

हे “सोम “सुक्रतुः शोभनप्रज्ञः “क्षेत्रवित्तरः क्षेत्रस्यातिशयेन लम्भकः “त्वं “नः अस्माकं “वयोधेयाय अन्नदानाय “जागृहि । किंच “द्रुहः द्रोग्धुः “मनुषः मनुष्याच्छत्रोः सकाशात् “नः अस्मान् “पाहि रक्ष । “अंहसः पापाच्च नोऽस्मान् पाहि । किमर्थम् । “वि “वो "मदे। तव सोमादिहविर्जन्यतृप्त्यर्थमित्यर्थः । “विवक्षसे त्वं महान्भवसि ॥


त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ ।

यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥९

त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ ।

यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥९

त्वम् । नः । वृत्रहन्ऽतम । इन्द्रस्य । इन्दो इति । शिवः । सखा ।

यत् । सीम् । हवन्ते । सम्ऽइथे । वि । वः । मदे । युध्यमानाः । तोकऽसातौ । विवक्षसे ॥९

हे “वृत्रहन्तम शत्रूणामतिशयेन हन्तर्हे “इन्दो हे सोम यः “त्वम् “इन्द्रस्य "शिवः सुखकरः “सखा मित्रभूतोऽसि स त्वं “नः अस्मान् पाहीति शेषः । कदेति उच्यते। “तोकसातौ । तोक इत्यपत्यनाम । सातिः। ‘षणु दाने ' इत्यस्माद्धातो रूपम् । दीयतेऽस्मिन्नपत्यमिति तोकसातिः संग्रामविशेषणम् । तस्मिन् । अतिमहतीत्यर्थः। “समिथे संग्रामे “युध्यमानाः युद्धं कुर्वाणाः शत्रुजनाः “सीं सर्वतः “यत् यदा “हवन्ते युद्धार्थमस्मानाह्वयन्ति। तदास्माकं रक्षिता भवेत्यर्थः । कस्मिन् निमित्ते । “वि “वो “मदे तव विविधहविर्जन्यहर्षनिमित्ते। “विवक्षसे त्वं महान्भवसि । महतां हि पालनं युक्तमेवेति ॥


अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः ।

अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥१०

अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः ।

अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥१०

अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः ।

अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे ॥१०

अयं “घ ईदृशः खलु “सः प्रसिद्धः अस्माभिरभिषुतः सोमः “तुरः सर्वकार्येषु त्वरणशील: “मदः मदकरः “प्रियः “इन्द्रस्य तर्पयिता “वर्धत अस्मदीयां मतिमवर्धयत् । “अयं सोमः "कक्षीवतः एतदाख्यस्यर्षेः । कीदृशस्य । “महः महतः “विप्रस्य मेधाविनः “मतिं प्रज्ञां “वर्धयत् अवर्धयत् । तद्वदस्माकमपि मतिं वर्धयेदित्यर्थः । शिष्टं गतम् ॥


अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।

अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥११

अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः ।

अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥११

अयम् । विप्राय । दाशुषे । वाजान् । इयर्ति । गोऽमतः ।

अयम् । सप्तऽभ्यः । आ । वरम् । वि । वः । मदे । प्र । अन्धम् । श्रोणम् । च । तारिषत् । विवक्षसे ॥११

“अयं सोमः “विप्राय मेधाविने “दाशुषे हविर्दत्तवते यजमानाय “गोमतः पशुयुक्तानि “वाजान् अन्नानि “इयर्ति प्रेरयति । प्रयच्छतीत्यर्थः । किंच “अयम् एव सोमः “सप्तभ्यः होतृभ्यः “वरं वरणीयं धनम् "आ प्रयच्छति । “अन्धं नेत्रहीनं दीर्घतमसमृषिं चक्षुष्प्रदानेन “श्रोणं “च पङ्गुं परावृजमृषिं चरणप्रदानेन एवमुभावृषी “प्र “तारिषत् प्रकर्षेण वर्धितवान् । शिष्टं स्पष्टम् ॥ ॥१२॥

टिप्पणी

१०.२५.१ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् इति

पौषम्

ऋग्वेदः १०.२० सूक्तस्य आरम्भिका ऋगस्ति - भद्रं नो अपि वातय मनः। १०.२५ सूक्ते दक्षक्रतू अतिरिक्तौ स्तः। शतपथब्राह्मणे ४.१.४.१ कथनमस्ति - क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्मं स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२५&oldid=321581" इत्यस्माद् प्रतिप्राप्तम्