ऋग्वेदः सूक्तं १०.८०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.८० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.७९ ऋग्वेदः - मण्डल १०
सूक्तं १०.८०
सौचीकोऽग्निः वैश्वानरो वा, सप्तिर्वाजंभरो वा।
सूक्तं १०.८१ →
दे. अग्निः ।त्रिष्टुप्


अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् ।
अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम् ॥१॥
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश ।
अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥२॥
अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् ।
अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥३॥
अग्निर्दाद्द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति ।
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥४॥
अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः ।
अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥५॥
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः ।
अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥६॥
अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् ।
अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥७॥


सायणभाष्यम्

‘ अग्निः सप्तिम्' इति सप्तर्चं द्वादशं सूक्तं सौचीकस्य वैश्वानरस्याग्नेरार्षं त्रैष्टुभमाग्नेयम् । ‘ अग्निः सप्तिम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


अ॒ग्निः सप्तिं॑ वाजंभ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठां ।

अ॒ग्नी रोद॑सी॒ वि च॑रत्समं॒जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिं ॥१

अ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् ।

अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥

अग्निः । सप्तिम् । वाजम्ऽभरम् । ददाति । अग्निः । वीरम् । श्रुत्यम् । कर्मनिःऽस्थाम् ।

अग्निः । रोदसी इति । वि । चरत् । सम्ऽअञ्जन् । अग्निः । नारीम् । वीरऽकुक्षिम् । पुरम्ऽधिम् ॥

अयम् “अग्निः “सप्तिं सर्पणस्वभावमश्वं “वाजंभरं युद्धे शत्रून् जित्वान्नसंपादकं “ददाति स्तोतृभ्यः । तथा “अग्निर्वीरं वीर्यवन्तं पुत्रं “श्रुत्यं पितृव्यपदेशकं “कर्मनिःष्ठां यागेऽनन्यचित्तं ददाति । “अग्नी “रोदसी द्यावापृथिव्यौ “समञ्जन् सम्यगञ्जयन् “वि “चरत् विविधं चरति । अयम् अग्निर्नारीं योषितं “वीरकुक्षिं वीरप्रसवकुक्षिं “पुरधिं च करोति ॥


अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।

अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥२

अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।

अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥

अग्नेः । अप्नसः । सम्ऽइत् । अस्तु । भद्रा । अग्निः । मही इति । रोदसी इति । आ । विवेश ।

अग्निः । एकम् । चोदयत् । समत्ऽसु । अग्निः । वृत्राणि । दयते । पुरूणि ॥

“अप्नसः कर्मवतः “अग्नेः “समित् “भद्रा “अस्तु । अयम् “अग्निः “मही महत्यौ “रोदसी द्यावापृथिव्यौ “आ “विवेश आविष्टवान् स्वतेजसा । तथायम् “अग्निरेकम् असहायमेव “चोदयत् चोदयति प्रेरयति “समत्सु संग्रामेषु । युद्धे स्वभक्तं स्वयं सहायः सन् जयिनं करोतीत्यर्थः । तथा “अग्निर्वृत्राणि “पुरूणि बहून् शत्रून् “दयते हन्ति ॥


अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थं ।

अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यदं॒तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सं ॥३

अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् ।

अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥

अग्निः । ह । त्यम् । जरतः । कर्णम् । आव । अग्निः । अत्ऽभ्यः । निः । अदहत् । जरूथम् ।

अग्निः । अत्रिम् । घर्मे । उरुष्यत् । अन्तः । अग्निः । नृऽमेधम् । प्रऽजया । असृजत् । सम् ॥

“अग्निर्ह अयमग्निः खलु “त्यं तं प्रसिद्धं "जरतः “कर्णं जरत्कर्णनामानमृषिम् “आव ररक्ष । तथायम् “अग्निः “अद्भ्यः “जरूथम् एतन्नामानमसुरम् “निरदहत् निर्दग्धवान् । तथा “अग्निरत्रिं महर्षिं “घर्मे “अन्तः ऋबीसेऽवस्थितम् “उरुष्यत् ररक्ष । तथायम् “अग्निर्नृमेधम् एतन्नामकऋषिं “प्रजया पुत्रादिलक्षणया “सम् “असृजत् संयुयोज ॥


अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निर्ऋषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।

अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥४

अ॒ग्निः । दा॒त् । द्रवि॑णम् । वी॒रऽपे॑शाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्रा॑ । स॒नोति॑ ।

अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा॑नि । विऽभृ॑ता । पु॒रु॒ऽत्रा ॥

अग्निः । दात् । द्रविणम् । वीरऽपेशाः । अग्निः । ऋषिम् । यः । सहस्रा । सनोति ।

अग्निः । दिवि । हव्यम् । आ । ततान । अग्नेः । धामानि । विऽभृता । पुरुऽत्रा ॥

अयम् “अग्निः “वीरपेशाः प्रेरकज्वालारूपः “द्रविणं धनं “दात् ददाति । तथा “अग्निर्ऋषिं मन्त्रद्रष्टारं पुत्रं प्रयच्छतीति शेषः । ऋषिः विशेष्यते । “यः ऋषिः “सहस्रा गवां सहस्राणि “सनोति भजते दक्षिणात्वेन तमृषिं ददातीति । तथा “अग्निः “दिवि द्युलोके “हव्यं यजमानैर्हुतम् “आ “ततान देवेषु विस्तारयति । तथा “अग्नेर्धामानि शरीराणि “विभृता विभृतानि संभृतानि “पुरुत्रा बहुषु स्थानेष्वाहवनीयधिष्ण्यादिषु क्षित्यादिषु वा ॥


अ॒ग्निमु॒क्थैर्ऋष॑यो॒ वि ह्व॑यंते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।

अ॒ग्निं वयो॑ अं॒तरि॑क्षे॒ पतं॑तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोनां॑ ॥५

अ॒ग्निम् । उ॒क्थैः । ऋष॑यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः॑ । याम॑नि । बा॒धि॒तासः॑ ।

अ॒ग्निम् । वयः॑ । अ॒न्तरि॑क्षे । पत॑न्तः । अ॒ग्निः । स॒हस्रा॑ । परि॑ । या॒ति॒ । गोना॑म् ॥

अग्निम् । उक्थैः । ऋषयः । वि । ह्वयन्ते । अग्निम् । नरः । यामनि । बाधितासः ।

अग्निम् । वयः । अन्तरिक्षे । पतन्तः । अग्निः । सहस्रा । परि । याति । गोनाम् ॥

“अग्निमुक्थैः शस्त्रैः ऋषयः पूर्वे “वि “हृयन्ते विविधमाह्वयन्ति यज्ञे स्वीये । “अग्निं “नरः मनुष्याः "यामनि संग्रामे । यातिर्वधकर्मसु पठितः। “बाधितासः शत्रुभ्यो बाधिताः प्राप्नुवन्ति जयार्थम् । तथा “अग्निं “वयः पक्षिणः “अन्तरिक्षे “पतन्तः पश्यन्ति रात्रिषु । तस्मादिमां वयांसि नक्तं नाध्यासते' (तै. सं. ५, ६. ४. ४ ) इति ब्राह्मणम् । यद्वा दावभूतमग्निमन्तरिक्षगा वयः पतन्ति । तथा “अग्निः “गोनां गवां “सहस्रा सहस्राणि “परि परितः “याति गच्छति ।


अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।

अ॒ग्निर्गांध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥६

अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः ।

अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥

अग्निम् । विशः । ईळते । मानुषीः । याः । अग्निम् । मनुषः । नहुषः । वि । जाताः ।

अग्निः । गान्धर्वीम् । पथ्याम् । ऋतस्य । अग्नेः । गव्यूतिः । घृते । आ । निऽसत्ता ॥

“अग्निं “विशः प्रजा ऋत्विग्यजमानलक्षणाः “ईळते स्तुवन्ति । "याः “मानुषीः मानुष्यो मनुष्याज्जाताः ता ईळते । तथा “अग्निं “मनुषः मनुष्याः “नहुषः राज्ञः सकाशात् “जाताः प्रजा विविधं स्तुवन्तीति । “अग्निर्गान्धर्वीम् । वाङ्नामैतत् । वाचं शृणोति । कीदृशीं गान्धर्वीम् । “ऋतस्य यज्ञस्य “पथ्यां पथि हिताम् । “अग्नेः महात्मनः “गव्यूतिः मार्गः “घृते आज्ये “आ “निषत्ता सर्वतो निषण्णो भवति ।


अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिं ।

अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥७

अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भवः॑ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒ऽवृ॒क्तिम् ।

अग्ने॑ । प्र । अ॒व॒ । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥

अग्नये । ब्रह्म । ऋभवः । ततक्षुः । अग्निम् । महाम् । अवोचाम । सुऽवृक्तिम् ।

अग्ने । प्र । अव । जरितारम् । यविष्ठ । अग्ने । महि । द्रविणम् । आ । यजस्व ॥

“अग्नये “ब्रह्म स्तोत्रम् “ऋभवः मेधाविनः “ततक्षुः अकुर्वन् । वयं च “महां महान्तम् “अग्निं प्रति "सुवृक्तिं स्तुतिम् “अवोचाम । हे “यविष्ठ युवतम “अग्ने “जरितारं स्तोतारं “प्राव प्ररक्ष । हे “अग्ने “महि महत् “द्रविणं धनम् “आ "यजस्व प्रयच्छेत्यर्थः । अत्र प्रतिवाक्यमग्न्यभिधानं तस्य स्तुत्यत्वप्रदर्शनार्थम् ॥ ॥ १५ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८०&oldid=175498" इत्यस्माद् पुनः प्राप्तिः