ऋग्वेदः सूक्तं १०.१०२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१०१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०२
मुद्गलो भार्म्यश्व-।
सूक्तं १०.१०३ →
दे. द्रुघण, इन्द्रो वा। त्रिष्टुप्, १, ३,१२ बृहती।


प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।
अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥१॥
उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् ।
रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥२॥
अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।
दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥३॥
उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।
प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥४॥
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।
तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥५॥
ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।
दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥६॥
उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।
इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥७॥
शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।
नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥८॥
इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।
येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥९॥
आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति ।
नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥१०॥
परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् ।
एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥११॥
त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥१२॥


सायणभाष्यम्

‘प्र ते रथम् ' इति द्वादशर्चं तृतीयं सूक्तम् । भर्म्यश्वपुत्रो मुद्गल ऋषिः। आद्या तृतीयान्त्या चेति तिस्रो बृहत्यः । शिष्टा नव त्रिष्टुभः । दुघणो नाम मुद्गरः । तद्देवत्यमिदमिन्द्रदेवत्यं वा । तथा चानुक्रान्तं-- प्र ते मुद्गलो भार्म्यश्व ऋषभेण द्रुघणेन चाजिं जिगायेति द्रौघणं वाद्या तृतीयान्त्या च बृहत्यः' इति । गतो विनियोगः । अत्राहुः-- मुद्गलस्य हृता गावश्चोरैस्त्यक्त्वा जरद्गवम् । स शिष्टं शकटे कृत्वा गत्वैक ऋजुराहवम् । द्रुघणं युयुजेऽन्यत्र चोर मार्गानुसारकः । द्रुघणं चाग्रतः क्षिप्त्वा चोरेभ्यो जगृहे स्वगाः' इति । तथा निरुक्तेऽपीयं कथा सूचिता----’ मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा संग्रामे व्यवहृत्याजिं जिगाय' (निरु. ९. २३ ) इति ॥ प्र ते रथे मिथूकृतमिन्द्रोऽवतु धृष्णुया ।।


प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या ।

अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥१

प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया ।

अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥१

प्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया ।

अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥१

हे मुद्गल “ते “रथं “मिथूकृतं मिथःकृतमसहायं कृतम् । अथवा मिथुरिति मिथ्यानाम । अश्वादिभिः शून्यं कृतं “धृष्णुया धर्षणशीलः “इन्द्रोऽवतु रक्षतु । यद्वा । धृष्णुया धर्षणशीलेन वज्रेण । उभयत्र ‘सुपां सुलुक्' इति सुपो याजादेशः । अथ प्रत्यक्षकृतः । हे “पुरुहूत बहुभिराहूतेन्द्र “अस्मिन्नाजौ संग्रामेऽपहृतगोभिश्चौरैः कृते संग्रामे । कीदृशे । “श्रवाय्ये श्रोतव्ये । विश्रुत इत्यर्थः । ‘ श्रुदक्षि° (उ, सू. ३.९६ ) इत्यादिना आय्यप्रत्ययः । “धनभक्षेषु अस्मासु गोरूपधनभजनकामेषु सत्सु । यद्वा । गोरूपधनस्य भक्षकेषु चौरेषु जेतव्येषु सत्सु । “न: अस्मान् “अव रक्ष ॥


उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्रं॑ ।

र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिंद्रसे॒ना ॥२

उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।

र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥२

उत् । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथम् । यत् । अजयत् । सहस्रम् ।

रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥२

“अस्याः ‘ रथीरभून्मुद्गलानी ' इति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूतायाः “वासः अंशुकं “वातः वायुः “उत् “वहति ऊर्ध्वं प्रापयति । श्रमजनितस्वेदापनयाय । अथवा शीघ्ररथधावनजनितो वायुरंशुकं चालयतीत्यर्थः । कदेति उच्यते । “यत् यदा “अधिरथम् अधिकं रथमारुह्य “सहस्रं सहस्रसंख्याकं गोसंघम् “अजयत् तदा । यद्या गोसहस्रमजयदस्या इति वा योज्यम् । यद्योगाज्जयतेर्न निघातः । “गविष्टौ गवामपहृतानामेषणे “मुद्गलानी मुद्गलस्य स्त्री "रथीरभूत् सारथिरभवत् । छान्दस आनुक् । “इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना । यद्वा । इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी । “भरे संग्रामे “कृतं संपादितं गोसंघं “व्यचेत् व्यचिनोत् । शत्रुभ्यः पृथक्कृतवती । चयतेर्लङि • बहुलं छन्दसि' इति विकरणस्य लुक् ॥


अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।

दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धं ॥३

अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।

दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥३

अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभिऽदासतः ।

दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥३

हे "इन्द्र “जिघांसतः हन्तुमिच्छतः “अभिदासतः अभिद्रुह्यतः शत्रोः “वज्रम् अन्तर्यच्छ अन्तर्गमय । तदेवाह । हे “मघवन् धनवन्निन्द्र “दासस्य “वा उपक्षीणस्याल्पस्य “आर्यस्य अभिगन्तव्यस्य महतो “वा शत्रोः “वधम् । वज्रनामैतत् । हननसाधनं वज्रं “सनुतः । अन्तर्हितनामैतत् । अन्तर्हितं गूढं प्रयुज्यमानं "यवय पृथक्कुरु ॥


उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।

प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥४

उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।

प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥४

उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिऽमातिम् । एति ।

प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥४

अत्र वृषभः स्तूयते । वृषभः "उद्नः उदकस्य “ह्रदम् अगाधजलाशयम् “अपिबत् “जर्हषाणः अत्यन्त हर्षितः सन् । तथा “कूटं पर्वतशृङ्गं चौरैर्गोपिधानार्थं निहितं "तृंहत् "स्म शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वा “अभिमातिमेति शत्रुं गच्छति हन्तुम् । पश्चात् “मुष्कभारः प्रवृद्धमुष्कः। प्रवृद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति । तथा प्रवृद्धो वृषभः “श्रवः । श्रूयत इति श्रवो यशः । “इच्छमानः इच्छन् “अजिरं गमनशीलं शत्रुं “बाहू बाहुभ्यां बाह्वोर्वा “प्र “अभरत् प्रहृतवान् । यद्वा अजिरमिति क्षिप्रनाम । क्षिप्रं “सिषासन् संभक्तुमिच्छन् बाहू प्राभरत् । प्रसारितवानित्यर्थः ॥


न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।

तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥५

नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।

तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥५

नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।

तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥५

मुद्गल आह । तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यम् “एनं वृषभं “न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन् । के। “उपयन्तः समीपे गच्छन्तो नरः । यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन् । किम् । “वृषभं वर्षकं सेक्तारम् “आजेः संग्रामस्य “मध्ये “अमेहयन् मूत्रपुरीषोत्सर्गं विश्रामार्थं कारितवन्तः । “सूभर्वम् । भर्वतिरत्तिकर्मा । शोभनचणकादिभक्षकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः । यद्वा एतद्गोसहस्रविशेषणम् । “तेन उक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि “शतवत् शतोपेतं “गवां “सहस्रं “मुद्गलः एतन्नामाहं “प्रधने संग्रामे “जिगाय अजैषम् ॥


क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।

दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छंति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानीं॑ ॥६

क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।

दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥६

ककर्दवे । वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी ।

दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥६

"ककर्दवे हिंसनाय शत्रूणां “वृषभः वर्षिता गौः "युक्त “आसीत् रथे संबद्धोऽभूत् । "केशी केशवान् प्रग्रहवान् “अस्य राज्ञः रथस्य वा “सारथिः । मुद्गलानीत्यर्थः । सारथ्यभिप्रायेण केशीति पुँलिङ्गता। “अवावचीत् वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत् । अथवा । केशी केशिनी सारथिरस्य । अमुमित्यर्थः । अमुं वृषभं शब्दमकारयत् । ‘वच परिभाषणे' इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ्लुगन्तस्य लुङि रूपम् । अथवा । अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचीत् भृशमशब्दयत् । एवंभूतस्य “दुधेः दुर्धरस्य “अनसा “सह “द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयंकरशब्देन “निष्पदः निर्गच्छन्तो योद्धारः “मुद्गलानीं मुद्गलस्य योषितं सारथिभूतां प्रति “ऋच्छन्ति “ष्म अगच्छन्नित्यर्थः । ‘ पाघ्रा इत्यादिना ऋच्छादेशः ॥ ॥ २० ॥


उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।

इंद्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥७

उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।

इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥७

उत । प्रऽधिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् ।

इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥७

“उत अपि च “विद्वान् स मुद्गलः “अस्य रथस्य “प्रधिम् । प्रधिरक्षच्छिद्रकाष्ठः प्रान्तकाष्ठः। स च रथावयवानामुपलक्षकः । रथावयवम् “उदहन् उदगमयत् । रथं संननाहेत्यर्थः । तदनन्तरम् “अत्र रथे “वंसगं वननीयगमनं वृषभं “शिक्षन् शिक्षयन् रज्जुषु स्थापयन् “उपायुनक् रथसमीपे युगेऽयोजयत् । युजेर्लङि तिपो हल्ङ्यादिलोपः । एवं सति “इन्द्रः देवः “अघ्न्यानाम् अहन्तव्यानां गवां “पतिम् “उत् उत्कृष्टम् “आवत् रक्षामकरोत् । पश्चात् “ककुद्मान् वृषभः “पद्याभिः सरणिभिः “अरंहत वेगेनागमत् । रहिर्गत्यर्थः ॥ .


शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः ।

नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥८

शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया॑म् । दारु॑ । आ॒ऽनह्य॑मानः ।

नृ॒म्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥८

शुनम् । अष्ट्राऽवी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आऽनह्यमानः ।

नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥८

“शुनम् इति सुखनाम। सुखं यथा भवति तथा । “अष्ट्रावी । अष्ट्रा प्रतोदः तद्वान् । छान्दसो विनिः । “कपर्दी कपर्दवान् “अचरत् संचरति । किं कुर्वन् । “वरत्रायां वध्रौ “दारु काष्ठं रथाङ्गभूतम् “आनह्यमानः सर्वतो बध्नन् । पुनः किं कुर्वन् । “बहवे “जनाय स्वपुत्रभृत्यादिलक्षणाय “नृम्णानि धनानि शत्रुसंबन्धीनि सुखानि वा “कृण्वन् । “गाः “पस्पशानः स्पृशन् । ' स्पश बाधनस्पर्शनयोः । छान्दसो लिटि कानच् । एवं कुर्वन् “तविषीः बलानि “अधत्त धते । जयं प्राप्नोतीत्यर्थः ॥


इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं ।

येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥९

इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।

येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥९

इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।

येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥९

कंचन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वाणं प्रति ब्रवीति । राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान् । पूर्वं वृषभो वर्णितः । अत्र द्रुघणो वर्ण्यते । हे सखे “तम् “इमं “द्रुघणं “पश्य । कीदृशमिममिति उच्यते । ‘ युजेरसमासे' ( पा. सू. ७. १. ७१ ) इति नुम् । “युञ्जम् । युज्यत इति युक् सखा । “वृषभस्य सखिभूतम् । वृषभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः । पुनः कीदृशम् । “काष्ठाया “मध्ये । ‘ आज्यन्तोऽपि काष्ठोच्यते' (निरु. २.१५) इति निरुक्तम् । आज्यन्तस्य मध्ये। संग्राम इत्यर्थः । तत्र “शयानं हन्तव्यान् सर्वान् हत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम् । ईदृशं द्रुमसयं घनं पश्येत्यर्थः । “येन द्रुघणेन “शतवत् शतोपेतं “गवां “सहस्रं “पृतनाज्येषु संग्रामेषु “जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लिट् । ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कुत्वम् । मिपो णल् ॥


आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं युं॒जंति॒ तम्वा स्था॑पयंति ।

नास्मै॒ तृणं॒ नोद॒कमा भ॑रं॒त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥१०

आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।

न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥१०

आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊं इति । आ । स्थापयन्ति ।

न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥१०

यः "आरे समीप एव “अघा अघानि दुःखानि शत्रुरूपाणि करोति तं “कः नरः “नु इदानीम् “इत्था इत्थं “ददर्श पश्यति । किंच “यं द्रुघणं “युञ्जन्ति रथे “तमु तमेव “आ “स्थापयन्ति आरोहयन्तीत्यर्थः। अथवा । यं रथे युञ्जन्ति तमेव प्रहरणार्थमा स्थापयन्ति । उभयविधकार्यमेकः करोतीत्यर्थः । किंच “अस्मै “तृणं न “आ “भरन्ति नाहरन्ति । तथा “उदकं “न आहरन्ति । हृग्रहोर्भः इति भत्वम् । ईदृशो द्रुघणः “उत्तरः दक्षिणस्य वृषभस्य स्वयमुत्तरः सन् “धुरः रथभारस्य रथधुरं “वहति “प्रदेदिशित् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति । ‘दिश अतिसर्जने' इत्यस्माद्यङ्लुगन्ताच्छतरि रूपम् ॥


प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् ।

ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥११

प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।

ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥११

परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।

एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥११

अत्र मुद्गलानी सारथिः स्तूयते । एषा मुद्गलानी “परिवृक्तेव। ' वृजी वर्जने'। परित्यक्ता पत्या पत्या' वियुक्ता योषिदिव । सा यथा “पतिविद्यम् । विद्यो वेद्यो लम्भनीयः। पतिश्चासौ विद्यश्च । पतिविद्यमानशे तद्वत्पतिविद्यम् “आनट् । आनड् व्याप्तिकर्मा । नशेर्लुङि' मन्त्रे घस' इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' ( पा. सू. ६. ४. ७३) इत्यनजादीनामप्याडागमः । अश्नोतेर्वा लिटि तलोपश्छान्दसः । तथा पतिसमीपं सारथित्वेनागत्य “पीप्याना वर्धमाना भवति । किमिव । “कूचक्रेणेव “सिञ्चन् । कुः पृथिवी । तस्याश्चक्रो वलयः कूचक्रः । तेन वर्षणीयत्वेन निमित्तेन सिञ्चन् जलं वर्षन्मेघ इव । स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षणसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः । तथा “एषैष्या। एषितव्यो गोसंघ एषः। तमिच्छतीस्येषैषी । ईदृश्या तया “रथ्या सारथिभूतया “जयेम शत्रुभिरपहृतं गोसंघम् । तस्याः “सातं दत्तं संभजनं वा "सुमङ्गलं शोभनमङ्गलवत् 'सिनवत् । सिनमन्नम् । तद्वच्च “अस्तु गोरूपान्नवच्च भवतु ॥


त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिंद्रासि॒ चक्षु॑षः ।

वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥१२

त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।

वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥१२

त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः ।

वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥१२

सूक्तस्य विकल्पेनैन्द्रत्वादादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते । हे “इन्द्र “त्वं “विश्वस्य सर्वस्य “जगतः “चक्षुषः चक्षुष्मतः पश्यतो वा जगतः “चक्षुः “असि । प्रत्येकमुत्पत्तिविशिष्टचक्षुःसद्भावेऽपि सर्वस्य साधारणं चक्षुरसि । त्वया दृष्टया द्रष्टव्यानैहिकामुष्मिकपदार्थान् पश्यन्तीत्यर्थः । त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान् साधयन्ति । यद्वा । विश्वस्य जगतो यन्निजं चक्षुरस्ति तस्यापि चक्षुषस्त्वं चक्षुरसि । “यत् यस्मात् “वृषा अभिमतवर्षकस्त्वम् “आजिं मुद्गलस्य मम संग्रामं “वध्रिणा पाशेन "युजा युजौ युक्तौ “वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा “चोदयन् शत्रुषु प्रेरयन् “सिषाससि आजिं संभक्तुमिच्छसि तस्माच्चक्षुरसि ॥ ॥ २१ ॥

[सम्पाद्यताम्]

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१