ऋग्वेदः सूक्तं १०.८७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.८७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.८६ ऋग्वेदः - मण्डल १०
सूक्तं १०.८७
पायुर्भारद्वाजः
सूक्तं १०.८८ →
दे. रक्षोहाग्निः। त्रिष्टुप्, २२-२५ अनुष्टुप्

अङ्गाराभिविहरणे परि त्वाग्ने इत्येषा जप्यः(आश्व.श्रौ.सू. ५.१३)


रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥२॥
उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च ।
उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥३॥
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः ।
ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥४॥
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥५॥
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥६॥
उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् ।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति ।
तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥९॥
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥११॥
तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् ।
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥१२॥
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१३॥
परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥१४॥
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥१५॥
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१६॥
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥१७॥
विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः ।
परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१८॥
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१९॥
त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् ।
प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥२०॥
पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् ।
सखे सखायमजरो जरिम्णेऽग्ने मर्ताँ अमर्त्यस्त्वं नः ॥२१॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥२२॥
विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह ।
अग्ने तिग्मेन शोचिषा तपुरग्राभिरृष्टिभिः ॥२३॥
प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥२४॥
प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति ।
यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥२५॥


सायणभाष्यम्

‘ रक्षोहणम्' इति पञ्चविंशत्यृचं तृतीयं सूक्तम् । पायुर्नाम भारद्वाज ऋषिः । द्वाविंशाद्याश्चतस्रोऽनुष्टुभः । शिष्टा एकविंशतिस्त्रिष्टुभः । रक्षोहाग्निर्देवता । तथा चानुक्रान्तं -- ‘ रक्षोहणं पञ्चाधिका पायुराग्नेयं राक्षोघ्नं चतुरनुष्टुबन्तम् ' इति । गतः सूक्तविनियोगः । अङ्गाराभिविहरणे ‘परि त्वाग्ने इत्येषा जप्या । सूत्रितं च – धिष्ण्यावताम् ' इत्यादिना ‘परि त्वाग्ने पुरं वयम् ' (आश्व. श्रौ. ५. १३) इत्यन्तेन ॥


र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।

शिशा॑नो अ॒ग्निः क्रतु॑भि॒ः समि॑द्ध॒ः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥१

र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।

शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥१

रक्षःऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म ।

शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥१

"रक्षोहणं रक्षसां हन्तारं "वाजिनं बलवन्तमन्नवन्तं वाग्निम् “आ “जिघर्मि घृतेनाजुहोमि। किंच “मित्रं यजमानानां सखायं “प्रथिष्ठ पृथुतमं “शर्म गृहम् “उप "यामि उपगच्छामि । सोऽयम् अग्निः “शिशानः ज्वालास्तीक्ष्णीकुर्वन् "क्रतुभिः कर्मपरैः पुरुषैः "समिद्धः प्रज्वालितो भवति ।। किंच "सः अग्निः "नः अस्मान् "दिवा अहनि "रिषः हिंसकाद्रक्षसः "पातु रक्षतु । "सः अग्निः "नक्तं रात्रौ चास्मान्रक्षसः पातु ॥


अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒ः समि॑द्धः ।

आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥२

अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः ।

आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥२

अयःऽदंष्ट्रः । अर्चिषा । यातुऽधानान् । उप । स्पृश । जातऽवेदः । सम्ऽइद्धः ।

आ । जिह्वया । मूरऽदेवान् । रभस्व । क्रव्यऽअदः । वृक्त्वी । अपि । धत्स्व । आसन् ॥२

हे "जातवेदः जातधन जातप्रज्ञ वा त्वं "समिद्धः सम्यग्दीप्तः “अयोदंष्ट्रः अयोमयदंष्ट्रः । तीक्ष्णदंष्ट्र: सन्नित्यर्थः । "यातुधानान् राक्षसान् “अर्चिषा ज्वालया “उप “स्पृश संदहेत्यर्थः । किंच त्वं “मूरदेवान् मूढदेवान् मारकव्यापारान् राक्षसान् “जिह्वया ज्वालया “आ “रभस्व मारयेत्यर्थः । मारयित्वा च "क्रव्यादः मांसभक्षकान् राक्षसान् वृक्त्वी छित्त्वा “आसन् आस्ये "अपि “धत्स्व अपिधेहि । आच्छादयेत्यर्थः ॥


उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।

उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भै॒ः सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥३

उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ ।

उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ । रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥३

उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च ।

उत । अन्तरिक्षे । परि । याहि । राजन् । जम्भैः । सम् । धेहि । अभि । यातुऽधानान् ॥३

हे "उभयाविन् उभाभ्यां दंष्ट्राभ्यां युक्ताग्ने त्वं "हिंस्रः राक्षसानां हिंसकस्त्वं “उभा उभे “दंष्ट्रा दंष्ट्रे "शिशानः तीक्ष्णीकुर्वन् "उप “धेहि वधार्हेषु राक्षसेषु प्रतिष्ठापय । किंच “अवरं "परं "च जगत् रक्ष । "उत अपि च हे "राजन् दीप्ताग्ने त्वम् "अन्तरिक्षे स्थितान् राक्षसान् "परि “याहि परिगच्छ । परिगत्य च तान् "यातुधानान् राक्षसान "जम्भैः भक्षणसाधनभूताभिः दंष्ट्राभिः “अभि “सं “धेहि संयोजय । भक्षयेत्यर्थः ॥


य॒ज्ञैरिषू॑ः सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।

ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥४

य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः ।

ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥४

यज्ञैः । इषूः । सम्ऽनममानः । अग्ने । वाचा । शल्यान् । अशनिऽभिः । दिहानः ।

ताभिः । विध्य । हृदये । यातुऽधानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम् ॥४

हे अग्ने त्वं "यज्ञैः अस्मदीयैर्बलकरैर्यागैः “वाचा अस्मदीयया स्तुत्या च "इषूः वक्रान् बाणान् “संनममानः संनमयन् “शल्यान् तासां शल्यान् “अशनिभिः दीप्तिभिः “दिहानः तीक्ष्णीकुर्वन् “ताभिः इषुभिः “यातुधानान् राक्षसान् "हृदये "विध्य । ततः “एषां यातुधानानां संबन्धिनः “प्रतीचः युद्धाय त्वां प्रतिगतान् “बाहून "प्रति “भङ्धि प्रत्यामर्दय ।।


अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् ।

प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥५

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् ।

प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥५

अग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् ।

प्र । पर्वाणि । जातऽवेदः । शृणीहि । क्रव्यऽअत् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥५

हे “जातवेदः जातधन जातप्रज्ञ वा “अग्ने त्वं "यातुधानस्य राक्षसस्य “त्वचं “भिन्धि दारय। “एनं भिन्नत्वचं यातुधानं “हिंस्रा हिंसनशीलं तव "अशनिः वज्रं "हरसा तापेन "हन्तु हिनस्तु । हतस्य राक्षसस्य “पर्वाणि शरीरपर्वाणि च “प्र “शृणीहि छिन्द्धीत्यर्थः। छिन्नेषु च शरीरसंधिषु सत्सु “वृक्णं छिन्नसंधिमेनं यातुधानं "क्रविष्णुः मांसमिच्छन् “क्रव्यात् मांसभक्षको वृकादिः “वि “चिनोतु भक्षयत्वित्यर्थः ॥ ॥ ५ ॥


यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् ।

यद्वा॒न्तरि॑क्षे प॒थिभि॒ः पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥६

यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् ।

यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥६

यत्र । इदानीम् । पश्यसि । जातऽवेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् ।

यत् । वा । अन्तरिक्षे । पथिऽभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥६

हे "जातवेदः उत्पन्नप्रज्ञ “अग्ने त्वं "यत्र पृथिव्यां "तिष्ठन्तम् “उत अपि च “चरन्तं "यद्वान्तरिक्षे “पथिभिः आकाशमार्गेः “पतन्तं गच्छन्तं यातुधानम् "इदानीं संप्रति "पश्यसि “तं यातुधानम् "अस्ता शराणां क्षेप्ता त्वं "शिशानः शरांस्तीक्ष्णीकुर्वन् “शर्वा शरेण "विध्य ॥


उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।

अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒माद॒ः क्ष्विङ्का॒स्तम॑द॒न्त्वेनी॑ः ॥७

उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ । आ॒ऽले॒भा॒नात् । ऋ॒ष्टिऽभिः॑ । या॒तु॒ऽधाना॑त् ।

अग्ने॑ । पूर्वः॑ । नि । ज॒हि॒ । शोशु॑चानः । आ॒म॒ऽअदः॑ । क्ष्विङ्काः॑ । तम् । अ॒द॒न्तु॒ । एनीः॑ ॥७

उत । आऽलब्धम् । स्पृणुहि । जातऽवेदः । आऽलेभानात् । ऋष्टिऽभिः । यातुऽधानात् ।

अग्ने । पूर्वः । नि । जहि । शोशुचानः । आमऽअदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः ॥७

“उत अपि च हे "जातवेदः "अग्ने त्वम् "आलब्धं हन्तुं हस्ताभ्यामारब्धं साधुं मां स्तोतारं यष्टारं वा “आलेभानात् आलभमानात् "यातुधानात् राक्षसात् "ऋष्टिभिः आत्मीयैरायुधविशेषैः "स्पृणुहि पारय । रक्षेत्यर्थः । किंच "पूर्वः मुख्यस्त्वं "शोशुचानः प्रज्वलन् "नि "जहि मां हन्तुमुद्युक्तं यातुधानं मारय । किंच “तं यातुधानम् "आमाद: अपक्वस्य मांसस्य भक्षकाः “क्ष्विङ्काः शब्दकारिण्यः । ‘ टुक्षु शब्दे'। यद्वा । क्ष्विङ्का नाम पक्षिविशेषाः । “एनीः गन्त्र्यः “अदन्तु भक्षयन्तु ॥


इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।

तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥८

इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒ऽधानः॑ । यः । इ॒दम् । कृ॒णोति॑ ।

तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्ध॒य॒ । ए॒न॒म् ॥८

इह । प्र । ब्रूहि । यतमः । सः । अग्ने । यः । यातुऽधानः । यः । इदम् । कृणोति ।

तम् । आ । रभस्व । सम्ऽइधा । यविष्ठ । नृऽचक्षसः । चक्षुषे । रन्धय । एनम् ॥८

हे “यविष्ठ युवतम “अग्ने “यः यातुधानः राक्षसोऽस्मद्यज्ञविघ्नकारी “यः चान्योऽपि पिशाचादिः “इदं यज्ञदूषणादि “करोति “सः “यतमः । तमबवधारणार्थम् । “इह अस्मिंस्त्वद्विषययागकर्मणि वर्तमानाय मह्यं “प्र “ब्रूहि। “तं पापकारिणं “समिधा स्वकीयेन तेजसा “आ “रभस्व हन्तुं प्रारभस्व । ततः “एनं पापिष्ठं “नृचक्षसः नृणां द्रष्टुस्तव “चक्षुषे तेजसे “रन्धय वशं नय। तेजसा संदहेत्यर्थः ॥


ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒ः प्र ण॑य प्रचेतः ।

हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥९

ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ ।

हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥९

तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुऽभ्यः । प्र । नय । प्रऽचेतः ।

हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधानाः । नृऽचक्षः ॥९

हे “अग्ने त्वं “तीक्ष्णेन तिग्मेन “चक्षुषा तेजसा “यज्ञम् अस्मदीयं यागं “रक्ष पालय । किंच हे “प्रचेतः प्रकृष्टज्ञानाग्ने “प्राञ्चं प्राञ्चितारं यज्ञं “वसुभ्यः वसूनामर्थाय “प्र “णय प्रकर्षेण नय । किंच हे "नृचक्षः नृणां द्रष्टरग्ने “रक्षांसि “हिंस्रं हिंसनशीलम् “अभि “शोशुचानम् अभिप्रदीप्तं “त्वा त्वां “यातुधानाः राक्षसाः “मा “दभन् मा हिंसिषुः ॥


नृ॒चक्षा॒ रक्ष॒ः परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।

तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥१०

नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ ।

तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥१०

नृऽचक्षाः । रक्षः । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा ।

तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातुऽधानस्य । वृश्च ॥१०

हे “अग्ने “नृचक्षाः नृणां द्रष्टा त्वं “विक्षु मनुष्येषु हिंसकत्वेन वर्तमानं “रक्षः राक्षसं “परि “पश्य सर्वतोऽवलोकय । अवलोक्य च “तस्य रक्षसः “त्रीणि “अग्रा अग्राणि शिरांसि “प्रति “शृणीहि छिन्द्धीत्यर्थः । ततः “तस्य रक्षसः “पृष्टीः पार्श्वस्थान् राक्षसानपि “हरसा स्वकीयेन तेजसा “शृणीहि मारय । एवं “त्रेधा “यातुधानस्य तस्य राक्षसस्य “मूलं पादं “वृश्च छिन्द्धि ॥ ॥ ६ ॥


त्रिर्या॑तु॒धान॒ः प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ ।

तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥११

त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ ।

तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥११

त्रिः । यातुऽधानः । प्रऽसितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति ।

तम् । अर्चिषा । स्फूर्जयन् । जातऽवेदः । सम्ऽअक्षम् । एनम् । गृणते । नि । वृङ्धि ॥११

हे “जातवेदः जातप्रज्ञ “अग्ने “ते त्वदीयं “प्रसितिं ज्वालाप्रबन्धनं “यातुधानः राक्षसः “त्रिः त्रीन्वारान् “एतु गच्छतु । त्रिर्बद्धं यत्तत्सुबद्धं भवति हि। किंच “यः यातुधान: राक्षसः “ऋतं सत्यम् “अनृतेन असत्येन “हन्ति हिनस्ति “तं यातुधानम् “अर्चिषा स्वकीयेन तेजसा “स्फूर्जयन् निष्पिषन् । स्फूर्जतिरत्र निष्पेषणकर्मा। “एनं यातुधानं “गृणते स्तोत्रं कुर्वते मह्यं “समक्षं प्रत्यक्षं “नि “वृङ्धि। निगृह्य वर्जय वृकेण ।।


तद॑ग्ने॒ चक्षु॒ः प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् ।

अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥१२

तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् ।

अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥१२

तत् । अग्ने । चक्षुः । प्रति । धेहि । रेभे । शफऽआरुजम् । येन । पश्यसि । यातुऽधानम् ।

अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥१२

हे “अग्ने त्वं “रेभे शब्दायमाने राक्षसे “तत् “चक्षुः तेजः “प्रति “धेहि प्रक्षिप “येन चक्षुषा “शफारुजं शफाभ्यामारुजन्तं शफसदृशैर्नखैः साधूनामाभिमुख्येन भञ्जकं “यातुधानं राक्षसं “पश्यसि । किंच “सत्यं “धूर्वन्तम् असत्येन हिंसन्तम् “अचितम् अज्ञानं “दैव्येन दिवि भवेन “ज्योतिषा तेजसा “अथर्ववत् “न्योष नितरां दह । दध्यङ्ङथर्वा रक्षसां हन्तेति प्रागुक्तम् ॥


यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।

म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥१३

यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः ।

म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥१३

यत् । अग्ने । अद्य । मिथुना । शपातः । यत् । वाचः । तृष्टम् । जनयन्त । रेभाः ।

मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥१३

हे “अग्ने “यत् यदा “अद्य अस्मिन्नहनि “मिथुना स्त्रीपुंसौ "शपातः परस्परमाक्रोशतः “यत् यदा “रेभाः स्तोतारः “वाचः संबन्धि “तृष्टं कटुकं परस्पराक्रोशलक्षणमधरं वा “जनयन्त। परस्परमाक्रोशन्तीत्यर्थः । तदा “मन्योः दीप्तस्य क्रुद्धस्य वा तव । तथा च यास्कः - ‘ मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ' ( निरु. १०. २९) इति । “मनसः सकाशात् “या “शरव्या इषुः “जायते “तया शरव्यया “यातुधानान् राक्षसान् “हृदये 'विध्य ताडय। मारयेत्यर्थः ॥


परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।

परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥१४

परा॑ । शृ॒णी॒हि॒ । तप॑सा । या॒तु॒ऽधाना॑न् । परा॑ । अ॒ग्ने॒ । रक्षः॑ । हर॑सा । शृ॒णी॒हि॒ ।

परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णी॒हि॒ । परा॑ । अ॒सु॒ऽतृपः॑ । अ॒भि । शोशु॑चानः ॥१४

परा । शृणीहि । तपसा । यातुऽधानान् । परा । अग्ने । रक्षः । हरसा । शृणीहि ।

परा । अर्चिषा । मूरऽदेवान् । शृणीहि । परा । असुऽतृपः । अभि । शोशुचानः ॥१४

हे “अग्ने “यातुधानान् “तपसा तापेन “परा “शृणीहि मारय । किंच “रक्षो "हरसा त्वदीयेनौष्ण्येन “परा “शृणीहि । किंच “मूरदेवान् मारकव्यापारान् राक्षसान् “अर्चिषा स्वकीयेन तेजसा “परा “शृणीहि । अपि च “असुतृपः मनुष्याणामसुभिस्तृप्ता ये तानपि "परा शृणीहीत्यर्थः ॥


परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः ।

वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धान॑ः ॥१५

परा॑ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः॑ । य॒न्तु॒ । तृ॒ष्टाः ।

वा॒चाऽस्ते॑नम् । शर॑वः । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधानः॑ ॥१५

परा । अद्य । देवाः । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथाः । यन्तु । तृष्टाः ।

वाचाऽस्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधानः ॥१५

“अद्य अस्मिन्नहनि “देवाः अग्निपुरोगाः सर्वे देवाः “वृजिनं प्राणिनां प्राणैवर्जितारं यातुधानं “परा “शृणन्तु । अथ “एनम् आयान्तं राक्षसं “तृष्टाः कटुका अस्माभिरुक्ताः “शपथाः “प्रत्यक् “यन्तु। किंच “वाचास्तेनम् अनृतवचनमेनं यातुधानं “शरवः शराः “मर्मन् मर्मणि “ऋच्छन्तु गच्छन्तु । "विश्वस्य व्याप्तस्याग्नेः “प्रसितिं जालम् । तथा च यास्कः --- ‘ प्रसितिः प्रसयनात्तन्तुर्वा जालं वा ' (निरु. ६. १२) इति । जालं “यातुधानः राक्षसः “एतु गच्छतु ॥ ॥ ७ ॥


यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धान॑ः ।

यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥१६

यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।

यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥१६

यः । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । यः । अश्व्येन । पशुना । यातुऽधानः ।

यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥१६

“यः “यातुधानः राक्षसः “पौरुषेयेण पुरुषसंबन्धिना “क्रविषा मांसेन “समङ्क्ते आत्मानं संगमयति । “यः च “अश्व्येन अश्वसमूहेन । तदीयेन मांसेनेत्यर्थः । आत्मानं संगमयति । यो वा यातुधानोऽन्येन “पशुना आत्मानं संगमयति । “यः वा यातुधानः “अघ्न्यायाः गोः “क्षीरं “भरति हरति । हे “अग्ने त्वं “तेषां सर्वेषामपि राक्षसानां “शीर्षाणि शिरांसि “हरसा त्वदीयेन तेजसा “वृश्च छिन्द्धि ॥


सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥१७

सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।

पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥१७

संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुऽधानः । नृऽचक्षः ।

पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥१७

हे “नृचक्षः नृणां द्रष्टः “अग्ने "उस्रियायाः अस्मदीयाया गोः। ‘उस्रिया अही ' इति गोनामसु पाठात् । “संवत्सरीणं संवत्सरेण भवं यत् “पयः अस्ति “यातुधानः राक्षसः “तस्य “माशीत् तत्पयः मा भक्षयतु । किंच “यतमः यो राक्षसः “पीयूषं पीयूषेण । विभक्तिव्यत्ययः । अस्मदीयाया गोः पयसा “तितृप्सात् आत्मानं तर्पयितुमिच्छति “तं प्रत्यञ्चं युद्धायात्मानं प्रतिगतं राक्षसं “मर्मन् मर्मणि प्राणवियोगस्थाने “अर्चिषा स्वकीयेन तेजसा “विध्य ताडय । मारयेत्यर्थः ॥


वि॒षं गवां॑ यातु॒धाना॑ः पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑ः ।

परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥१८

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ ।

परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥१८

विषम् । गवाम् । यातुऽधानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुःऽएवाः ।

परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥१८

हे अग्ने “यातुधानाः राक्षसाः “गवां पशूनां गृहे स्थितं “विषं “पिबन्तु । किंच “अदितये अदित्यर्थं “दुरेवाः दुस्तरा यातुधानाः “आ “वृश्च्यन्तां त्वदीयैरायुधैराच्छिद्यन्ताम् । किंच “सविता “देवः “एनान् राक्षसान् “परा “ददातु हिंस्रेभ्यः प्रयच्छतु । अपि च तेऽमी राक्षसाः “ओषधीनां स्वभूतं “भागं भजनीयमन्नं “परा “जयन्तां लभन्तामित्यर्थः ॥


स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।

अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥१९

स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।

अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥१९

सनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः ।

अनु । दह । सहऽमूरान् । क्रव्यऽअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥१९

हे “अग्ने त्वं “सनात् चिरादेवारभ्य “यातुधानान् राक्षसान् “मृणसि बाधसे । तथापि “त्वा त्वां “पृतनासु संग्रामेषु "रक्षांसि राक्षसाः “न “जिग्युः नाजयन् । किंच स त्वमधुना “अनु अनुक्रमेण “सहमूरान् मूलेन सहितान् मारकव्यापारेण युक्तान् “क्रव्यादः मांसभक्षकान् राक्षसान् "दह तेजसा भस्मीकुरु । किंच तव संबन्धिनः दैव्यायाः दैव्यात् "हेत्याः आयुधात् "ते यातुधानाः “मा 'मुक्षत मुक्ता मा भूवन् ॥


त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।

प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥२०

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् ।

प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥२०

त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् ।

प्रति । ते । ते । अजरासः । तपिष्ठाः । अघऽशंसम् । शोशुचतः । दहन्तु ॥२०

हे “अग्ने “त्वं “नः अस्मान् “अधरात् दक्षिणतः। उत्तरादिदिक्समभिव्याहारादधरशब्दोऽत्र दक्षिणदिक्पर इति विज्ञायते । “उदक्तात् उत्तरतश्च “रक्ष पाहि । “उत अपि च हे अग्ने “त्वं “पश्चात् पश्चिमतः “पुरस्तात् पूर्वतश्च नोऽस्मान् रक्ष । चतसृषु दिक्ष्ववस्थितेभ्यो राक्षसेभ्योऽस्मान् पाहीत्यर्थः । किंच “ते तव संबन्धिनः “ते “तपिष्ठाः अतिशयेन तप्यमानाः "अजरासः जरावर्जिताः “शोशुचतः ज्वलन्तः सन्तो रश्मयः “अघशंसं पापशंसकं राक्षसं “प्रति “दहन्तु भस्मीकुर्वन्तु ॥ ॥ ८ ॥


प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।

सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं न॑ः ॥२१

प॒श्चात् । पु॒रस्ता॑त् । अ॒ध॒रात् । उद॑क्तात् । क॒विः । काव्ये॑न । परि॑ । पा॒हि॒ । रा॒ज॒न् ।

सखे॑ । सखा॑यम् । अ॒जरः॑ । ज॒रि॒म्णे । अग्ने॑ । मर्ता॑न् । अम॑र्त्यः । त्वम् । नः॒ ॥२१

पश्चात् । पुरस्तात् । अधरात् । उदक्तात् । कविः । काव्येन । परि । पाहि । राजन् ।

सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः ॥२१

हे “राजन् दीप्ताग्ने “कविः क्रान्तदर्शनस्त्वं “काव्येन कविकर्मणा “पश्चात् पश्चिमतः “पुरस्तात् पूर्वतः “अधरात् दक्षिणतश्च “उदक्तात् उत्तरतश्च अस्मान् “परि “पाहि परितो रक्ष। किंच हे “सखे मित्रभूताग्ने “अजरः जरारहितस्त्वं मां “सखायं “जरिम्णे जरायै कुरु । त्वत्प्रसादादहं चिरं जीवामीत्यर्थः । एतदेव दर्शयति । हे “अग्ने “अमर्त्यः मरणधर्मरहितः “त्वं “मर्तान् मरणधर्मवतः “नः अस्मान् जरिम्णे जरायै कुर्विति शेषः ॥


परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।

धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥२२

परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ।

धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑ताम् ॥२२

परि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि ।

धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवताम् ॥२२

हे “सहस्य सहसे हित सहसो जात वा “अग्ने “पुरं पूरकं “विप्रं मेधाविनं “धृषद्वर्णं धर्षकरूपं “भङ्गुरावतां भङ्गुरकर्मयुक्तानां रक्षसां “दिवेदिवे प्रत्यहं “हन्तारं हिंसितारं “त्वा त्वां “वयं पायुनामधेया भारद्वाजा रक्षसां हननाय “परि “धीमहि ॥


वि॒षेण॑ भङ्गु॒राव॑त॒ः प्रति॑ ष्म र॒क्षसो॑ दह ।

अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभि॑ः ॥२३

वि॒षेण॑ । भ॒ङ्गु॒रऽव॑तः । प्रति॑ । स्म॒ । र॒क्षसः॑ । द॒ह॒ ।

अग्ने॑ । ति॒ग्मेन॑ । शो॒चिषा॑ । तपुः॑ऽअग्राभिः । ऋ॒ष्टिऽभिः॑ ॥२३

विषेण । भङ्गुरऽवतः । प्रति । स्म । रक्षसः । दह ।

अग्ने । तिग्मेन । शोचिषा । तपुःऽअग्राभिः । ऋष्टिऽभिः ॥२३

हे “अग्ने त्वं “भङ्गुरावतः भञ्जनकर्मयुक्तान् “रक्षसः राक्षसान् “विषेण व्याप्तेन “तिग्मेन तीक्ष्णेन “शोचिषा तेजसा “प्रति “दह भस्मीकुरु । तथा “तपुरग्राभिः तपनशीलाग्राभिः “ऋष्टिभिः । ऋष्टय आयुधविशेषाः । ताभिरपि प्रति दह ।।


प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।

सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥२४

प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒ऽधाना॑ । कि॒मी॒दिना॑ ।

सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद॑ब्धम् । वि॒प्र॒ । मन्म॑ऽभिः ॥२४

प्रति । अग्ने । मिथुना । दह । यातुऽधाना । किमीदिना ।

सम् । त्वा । शिशामि । जागृहि । अदब्धम् । विप्र । मन्मऽभिः ॥२४

हे “अग्ने त्वं “मिथुना मिथुनभूतानि “किमीदिना । किमिदानीमिति ये चरन्ति ते किमीदिनः । तान् । तथा च यास्कः - ‘ किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा ' ( निरु. ६. ११ ) इति । “यातुधाना यातुधानान्राक्षसान् “प्रति “दह। किंच हे “विप्र मेधाविन्नग्ने “अदब्धं केनाप्यहिंसितं “त्वा त्वां मन्मभिः स्तुतिभिरहं “सं “शिशामि स्तौमीत्यर्थः । अतस्त्वं “जागृहि निद्रां मा कुरु । बुध्यस्वेत्यर्थः ॥


प्रत्य॑ग्ने॒ हर॑सा॒ हर॑ः शृणी॒हि वि॒श्वत॒ः प्रति॑ ।

या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥२५

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ ।

या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥२५

प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति ।

यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥२५

हे “अग्ने त्वं “हरसा त्वदीयेन तेजसा । तथा च यास्कः -- हरी हरतेर्ज्योतिर्हर उच्यते । (निरु. ४. १९ ) इति । “यातुधानस्य राक्षसस्य “हरः हरणशीलं “बलं “प्रति “शृणीहि नाशयेत्यर्थः । तथा “रक्षसः राक्षसस्य “वीर्यं च "वि “रुज भञ्जय ॥ ॥ ९ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८७&oldid=202833" इत्यस्माद् पुनः प्राप्तिः