ऋग्वेदः सूक्तं १०.३५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.३४ ऋग्वेदः - मण्डल १०
सूक्तं १०.३५
लुशो धानाकः
सूक्तं १०.३६ →
दे. विश्वे देवाः। जगती, १३-१४ त्रिष्टुप्


अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु ।
मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥१॥
दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः ।
अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥२॥
द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा ।
उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥३॥
इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु ।
आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥४॥
प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु ।
भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥५॥
अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् ।
आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥६॥
श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि ।
रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥७॥
पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि ।
विश्वा इदुस्रा स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥८॥
अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे ।
आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥९॥
आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन् ।
इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥१०॥
त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः ।
बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥११॥
तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् ।
पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥१२॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः ।
विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥१३॥
यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः ।
यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥१४॥


सायणभाष्यम्

‘अबुध्रम् ' इति चतुर्दशर्चं षष्ठं सूक्तं धनाकपुत्रस्य लुशस्यार्षम् । इदमुत्तरं च वैश्वदेवम् । त्रयोदशीचतुर्दश्यौ त्रिष्टुभौ शिष्टा द्वादश जगत्यः । तथा चानुक्रान्तम् -- अबुध्रं लुशो धानाको वैश्वदेवं तु द्वित्रिष्टुबन्तं तु ' इति । गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोर्वपायागस्यानुवाक्या ‘ विश्वे अद्य' इत्येषा । सूत्रितं च --- विश्वे अद्य मरुतो विश्व ऊत्या नो देवानामुप वेतु शंसः' ( आश्व. श्रौ. ३. ७) इति ॥


अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु ।

म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥१

अबु॑ध्रम् । ऊं॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥१

अबुध्रम् । ऊं इति । त्ये । इन्द्रऽवन्तः । अग्नयः । ज्योतिः । भरन्तः । उषसः । विऽउष्टिषु ।

मही इति । द्यावापृथिवी इति । चेतताम् । अपः । अद्य । देवानाम् । अवः । आ । वृणीमहे ॥१

“इन्द्रवन्तः यष्टव्यत्वेनेन्द्रसंबन्धिनः “त्ये ते अमी आहवनीयादयः “अग्नयः “उषसो “व्युष्टिषु व्युच्छनेषु तमसां विवासनकालेषु “ज्योतिः तेजः “भरन्तः धारयन्तः अबुध्रं प्रबुद्धा आसन् । “मही महत्यौ “द्यावापृथिवी द्यावापृथिव्यौ “अपः कर्म । ‘अपोऽप्नः' इति कर्मनामसु पाठात् । “चेततां जानीताम् । “अद्य अस्मिन्नहनि “देवानाम् इन्द्रादीनाम् “अवः रक्षणं वयम् “आ “वृणीमहे ।।


दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः ।

अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोम॑ः सुवा॒नो अ॒द्या कृ॑णोतु नः ॥२

दि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः ।

अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥२

दिवःपृथिव्योः । अवः । आ । वृणीमहे । मातॄन् । सिन्धून् । पर्वतान् । शर्यणाऽवतः ।

अनागाःऽत्वम् । सूर्यम् । उषसम् । ईमहे । भद्रम् । सोमः । सुवानः । अद्य । कृणोतु । नः ॥२

“दिवःपृथिव्योः द्यावापृथिव्योः कार्यत्वेन संबन्धि "अवः रक्षणं वयम् "आ वृणीमहे । किंच “मातॄन् लोकस्य निर्मातॄन् "सिन्धून् “शर्यणावतः सरसः संबन्धिनः "पर्वतान् शिलोच्चयांश्च तथा "सूर्यमुषसं च "अनागास्त्वं कर्मवैगुण्यजनितपापराहित्यम् "ईमहे वयं याचामहे । किंच “अद्य अस्मिन्नहनि "नः अस्माकं "सुवानः अभिषूयमाणः "सोमः "भद्रं कल्याणं "कृणोतु करोतु ॥


द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ ।

उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥३

द्यावा॑ । नः॒ । अ॒द्य । पृ॒थि॒वी इति॑ । अना॑गसः । म॒ही इति॑ । त्रा॒ये॒ता॒म् । सु॒वि॒ताय॑ । मा॒तरा॑ ।

उ॒षाः । उ॒च्छन्ती॑ । अप॑ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥३

द्यावा । नः । अद्य । पृथिवी इति । अनागसः । मही इति । त्रायेताम् । सुविताय । मातरा ।

उषाः । उच्छन्ती । अप । बाधताम् । अघम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥३

“मही महत्यौ "मातरा मातरौ सर्वस्य मातृभूते "द्यावा “पृथिवी द्यावापृथिव्यौ “अद्य अस्मिन्नहनि “अनागसः अपराधरहितान् "नः अस्मान् "सुविताय सुखाय “त्रायेतां रक्षेताम् । किंच “उच्छन्ती तमांसि विवासयन्ती "उषाः अस्माकम् "अघं पापम् "अप “बाधताम् अपनयतु । अपि च "समिधानं सम्यग्दीप्यमानं "अग्निं "स्वस्ति सर्वप्रकाराविनाशम् "ईमहे वयं याचामहे ॥


इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु ।

आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥४

इ॒यम् । नः॒ । उ॒स्रा । प्र॒थ॒मा । सु॒ऽदे॒व्य॑म् । रे॒वत् । स॒निऽभ्यः॑ । रे॒वती॑ । वि । उ॒च्छ॒तु॒ ।

आ॒रे । म॒न्युम् । दुः॒ऽवि॒दत्र॑स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥४

इयम् । नः । उस्रा । प्रथमा । सुऽदेव्यम् । रेवत् । सनिऽभ्यः । रेवती । वि । उच्छतु ।

आरे । मन्युम् । दुःऽविदत्रस्य । धीमहि । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥४

“रेवती धनवती "प्रथमा मुख्या “इयम् “उस्रा पापानामुत्सारिणी उषाः "सुदेव्यं शोभनदेवार्हं “रेवत् धनवत् प्रधानयागकालत्वं "सनिभ्यः भजमानेभ्यः "नः अस्मभ्यं प्रयच्छन्ती “व्युच्छतु तमांसि विवासयतु । किंच “दुर्विदत्रस्य दुर्धनस्य पुरुषस्य “मन्युं क्रोधम् “आरे दूरे “धीमहि निधीमहि । सिद्धमन्यत् ॥


प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु ।

भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥५

प्र । याः । सिस्र॑ते । सूर्य॑स्य । र॒श्मिऽभिः॑ । ज्योतिः॑ । भर॑न्तीः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

भ॒द्राः । नः॒ । अ॒द्य । श्रव॑से । वि । उ॒च्छ॒त॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥५

प्र । याः । सिस्रते । सूर्यस्य । रश्मिऽभिः । ज्योतिः । भरन्तीः । उषसः । विऽउष्टिषु ।

भद्राः । नः । अद्य । श्रवसे । वि । उच्छत । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥५

“याः “उषसः "सूर्यस्य "रश्मिभिः किरणैः “प्र “सिस्रते संगच्छन्ते “व्युष्टिषु व्युच्छनेषु तमसा विवासनकालेषु "ज्योतिः आत्मीयं तेजः “भरन्तीः भरन्ति च ता यूयं "नः अस्माकम् "अद्य अस्मिन्नहनि “श्रवसे अन्नाय “भद्राः भजनीया भवत “व्युच्छत तमांसि विवासयत च । सिद्धमन्यत् ॥


अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् ।

आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥६

अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् ।

अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥६

अनमीवाः । उषसः । आ । चरन्तु । नः । उत् । अग्नयः । जिहताम् । ज्योतिषा । बृहत् ।

अयुक्षाताम् । अश्विना । तूतुजिम् । रथम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥६

“अनमीवाः रोगरहिताः “उषसः "नः अस्मान् “आ “चरन्तु आगच्छन्तु । "बृहत् बृहता महता “ज्योतिषा तेजसा युक्ताः "अग्नयः अपि “उत् "जिहताम् उद्गच्छन्तु । “अश्विना अश्विनावपि “तूतुजिं क्षिप्रगामिनं “रथम् "आयुक्षाताम् । अस्मान् प्रत्यागन्तुं रासभाभ्यां युङ्क्ताम् । “हरित आदित्यस्य रासभावश्विनोः ' ( नि. १. १५. ३-४ ) इति पाठात् । सिद्धमन्यत् ॥


श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ ।

रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥७

श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ ।

रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥७

श्रेष्ठम् । नः । अद्य । सवितः । वरेण्यम् । भागम् । आ । सुव । सः । हि । रत्नऽधाः । असि ।

रायः । जनित्रीन् । धिषणाम् । उप । ब्रुवे । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥७

हे "सवितः त्वम् "अद्य अस्मिन्नहनि "नः अस्मभ्यं "वरेण्यं वरणीयं “श्रेष्ठं प्रशस्यतमं "भागं भजनीयं धनम् “आ “सुव प्रेरय । देहीत्यर्थः । “हि यस्मात् "सः प्रार्थितस्त्वं "रत्नधाः श्रेष्ठानां धनानां संविभक्ता "असि भवसि । तथा च निगमान्तरं-- ‘ विभक्तारं हवामहे वसोश्चित्रस्य राधसः सवितारं नृचक्षसम् ' (ऋ. सं. १.२२.७) इति । "रायः धनस्य "जनित्रीं “धिषणां सर्वदेवस्तुतिरूपां वाचम् “उप “ब्रुवे अहमुपब्रवीमि । यद्वा । धिषणां देवीमुप ब्रुवे उपस्तौमीत्यर्थः । सिद्धमन्यत् ॥


पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि ।

विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑ः स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥८

पिप॑र्तु । मा॒ । तत् । ऋ॒तस्य॑ । प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्याः॑ । अम॑न्महि ।

विश्वाः॑ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥८

पिपर्तु । मा । तत् । ऋतस्य । प्रऽवाचनम् । देवानाम् । यत् । मनुष्याः । अमन्महि ।

विश्वाः । इत् । उस्राः । स्पट् । उत् । एति । सूर्यः । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥८

“यत् “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि “देवानां “प्रवाचनं प्रकर्षेण गुणानां कथनं स्तोत्रं “मनुष्याः वयम् "अमन्महि कर्तुं जानीमः “तत् प्रवाचनं “मा मां पिपर्तु पालयतु । किंच "सूर्यः “विश्वाः सर्वाः “उस्राः उषसः “स्पट् स्पृशन्नवगच्छन् वा “उदेति । सिद्धमन्यत् ।।


अ॒द्वे॒षो अ॒द्य ब॒र्हिष॒ः स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑न॒ः साध॑ ईमहे ।

आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥९

अ॒द्वे॒षः । अ॒द्य । ब॒र्हिषः॑ । स्तरी॑मणि । ग्राव्णा॑म् । योगे॑ । मन्म॑नः । साधे॑ । ई॒म॒हे॒ ।

आ॒दि॒त्याना॑म् । शर्म॑णि । स्थाः । भु॒र॒ण्य॒सि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥९

अद्वेषः । अद्य । बर्हिषः । स्तरीमणि । ग्राव्णाम् । योगे । मन्मनः । साधे । ईमहे ।

आदित्यानाम् । शर्मणि । स्थाः । भुरण्यसि । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥९

अद्य अस्मिन्नहनि “बर्हिषः “स्तरीमणि वेद्यां स्तरणे "मन्मनः मननीयस्याभीष्टस्य फलस्य “साधे साधके “ग्राव्णाम् अभिषवपाषाणानां "योगे सोनेन सह संयोगे च सति "अद्वेषः द्वेषवर्जितानादित्यान “ईमहे वयमभीष्टं याचामहे । हे स्तोतः त्वं तेषाम् “आदित्यानां देवानां “शर्मणि सुखे स्थाने वा "स्थाः तिछ । "भुरण्यसि कर्तव्यानि कर्माणि बिभर्षि गच्छसि वा । सिद्धमन्यत् ॥


आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् ।

इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥१०

आ । नः॒ । ब॒र्हिः । स॒ध॒ऽमादे॑ । बृ॒हत् । दि॒वि । दे॒वान् । ई॒ळे॒ । सा॒दय॑ । स॒प्त । होतॄ॑न् ।

इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥१०

आ । नः । बर्हिः । सधऽमादे । बृहत् । दिवि । देवान् । ईळे । सादय । सप्त । होतॄन् ।

इन्द्रम् । मित्रम् । वरुणम् । सातये । भगम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥१०

“नः अस्माकं "बृहत् बृहति महति "दिवि दीप्ते "सधमादे । सह माद्यन्ति देवा यत्र तस्मिन् । “बर्हिः बहिषि यज्ञे "सप्त सप्तसंख्याकान् "होतॄन् वषट्कर्तॄन् "इन्द्रं "मित्रं च “वरुणं च “भगं च “देवान् इतरानपि यष्टब्यान् देवान् हे अग्ने त्वम् “आ “सादय । अग्नेराभिमुख्यकरणम् ' इहाद्य दैव्यं जनं बर्हिरा सादया वसो ' ( ऋ. सं. १, ४५, ९) इत्येवमादिमन्त्रैरवगम्यते । तत्र त्वया आसादितांस्तानिन्द्रादीन् देवानहं "सातये धनलाभाय “ईळे स्तौमि । सिद्धमन्यत् ॥ ॥ ७ ॥


त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः ।

बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥११

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ ।

बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥११

ते । आदित्याः । आ । गत । सर्वतातये । वृधे । नः । यज्ञम् । अवत । सऽजोषसः ।

बृहस्पतिम् । पूषणम् । अश्विना । भगम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥११

हे "आदित्याः येऽस्माभिराहूताः “ते यूयं "सर्वतातये यज्ञार्थम् “आ “गत आगच्छत । आगत्य व हे "सजोषसः संगता यूयं “नः अस्माकं "वृधे वर्धनाय “यज्ञं प्रति "अवत गच्छत । वयं व “बृहस्पतिं "पूषणं च "अश्विना अश्विनौ च "भगं भगाख्यं देवं च "समिधानं सम्यग्दीप्तम् "अग्निं च "स्वस्ति सर्वप्रकाराविनाशम् "ईमहे याचामहे ॥


तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् ।

पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥१२

तत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒ऽप्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒ऽभर॑म् । नृ॒ऽपाय्य॑म् ।

पश्वे॑ । तो॒काय॑ । तन॑याय । जी॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥१२

तत् । नः । देवाः । यच्छत । सुऽप्रवाचनम् । छर्दिः । आदित्याः । सुऽभरम् । नृऽपाय्यम् ।

पश्वे । तोकाय । तनयाय । जीवसे । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥१२

हे "आदित्याः "देवाः यूयं "सुप्रवाचनम् अत्यन्तं प्रशस्तं "सुभरं सुसमृद्धं नृपाय्यं नॄणां रक्षकं "तत् अस्मदभिलषितं “छर्दिः गृहं "नः अस्माकं “पश्वे पशवे "तोकाय पुत्राय “तनयाय पौत्राय च "जीवसे जीवनार्थं "यच्छत दत्त । सिद्धमन्यत् ॥


विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒ः समि॑द्धाः ।

विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥१३

विश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः ।

विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥१३

विश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्ऽइद्धाः ।

विश्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति ॥१३

"अद्य अस्मिन्नहनि प्रधानयागदिवसे "विश्वे सर्वे "मरुतः "विश्वे सर्वे मरुद्गणसहचरिता रुद्रादयो देवाश्च “ऊती ऊत्यै रक्षणाय भवन्तु । अपि च "विश्वे सर्वे “अग्नयः आहवनीयादयः “समिद्धाः संदीप्ताः “भवन्तु । अपि च "विश्वे सर्वे इन्द्रादयः "देवाः “नः अस्माकम् "अवसा रक्षणेन “आ “गमन्तु आगच्छन्तु । किंच "अस्मे अस्मासु "विश्वं सर्वं “द्रविणं धनं "वाजः अन्नं च “अस्तु भवतु ॥


यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंह॑ः ।

यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥१४

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ ।

यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥१४

यम् । देवासः । अवथ । वाजऽसातौ । यम् । त्रायध्वे । यम् । पिपृथ । अति । अंहः ।

यः । वः । गोऽपीथे । न । भयस्य । वेद । ते । स्याम । देवऽवीतये । तुरासः ॥१४

हे “तुरासः अभीष्टप्रधाने क्षिप्राः "देवासः देवा यूयं “वाजसातौ संग्रामे “यं मनुष्यम् “अवथ रक्षथ “यं च “त्रायध्वे शत्रोः पालयथ “यं च "अंहः पापम् "अति अतिनीय "पिपृथ कामैः पूरयथ “यः चापि मनुष्यः "वः युष्माकं कार्यत्वेन संबन्धिनि “गोपीथे रक्षणे “भयस्य भयं "न “वेद न जानाति “ते सर्वे वयं “देववीतये यज्ञार्थं "स्याम भवेम ॥ ॥ ८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३५&oldid=202092" इत्यस्माद् पुनः प्राप्तिः