ऋग्वेदः सूक्तं १०.१६४
(ऋग्वेद: सूक्तं १०.१६४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation
Jump to search
← सूक्तं १०.१६३ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६४ प्रचेता आङ्गिरसः। |
सूक्तं १०.१६५ → |
दे. दुःस्वप्ननाशनम् । अनुष्टुप्, ३ त्रिष्टुप्, ५ पङ्क्तिः । |
अपेहि मनसस्पतेऽप क्राम परश्चर । परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥१॥ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥२॥ यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥३॥ यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥४॥ अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥५॥
मण्डल १० |
---|