ऋग्वेदः सूक्तं १०.९१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.९० ऋग्वेदः - मण्डल १०
सूक्तं १०.९१
अरुणो वैतहव्यः
सूक्तं १०.९२ →
अग्निः । जगती, १५ त्रिष्टुप्।


सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे ।
विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥१॥
स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव ।
जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥२॥
सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् ।
वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥३॥
प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥४॥
तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः ।
यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥५॥
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥६॥
वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥७॥
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥८॥
त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।
यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥९॥
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥१०॥
यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति ।
तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥११॥
इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत ।
वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥१२॥
इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः ।
भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥१३॥
यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥१४॥
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥१५॥


सायणभाष्यम्

अष्टमेऽनुवाके नव सूक्तानि । 'सं जागृवद्भिः' इति पञ्चदशर्चं प्रथमं सूक्तं वीतहव्यपुत्रस्यारुणनाम्न आर्षमग्निदेवत्यम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं - सं जागृवद्भिः पञ्चोनारुणो वैतहव्य आग्नेयम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम् । सूत्रितं च-- ‘ सं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्' ( आश्व. श्रौ. ४. १३ ) इति ॥


सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।

विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥१

सम् । जा॒गृ॒वत्ऽभिः॑ । जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे ।

विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥

सम् । जागृवत्ऽभिः । जरमाणः । इध्यते । दमे । दमूनाः । इषयन् । इळः । पदे ।

विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते ॥

हे अग्ने "जागृवद्भिः जागरणशीलैः स्तोतृभिः "जरमाणः स्तूयमानः "दमूनाः दममना दानमना दान्तमना वा “इळः इळायाः “पदे स्थाने उत्तरवेद्याम् "इषयन् अन्नमिच्छन् "विश्वस्य सर्वस्य "हविषः “होता “वरेण्यः वरणीयः "विभुः व्याप्तः “विभावा दीप्तिमान् "सुषखा शोभनसखा भवान् "सखीयते सखित्वमिच्छते यजमानाय "सम् “इध्यते सम्यग्दीप्यते ।।


स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।

जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशं ॥२

सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्रि॒ये॒ । त॒क्व॒वीःऽइ॑व ।

जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥

सः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव ।

जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥

“दर्शतश्रीः दर्शनीयविभूतिः "अतिथिः अतिथिभूतः "सः अग्निः "गृहेगृहे यजमानानां गृहेषु “वनेवने सर्वेषु वनेषु च शिश्रिये श्रयति । किंच "जन्यः जनहितः सोऽग्निः “जनंजनं सर्वं जनं “तक्वीरिव गच्छन्निव "नाति "मन्यते न विसृज्य गच्छतीत्यर्थः । तदेव दर्शयति । "विश्यः विड्भ्यो हितः सोऽग्निः “विशो मनुष्यान् “आ “क्षेति अभिगच्छति । किंच “विशंविशं सर्वा विशः प्रजा अधितिष्ठतीति शेषः ॥


सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।

वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥३

सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् ।

वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥

सुऽदक्षः । दक्षः । क्रतुना । असि । सुऽक्रतुः । अग्ने । कविः । काव्येन । असि । विश्वऽवित् ।

वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः ॥

हे "अग्ने त्वं "दक्षैः बलैः "सुदक्षः सुबलः "असि भवसि । किंच “क्रतुना कर्मणा "सुक्रतुः शोभनकर्मासि । किंच "काव्येन मेधाविकर्मणा "कविः मेधावी “असि । किंच “विश्ववित् सर्वज्ञोऽसि । किंच “वसूनां धनानां “वसुः वासयितासि । किंच हे अग्ने “त्वमेक "इत् एक एव “क्षयसि निवससि । किंच "द्यावा “च "पृथिवी “च द्यावाभूमी "यानि वसूनि “पुष्यतः संवर्धयतः तेषां दिव्यानां पार्थिवानां च धनानामीशिष इत्यर्थः ॥


प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तवं॑त॒मास॑दः ।

आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥४

प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ ।

आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइव । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥

प्रऽजानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृतऽवन्तम् । आ । असदः ।

आ । ते । चिकित्रे । उषसाम्ऽइव । एतयः । अरेपसः । सूर्यस्यऽइव । रश्मयः ॥

हे "अग्ने "तव “ऋत्वियम् ऋतौ भवं "घृतवन्तं घृतेन सहितं "योनिं निवासस्थानम् “इळायास्पदे उत्तरवेद्यां “प्रजानन् त्वम् "आसदः आसीदसि । किंच "ते तव "रश्मयः "उषसामिव यथोषसाम् "एतयः प्रज्ञाः प्रकाशलक्षणा आगतयो वा निर्गता रश्मयो दृश्यन्ते तद्वत् “आ "चिकित्रे प्रज्ञायन्ते । "सूर्यस्येव यथा सूर्यस्य "अरेपसः पापरहिता निर्गताः "रश्मयः दृश्यन्ते तद्वदा चिकित्रे प्रज्ञायन्ते ॥


तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।

यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥५

तव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ ।

यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥

तव । श्रियः । वर्ष्यस्यऽइव । विऽद्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः ।

यत् । ओषधीः । अभिऽसृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये ॥

हे अग्ने "तव "श्रियः रश्मिलक्षणा विभूतयः “चित्राः विचित्राः "चिकित्रे प्रज्ञायन्ते । तत्र दृष्टान्तः । “वर्ष्यस्येव यथा वर्षितुर्मेघस्य संबन्धिन्यः "विद्युतः “उषसां “न यथा चोषसां "केतवः प्रज्ञानास्तत्स्थाः प्रकाशाः प्रज्ञायन्ते तद्वदित्यर्थः। कदेत्यत्राह । "यत् यदा त्वम् "ओषधीः व्रीह्याद्याः “वनानि अरण्यानि “च "अभिसृष्टः सृष्टो दग्धुं विसृष्टः सन् "स्वयम् आत्मना “आस्ये मुखे "अन्नम् अदनीयं स्थावरलक्षणं "परि “चिनुषे परिक्षिपसीत्यर्थः ॥ ॥ २० ॥


तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयंत मा॒तरः॑ ।

तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽंतर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥६

तम् । ओष॑धीः । द॒धि॒रे॒ । गर्भ॑म् । ऋ॒त्विय॑म् । तम् । आपः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः॑ ।

तम् । इत् । स॒मा॒नम् । व॒निनः॑ । च॒ । वी॒रुधः॑ । अ॒न्तःऽव॑तीः । च॒ । सुव॑ते । च॒ । वि॒श्वहा॑ ॥

तम् । ओषधीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः ।

तम् । इत् । समानम् । वनिनः । च । वीरुधः । अन्तःऽवतीः । च । सुवते । च । विश्वहा ॥

“ऋत्वियम् ऋतौ प्राप्तं "गर्भं गर्भभूतं तं प्रकृतमग्निम् "ओषधीः ओषध्यः "दधिरे धारयन्ति । “तम् एव "अग्निं "मातरः धारकत्वेन मातृस्थानीया “आपः च "जनयन्त जनयन्ति । किंच “वनिनः वनस्पतयः “च “समानं गर्भभावेन प्रवेशात् स्वतुल्यं "तमित् तमेवाग्निं जनयन्ति । किंच तमेवाग्निम् "अन्तर्वतीः गर्भवत्यः “वीरुधः ओषधयः “च “विश्वहा सर्वदा "सुवते जनयन्ति ॥


वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।

आ ते॑ यतंते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥७

वात॑ऽउपधूतः । इ॒षि॒तः । वशा॑न् । अनु॑ । तृ॒षु । यत् । अन्ना॑ । वेवि॑षत् । वि॒ऽतिष्ठ॑से ।

आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः॑ । यथा॑ । पृथ॑क् । शर्धां॑सि । अ॒ग्ने॒ । अ॒जरा॑णि । धक्ष॑तः ॥

वातऽउपधूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । विऽतिष्ठसे ।

आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धांसि । अग्ने । अजराणि । धक्षतः ॥

हे "अग्ने "यत् यदा त्वं "वातोपधूतः वायुना कम्पितः “वशान् कान्तान् वनस्पतीन् “अनु प्रति “तृषु क्षिप्रम् "इषितः प्रेरितश्च सन् “अन्ना अदनीयानि वनस्पत्यादीनि स्थावराणि "वेविषत् व्याप्नुवन् "वितिष्ठसे इतस्ततो गच्छसि तदानीं “धक्षतः काष्ठानि दहतः "ते तव "अजराणि जरारहितानि “शर्धांसि तेजांसि "यथा “रथ्यः रथिनः तद्वत् "पृथक् “आ “यतन्ते गच्छन्ति ॥


मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिं ।

तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥८

मे॒धा॒ऽका॒रम् । वि॒दथ॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निम् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् ।

तम् । इत् । अर्भे॑ । ह॒विषि॑ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥

मेधाऽकारम् । विदथस्य । प्रऽसाधनम् । अग्निम् । होतारम् । परिऽभूतमम् । मतिम् ।

तम् । इत् । अर्भे । हविषि । आ । समानम् । इत् । तम् । इत् । महे । वृणते । न । अन्यम् । त्वत् ॥

“मेधाकारं प्रज्ञायाः कर्तारं "विदथस्य यज्ञस्य "प्रसाधनं प्रकर्षेण साधकं "होतारं देवानामाह्वातारं "परिभूतमम् अतिशयेन शत्रूणां परिभवितारं "मतिं मन्तारं यं त्वाम् "अग्निं वृणीमह इति शेषः । "तमित् तमेवाग्निम् "अर्भे अल्पे “हविषि चरुपुरोडाशादिके हविषि “समानमित् सहैव ऋत्विजः “आ “वृणते प्रार्थयन्ते । "महे महति सोमात्मके हविष्यपि “तमित् तमेवाग्निं "वृणते । “त्वत् त्वत्तः “अन्यम् अतिरिक्तं देवं “न वृणते ॥


त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।

यद्दे॑व॒यंतो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्मं॑तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥९

त्वाम् । इत् । अत्र॑ । वृ॒ण॒ते॒ । त्वा॒ऽयवः॑ । होता॑रम् । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।

यत् । दे॒व॒ऽयन्तः॑ । दध॑ति । प्रयां॑सि । ते॒ । ह॒विष्म॑न्तः । मन॑वः । वृ॒क्तऽब॑र्हिषः ॥

त्वाम् । इत् । अत्र । वृणते । त्वाऽयवः । होतारम् । अग्ने । विदथेषु । वेधसः ।

यत् । देवऽयन्तः । दधति । प्रयांसि । ते । हविष्मन्तः । मनवः । वृक्तऽबर्हिषः ॥

हे "अग्ने “होतारं देवानां ह्वातारमग्निं “त्वामित् त्वमेव "त्वायवः त्वत्कामाः “वेधसः कर्मणां कर्तार ऋत्विजः "अत्र अस्मिँल्लोके "विदथेषु यज्ञेषु "वृणते प्रार्थयन्ते । कदेत्यत्राह । "यत् यदा "देवयन्तः देवान्यष्टुं स्तोतुं वेच्छन्तः "वृक्तबर्हिषः छिन्नबर्हिषः "हविष्मन्तः संस्कृतहविष्काः “मनवः मनुष्या ऋत्विजः "ते तुभ्यं “प्रयांसि हवींषि "दधति धारयन्ति । प्रयच्छन्तीत्यर्थः ॥


तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥१०

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।

तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥

तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।

तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥

हे "अग्ने "तव “होत्रं होतृकर्म । त्वया विना तस्याभावात् । किंच “तव एव “ऋत्वियम् ऋतौ भवं प्राप्तानुष्ठानकालं “पोत्रं पोतृकर्म । त्वया विना तस्याप्यभावात् । किंच “तव एव "नेष्ट्रं नेष्टृकर्म । किंच “ऋतायतः ऋतं यज्ञं कर्तुमिच्छतो यजमानस्य “त्वम् एव "अग्नित् नान्यः कश्चित् । किंच "तव एव “प्रशास्त्रं प्रशास्तृकर्म । किंच हे अग्ने “त्वम् एव "अध्वरीयसि अध्वरं यज्ञं कर्तुमिच्छसि । तव हेतुत्वात्त्वत्कर्तृत्वम् । किंच त्वमेव "ब्रह्मा “असि । त्वया विना तस्याभावात् । किंच "नः अस्माकं “दमे गृहे "गृहपतिः यजमानोऽसि । त्वया विनास्माकं यजमानत्वाभावात् ॥ ॥ २१ ॥


यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।

तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥११

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मर्त्यः॑ । स॒म्ऽइधा॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति ।

तस्य॑ । होता॑ । भ॒व॒सि॒ । यासि॑ । दू॒त्य॑म् । उप॑ । ब्रू॒षे॒ । यज॑सि । अ॒ध्व॒रि॒ऽयसि॑ ॥

यः । तुभ्यम् । अग्ने । अमृताय । मर्त्यः । सम्ऽइधा । दाशत् । उत । वा । हविःऽकृति ।

तस्य । होता । भवसि । यासि । दूत्यम् । उप । ब्रूषे । यजसि । अध्वरिऽयसि ॥

हे "अग्ने "अमृताय मरणधर्मरहिताय "तुभ्यं "यः "मर्त्यः मनुष्यः "समिधा समिधम् । द्वितीयायाः ‘सुपां सुलुक्' इत्याकारः । "दाशत् ददाति प्रयच्छति "उत "वा अपि वा "हविष्कृति । हविषां कृत् करणं यस्मिन् स हविष्कृत् । तस्मिन्यज्ञे हवींषि ददातीति शेषः । "तस्य मनुष्यस्य "होता देवानामाह्वाता "भवसि । किंच त्वं "दूत्यं देवान् प्रति दूतकर्म कर्तुं "यासि गच्छसि । किंच त्वं ब्रह्मा भूत्वास्मिन् कर्मणि युष्मभ्यमिमानि हवींषि यजमानेन प्रहितानीति “उप “ब्रूषे उपक्रम्य ब्रवीषि । किं च त्वं "यजसि यजमानो भूत्वा देवेभ्यो हवींषि ददासि । किंच त्वं तथा पूर्वोक्तप्रकारेण "अध्वरीयसि अध्वर्युरिवाचरसि । अथवान्यं यज्ञ कर्तुमिच्छसि ।।


इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।

व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥१२

इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ ।

व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दसे । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥

इमाः । अस्मै । मतयः । वाचः । अस्मत् । आ । ऋचः । गिरः । सुऽस्तुतयः । सम् । अग्मत ।

वसुऽयवः । वसवे । जातऽवेदसे । वृद्धासु । चित् । वर्धनः । यासु । चाकनत् ॥

"जातवेदसे जातप्रज्ञाय “वसवे वासयित्रे "अस्मै अग्नये "मतयः पूजयित्र्यः “इमाः “वाचः “वसूयवः अस्मदर्थं धनकामाः सत्यः "अस्मत् अस्मत्तो निर्गत्य “आ “समग्मत आभिमुख्येन संगच्छन्ते । तमिममग्निं प्रीणयन्त्वित्यर्थः । काः पुनस्ताः । "सुष्टुतयः शोभनस्तुतिरूपाः “ऋचः ऋगात्मिकाः “गिरः वाचः । तथा “यासु "वृद्धासु "चित् स्वत एव वृद्धास्वपि “वर्धनः पुनरपि वर्धयिता सन्नग्निः "चाकनत् स्तोतॄन् कामयते । इमा मतय इत्यन्वयः ॥


इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।

भू॒या अंत॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥१३

इ॒माम् । प्र॒त्नाय॑ । सु॒ऽस्तु॒तिम् । नवी॑यसीम् । वो॒चेय॑म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु॑ । नः॒ ।

भू॒याः । अन्त॑रा । हृ॒दि । अ॒स्य॒ । नि॒ऽस्पृशे॑ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

इमाम् । प्रत्नाय । सुऽस्तुतिम् । नवीयसीम् । वोचेयम् । अस्मै । उशते । शृणोतु । नः ।

भूयाः । अन्तरा । हृदि । अस्य । निऽस्पृशे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥

“प्रत्नाय पुराणाय "उशते स्तोत्रं कामयमानाय “अस्मै अग्नये "नवीयसीं नवतरामन्यैः अकृतपूर्वां “सुष्टुतिं शोभनां स्तुतिं "वोचेयम् अहं वक्ष्यामि । सोऽग्निरस्मदीयां स्तुतिं “शृणोतु । किंचाहम् “अस्य अग्नेः "हृदि हृदये तत्रापि "अन्तरा मध्ये "निस्पृशे संस्पर्शनाय । गुणैरनुरञ्जनायेत्यर्थः । “भूयाः भूयासम् । व्यत्ययेन मध्यमः । अग्नेर्हृदिस्पृगहं स्यामित्यर्थः । अथवा मम सुष्टुतेरनुप्रवेष्टा भवेति योज्यम् । समानमन्यत् । तत्र दृष्टान्तः । "पत्ये पत्युर्हृदयस्य मध्ये “सुवासाः शोभनवस्त्रादिना मण्डिता "जाया "उशती कामयमाना यथेष्टतमा भवति तद्वदित्यर्थः ॥


यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।

की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥१४

यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासः॑ । उ॒क्षणः॑ । व॒शाः । मे॒षाः । अ॒व॒ऽसृ॒ष्टासः॑ । आऽहु॑ताः ।

की॒ला॒ल॒ऽपे । सोम॑ऽपृष्ठाय । वे॒धसे॑ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु॑म् । अ॒ग्नये॑ ॥

यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अवऽसृष्टासः । आऽहुताः ।

कीलालऽपे । सोमऽपृष्ठाय । वेधसे । हृदा । मतिम् । जनये । चारुम् । अग्नये ॥

“यस्मिन् अग्नौ “उक्षणः उक्षाणः । ‘ वा षपूर्वस्य निगमे ' इति दीर्घविकल्पः । सेचनसमर्थाः “अश्वासः अश्वाः “ऋषभासः वृषभाश्च “वशाः स्वभाववन्ध्याश्च “मेषाः च "अवसृष्टासः देवतार्थम् अवसृष्टाः परित्यक्ताः सन्तोऽश्वमेधे "आहुताः आभिमुख्येन हुता भवन्ति “कीलालपे सौत्रामण्यां सुरां पिबते । “कीलालम्' इत्युदकनामसु पाठात् । उदकं पिबते "सोमपृष्ठाय सोमयुक्तः पृष्ठ उपरिभागो यस्य तस्मै सोमपृष्ठाय “वेधसे विधात्रे तस्मै “अग्नये “हृदा हृदयेन “चारुं कल्याणीं "मतिं स्तुतिं “जनये जनयामि । उत्पादयामि ॥


अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।

वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हंतं॑ ॥१५

अहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ ।

वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥

अहावि । अग्ने । हविः । आस्ये । ते । स्रुचिऽइव । घृतम् । चम्विऽइव । सोमः ।

वाजऽसनिम् । रयिम् । अस्मे इति । सुऽवीरम् । प्रऽशस्तम् । धेहि । यशसम् । बृहन्तम् ॥

हे "अग्ने "ते तव "आस्ये मुखे "हविः पुरोडाशादिहविरस्माभिः "अहावि सततं प्रक्षिप्यते । तत्र दृष्टान्तौ । “घृतम् आज्यं “स्रुचीव यथा सुचि । "चम्वीव "सोमः । यथा चमसे सोमः तद्वदित्यर्थः । तथा त्वं “वाजसनिम् अन्नस्य दातारं "सुवीरं शोभनपुत्रोपेतं "प्रशस्तं सुवर्णादिकं “यशसं यशस्विनं कीर्तिमन्तं "बृहन्तम् अपरिमितं महान्तं वा “रयिं रमणीयं धनम् "अस्मे अस्मभ्यं “धेहि देहि ॥ ॥ २२ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९१&oldid=175580" इत्यस्माद् पुनः प्राप्तिः