ऋग्वेदः सूक्तं १०.९५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.९४ ऋग्वेदः - मण्डल १०
सूक्तं १०.९५
ऐलः पुरूरवाः, २, ४-५, ७, ११, १३, १५-१६, १८ उर्वशी
सूक्तं १०.९६ →
दे. उर्वशी, २, ४-५, ७, ११, १३, १५-१६, १८ पुरूरवा। त्रिष्टुप्
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१


हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु ।
न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥१॥
किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव ।
पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥२॥
इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः ।
अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥३॥
सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् ।
अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥४॥
त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि ।
पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥५॥
या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः ।
ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥६॥
समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः ।
महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥७॥
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे ।
अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥८॥
यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते ।
ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥९॥
विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि ।
जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥१०॥
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः ।
अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥११॥
कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् ।
को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥१२॥
प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै ।
प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥१३॥
सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ ।
अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥१४॥
पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् ।
न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता ॥१५॥
यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।
घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥१६॥
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः ।
उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥१७॥
इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः ।
प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥१८॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अष्टकेऽष्टमकेऽध्यायश्चतुर्थः संप्रदर्शितः ।।

धीमता सायणार्येण पञ्चमोऽथ प्रदश्यते ॥

तत्र ‘हये जाये' इत्यष्टादशर्चं पञ्चमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका- हये द्व्यूनोर्वशीमैळः पुरूरवाः पूर्वोषितात्कामात् पुनरासाद्यावरोद्धुमैच्छत्सा तमनिच्छन्ती प्रत्याचष्टे हय इषुर्यां कदा सुदेवोऽन्तरिक्षप्रां सचेति तिस्रश्चैळवाक्य शिष्टा उर्वश्याः' इति । ‘हये जाये' ‘इषुर्न श्रिये’ ‘या सुजूर्णिः ‘कदा सूनुः’ , ‘सुदेवो अद्य ' ‘अन्तरिक्षप्रां ' 'सचा यदासु जहतीषु' इत्याद्यास्तिस्रश्चेति नवर्चं ऐळस्य पुरूरवसो वाक्यानि । अतस्तासां स ऋषिः । शिष्टा नवोर्वश्या वाक्यानि । अतस्तासु सर्षिका । उभयोर्वाक्येषु योऽर्थः प्रतिपाद्यते सा देवता । गतो विनियोगः ॥

ऐळोर्वशीतिहासोऽत्र वैशद्याय प्रवर्ण्यते । मित्रश्च वरुणश्चोभौ दीक्षितौ प्रेक्ष्य चोर्वशीम् ॥१॥

रेतः सिषिचतुः सद्यस्तत्कुम्भे न्यदधुस्तदा। तां शप्तवन्तौ मनुजभोग्या भूम्यां भवेति तौ ॥२॥

अत्रान्तर इळो राजा मनोः पुत्रैश्च संयुतः । मृगयां संचरन् साश्वो देवीक्रीडं विवेश ह ॥३॥

यत्र देवं गिरिसुता सर्वैर्भावैरतोषयत् । अत्राविशन्पुमान्स्त्री स्यादित्युक्त्वा तत्र चाविशत् ॥४॥

स्त्री भूत्वा व्रीडितः सोऽगच्छरणं शिवमञ्जसा । इयं प्रसाद्यतां राजन्नित्युक्तः शंभुना नृपः ।।५।।

जगाम शरणं देवीमात्मनः पुंस्त्वसिद्धये । अकरोत्सा नृपं देवी षण्मासात्प्राप्तपुंस्त्वकम् ॥६॥

ततः कदाचित्स्त्रीकाले बुधः सौन्दर्यमोहितः । अप्सरोभ्यो विशिष्टां तामिळां संगतवान् मुदा ॥७॥

तदेळायां सोमपुत्राज्जातो राजा पुरूरवाः । तमुर्वशी तु चकमे प्रतिष्ठानपुरे स्थितम् ॥८॥

तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतम् । सुता उरणकौ त्वं च समीपं कुरु मे द्रुतम् ॥९॥

इति सा समयं कृत्वा रमयामास तं नृपम् । चतुरब्दे गते रात्रौ देवैरुरणकद्वयम् ॥१०॥

हृतं तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः । उत्थाय जित्वा तावागच्छेत्येवं जल्पकोऽन्यतः ।।११।।

विद्युता दर्शितोऽस्यै सो नग्न एव पुरूरवाः । अथ सा दृष्टसमया ह्युर्वशी तु दिवं ययौ।।१२।।

तत उन्मत्तवद्राजा दिदृशुस्तामितस्ततः । कुर्वन्नन्वेषणं तीरे सरसो मानसस्य ताम् ॥१३॥

विहरन्तीमप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोक्तुमुर्वशीं च पुरूरवाः ॥१४॥

साश्रं सापश्यदुक्ता च प्रत्याचष्टे व्रजेति तम् । इत्युर्वश्यैळसंवादमिममेपोऽप्यसूचयत् ॥१५॥इति॥

अत्र वाजसनेयकम्--- 'उर्वशी हाप्सराः पुरूरवसमैळं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन हतादकामाँ स्म मा निपद्यासै सो स्म त्वा नग्नं दर्शमेष वै न स्त्रीणामुपचार इति । सा हास्मिञ्ज्योगुवासापि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववत्सदुपजानीत यथेयं पुनरागच्छेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वी अन्यतरमुरणं प्रमेथुः । स होवाचावीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह तथैवोवाच । अथ हायमीक्षांचक्रे कथं नु तदवीरं कथमजनं स्याद्यत्राहँ स्यामिति स नग्न एवानुत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा विद्युतं जनयांचक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यतःप्लक्षेति बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे । तँ हेयं ज्ञात्वोवाच अथ वै स मनुष्यो यस्मिन्नमवात्समिति तो होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरासुः । ताँ हायं ज्ञात्वाभिपरोवाद हये जाये मनसा' (श. ब्रा. ११. ५. १) इत्यादि ।


ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।

न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु ।।

न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परऽतरे । चन। अहन् ।। १ ।।

पुरूरवसो वाक्यम् । जायां पश्यन् वदति । “हये हे “घोरे। अस्माकं दुःखजनकत्वात् । घोरकारिणि "जाये “मनसा अस्मदुपर्यनुरागवता मनसा युक्ता सती “तिष्ठ क्षणमात्रं संनिधावेव निवस । हये इत्यस्य निघाताभावश्छान्दसः । किमर्थं संस्थानमिति तत्राह। “वचांसि वाक्यानि मिश्राणि उक्तिप्रत्युक्तिरूपाणि "नु अद्य क्षिप्रं वा “कृणवावहै करवावहै।' कृवि हिंसाकरणयोः'। धिन्विकृण्व्योरञ्च' इत्युप्रत्ययः । किमर्थं वचसः करणमिति चेदुच्यते । “नौ आवयोः “मन्त्राः रहस्यार्थाः “एते विवक्षिताः “अनुदितासः अव्याह्रियमाणाः परस्परमसंभाष्यमाणा गुम्फिताः सन्तः “परतरे “चनाहन् । चनेति निपातसमुदायश्चार्थे । अनेकेषु दिवसेषु चरमेऽप्यहनि “मयः । सुखनामैतत् । सुखं “न “करन् कुर्वन्ति। अतः कृणवावहा इति ॥


किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।

पुरू॑रव॒ः पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥

किम् । एता। वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाऽइव ।।

पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःऽआपना । वातः:ऽइव । अहम् । अस्मि ॥ २ ॥

अनया तमुर्वशी प्रत्युवाच । “एता एतया “वाचा केवलया पुनःसंभोगरहितया “किं “कृणव किं करवाव। “अहं त्विदानीं त्वत्सकाशात् “प्राक्रमिषम् अतिक्रान्तवत्यस्मि । अतिक्रमे दृष्टान्तः । “उषसामग्रियेव । बह्वीनामुषसां मध्येऽग्र्याग्रे भवा पूर्वोषाः प्राक्रमीद्यथा तथाहमपीति । यस्मादेवं तस्माद्धे “पुरूरवः त्वं “पुनः अस्मत्सकाशात् “अस्तं गृहं “परेहि परागच्छ । मा मय्यभिलाषं कार्षीः । स्वस्या दुर्ग्रहत्वमाह। “अहं "वातइव वायुरिव “दुरापना दुष्प्रापा दुरापा वा “अस्मि । दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति हैवैनं तदुवाच' (श. ब्रा. ११. ५. १. ७) इति वाजसनेयकम् ॥


इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।

अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥

इषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः ।।

अवीरे । क्रतौ । वि। दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥ ३ ॥

अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रति ब्रूते । “इषुधेः । इषवो धीयन्तेऽत्रेतीषुधिर्निषङ्गः । ततः सकाशात् “इषुः “असना असनायै प्रक्षेप्तुं न भवति “श्रिये विजयार्थम् । त्वद्विरहाद्युद्धस्य बुद्ध्वावप्यनिधानात् । तथा “रंहिः वेगवानहं शत्रुसकाशात् “गोषाः तेषां शत्रूणां गवां संभक्ता "न अभवम् । तथा “शतसाः शतानामपरिमितानां शत्रुधनानां संभक्ता नाभवम् । किंच “अवीरे वीरवर्जिते “क्रतौ राजकर्मणि सति “न “वि “दविद्युतत् न विद्योतते मत्सामर्थ्यम् । किंच “धुनयः कम्पयितारोऽस्मदीया भटाः "उरा उरौ। ‘सुपां सुलुक् ' इति सप्तम्या डादेशः । विस्तीर्णे संग्रामे "मायुम् । मीयते प्रक्षिप्यत इति मायुः शब्दः । 'कृवापाजि° - इत्यादिनोण् । सिंहनादं “न “चितयन्त न बुध्यन्ते । ‘चिती संज्ञाने'। अस्माण्णिचि संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । छान्दसो लङ् ॥


सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।

अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥

सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिऽगृहात् ।

अस्तम् । ननक्षे । यस्मिन् । चाकन् । दिवा। नक्तम् । श्नथिता। वैतसेन ॥ ४ ॥

इदमुत्तरं चोर्वशीवाक्यम्। आद्येन पुरात्मना कृतमुषसे निवेदयति । हे "उषः "सा इयमुर्वशी "वसु वासकं "वयः अन्नं "श्वशुराय भर्तुः पुरूरवसः पित्रे “दधती प्रयच्छन्ती तत्र गृहे स्थिता "यदि पतिं "वष्टि कामयते तदा "अन्तिगृहात् । स्वभर्तृभोगगृहान्तिके यत् श्वशुरस्य भोजनगृहं तदन्तिगृहम्। तस्माद्गृहात्सोर्वशी "अस्तं पतिगृहं "ननक्षे व्याप्नोति । "यस्मिन् गृहे “चाकन् कामयत उर्वशी । सा चोर्वशी “दिवा “नक्तम् अहनि रात्री च "वैतसेन ।' शेपो वैतस इति पुंस्प्रजननस्य' ( निरु. ३. ३१) इति निरुक्तम् । पुंस्प्रजननेन “श्नथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोक्षेण निर्दिदेश ॥


त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।

पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥

त्रिः । स्म । मा । अह्नः । श्नथयः । वैतसेन । उत । स्म । मे। अव्यत्यै । पृणासि ।

पुरूरवः । अनु । ते। केतम् । आयम् । राजा । मे। वीर । तन्वः । तत् । आसीः ॥ ५ ॥

अनेन पुरूरवसमेव संबोध्योक्तवती । हे पुरूरवः त्वं "मा माम् "अह्नः अहनि “वैतसेन दण्डेन पुंव्यञ्जनेन "त्रिः त्रिवारम् । द्वित्रिचतुर्भ्यः सुच् ' ( पा. सू. ५.४.१८ )। “श्नथयः "स्म । अश्नथयः अताडयः । ‘कृत्वोऽर्थप्रयोगे (पा. सू. २. ३. ६४) इति कालवाचिनोऽहःशब्दादधिकरणे षष्ठी। “उत अपि च । “स्म इति पूरणः । "अव्यत्यै। सपत्नीभिः सह पर्यायेण पतिमागच्छति सा व्यती। न तादृश्यव्यती। तस्यै "मे मह्यं "पृणासि पूरयसि । एवं बुद्ध्या हे "पुरूरवः “ते तव “केतं गृहम् “अनु "आयम् अन्वगमं पूर्वम् । हे “वीर "राजा त्वं च "मे मम “तन्वः शरीरस्य “तत् तदा “आसीः अभवः । सुखयितेति शेषः । परमप्येवं मन्तव्यं किमिति कातरो भवसीत्युवाच ॥ ॥१॥


या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।

ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥

या । सुऽजूर्णिः । श्रेणिः । सुम्नेऽआपिः । हृदेऽचक्षुः । न । ग्रन्थिनी । चरण्युः ।

ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त ॥ ६ ॥

पुरूरवसो वाक्यम् । "या "सुजूर्णिः सुजवा एतन्नामिकास्ति तथा या “श्रेणिः या "सुम्नआपिः या “हृदेचक्षुः । नकारः समुच्चये। ताभिश्चतसृभिरालिभूताभिर्मानिनीभिः सहिता “ग्रन्थिनी ग्रन्थनवती संदर्भवती "चरण्युः चरणशीलोर्वश्याजगाम। यद्वा । ग्रन्थिनीत्येतत्सखिभूताप्सरोनामधेयम् । या सुजूर्णिः सुजवोर्वशी सा ताभिः सह जगाम । “ताः अप्सरसः "अञ्जयः आभरणोपेताः "अरुणयः अरुणवर्णाः "न “सस्रुः पूर्ववन्न गच्छन्ति । "श्रियै श्रथणाय “धेनवः नवप्रसूताः "गावो "न गाव इव । आश्रयार्थं यथा गावः "अनवन्त शब्दायन्ते तथा न शब्दयन्तीति व्यतिरेके दृष्टान्तः ।।


सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒ः॑ स्वगू॑र्ताः ।

म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥

सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत। ईम् । अवर्धन् । नद्यः । स्वऽगूर्ताः ।

महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन्। दस्युऽहत्याय । देवाः ।। ७॥

अनयैताभिः सह संसर्गस्त्वयानुभूत इत्युर्वशी वदति । "अस्मिन् पुरूरवसि “जायमाने सति “ग्नाः अप्सरसो देववेश्या अपि "सम् "आसत संगता अभवन् । अथवा जायमाने यज्ञार्थं प्रवर्धमाने सति ग्ना देवपत्न्योऽपि समासत समभवन् । "उत अपि च "ईम् एनं पुरूरवसं “स्वगूर्ताः स्वयंगामिन्यः "नद्यः तासामाश्रयभूता अवर्धयन्। किंच हे "पुरूरवः "यत् यस्मात् "त्वा त्वां "महे महते "रणाय रमणीयाय संग्रामाय “दस्युहत्याय दस्युहननाय "देवाः “त्वाम् अवर्धयन् ॥


सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।

अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥

सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निऽसेवे।।

अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन्। रथऽस्पृशः । न । अश्वाः ॥८॥

इदमादित्रीण्यैळवाक्यानि । तत्रादितो द्वाभ्यामुर्वशीमन्याश्च सह स्तौति । "यत् यदा "सचा सहायभूतः पुरूरवाः "अत्कं स्वकीयं रूपम् । अत्क इति रूपनाम। "जहतीषु परित्यजन्तीषु “अमानुषीषु देवताभूतास्वप्सरःसु मानुषः सन् "निषेवे अभिमुखं गच्छति तदानीं "ताः अप्सरसः “मत् मत्तः "अप अपसृत्य "अत्रसन्। त्रसतिर्गतिकर्मा । गच्छन्ति । पलायने दृष्टान्तः । "तरसन्ती “भुज्युः “न। तरसन्नाम मृगः । तस्य स्त्री भुज्युर्भोगसाधनभूता स्त्री मृगी । सा यथा व्याधाद्भीता पलायत्ते । किंच "रथस्पृशो "नाश्वाः रथे नियुक्ता अश्वा इव। यथा ते पलायन्ते तद्वत्पलायन्त इति । उर्वश्यानेकाभिरस्माभिः सह भोगमनुभुक्तवानसीयुक्तः प्रत्याचष्टे ॥


यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभि॒ः क्रतु॑भि॒र्न पृ॒ङ्क्ते ।

ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥

यत् । आसु । मर्तः । अमृतासु । निऽस्पृक् । सम् । क्षोणीभिः । क्रतुऽभिः । न । पृङ्क्ते।

ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥९॥

"यत् यदा "आसु "अमृतासु अप्सरःसु "मर्तः मनुष्यः पुरूरवाः “निस्पृक् निःशेषेण स्पृशन् “क्षोणीभिः वाग्भिः "क्रतुभिर्न कर्मभिश्च "सं "पृङ्क्ते संपर्कं करोति । नकारः समुच्चयार्थः। "ताः अप्सरसः “आतयः आतिभूतास्तदानीं "स्वाः “तन्वः आत्मीयानि रूपाणि “न “शुम्भत न प्रकाशयन्ति । "अश्वासो “न अश्वा इव "क्रीळयः संक्रीडमानाः "दन्दशानाः दन्दशूका जिह्वाभिरात्मीयाः सृक्का भक्षयन्तः । ते यथा चापल्येन धावन्तः स्वरूपं न प्रयच्छन्ति रथिकाय तद्वदिति दुःखाद्ब्रूते ॥


वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।

जनि॑ष्टो अ॒पो नर्य॒ः सुजा॑त॒ः प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥

विऽद्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे। अप्या । काम्यानि ।

जनिष्टो इति । अपः । नर्यः । सुऽजातः । प्र । उर्वशी। तिरत । दीर्घम् । आयुः ॥१०॥

अनयोर्वशीं स्तौति । "या उर्वशी “विद्युन्न विद्युदिव "पतन्ती गच्छन्ती "दविद्योत् द्योतते । किं कुर्वती। “अप्या। अप इत्यन्तरिक्षनाम । तत्संबन्धीनि व्याप्तानि वा “काम्यानि अस्मदभिमतान्युदकानि वा "मे मह्यं "भरन्ती संपादयन्ती । यदा आगतायास्तस्याः सकाशात् "अपः व्याप्तः कर्मसु कर्मवान् वा "नर्यः नरेभ्यो हितः "सुजातः सुजननः पुत्रः "जनिष्टो अजनिष्ट उत्पद्यते तदानीं मम "उर्वशी "दीर्घमायुः “प्र “तिरत प्रवर्धयति । ‘प्रजामनु प्र जायसे तदु ते मर्त्यामृतम्' (तै. ब्रा. १. ५. ५. ६) इति हि मन्त्रः ॥ ॥ २ ॥


ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।

अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णो॒ः किम॒भुग्व॑दासि ॥

जज्ञिषे । इत्था । गोऽपीथ्याय । हि। दधाथ । तत् । पुरूरवः । मे। ओजः ।

अशासम् । त्वा । विदुषी । सस्मिन् । अहन् । न। मे। आ । अशृणोः । किम् । अभुक् । वदासि ॥ ११ ॥

“इत्था इत्थं "गोपीथ्याय । गौः पृथिवी। पीथं पालनम् । स्वार्थिकस्तद्धितः । भूमे रक्षणीय “जज्ञिषे “हि जातोऽसि खलु पुत्ररूपेण । 'आत्मा वै पुत्रनामा ' इति श्रुतेः। पुनस्तदेवाह । हे "पुरूरवः “मे ममोदरे मयि "ओजः अपत्योत्पादनसामर्थ्यं "दधाथ मयि निहितवानसि । "तत् तथास्तु । अथापि स्थातव्यमिति चेत् तत्राह । अहं "विदुषी भावि कार्यं जानती “सस्मिन्नहन् सर्वस्मिन्नहनि त्वया कर्तव्यं "त्वा त्वाम् "अशासं शिक्षितवत्यस्मि । त्वं "मे मम वचनं “न “आशृणोः न शृणोषि। “किं त्वम् "अभुक् अभोक्तापालयिता प्रतिज्ञातार्थमपालयन् “वदासि हये जाय इत्यादिकरूपं प्रलापम् । वदेर्लेट्याडागमः। दिवसे त्रिवारं यभस्व एडकद्वयमस्माकं पुत्रत्वेन परिकल्पय अपत्योत्पादनपर्यन्तं वसामि नग्नं त्वां यदाद्राक्षं तदा गच्छामीत्येवंरूपो मिथःसमयः ‘उर्वशी हाप्सराः पुरूरवसमैळं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन' ( श. ब्रा. ११. ५.१ ) इत्यादि वाजसनेयकमुदाहृतम् ॥


क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।

को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥

कदा । सूनुः । पितरम्। जातः । इच्छात् । चक्रन्। न । अश्रु । वर्तयत्। विऽजानन् ।

कः । दंपती इति दम्ऽपती । सऽमनसा । वि । यूयोत् ।। अध । यत् । अग्निः । श्वशुरेषु । दीदयत् ॥ १२ ॥

इदं पुरूरवसो वाक्यम् । “कदा कस्मिन् काले “सूनुः तवोदरजातः सन् “पितरं माम् “इच्छात् इच्छेत् । इषु इच्छायाम्'। लेटि शपि इषुगमियमां छः' इति छादेशः । 'लेटोऽडाटौ ' इत्यडागमः। कदा वा “विजानन् पितरं मामधिगच्छन् “चक्रन् क्रन्दमानः “नाश्रु वर्तयत्। नेति चार्थे । किंच “कः किंविधः सन् सूनुः “समनसा समनसौ समनस्कौ “दंपती जायापती त्वां मां च “वि “यूयोत् विश्लेषयेत् । ‘यु मिश्रणामिश्रणयोः'। यौतेश्छान्दसः शपः श्लुः । तुजादित्वाभ्यासस्य दीर्घः । “अध अधुना “यत् यदा “अग्निः तव हृदयस्थितस्तेजोरूपो गर्भः “श्वशुरेषु “दीदयत् दीप्यते । दीदयतिर्दीप्तिकर्मेति नैरुक्तो धातुः ॥


प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।

प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥

प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आऽध्ये । शिवायै ।

प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि। मूर । मा । आपः ॥ १३ ॥

इदमुर्वशीवाक्यम् । हे पुरूरवः त्वां “प्रति “ब्रवाणि प्रतिवच्मि । त्वदपत्यम् “अश्रु वाष्पं “वर्तयते वर्तयिष्यति । “आध्ये आध्याते वस्तुनि “शिवायै शिवे कल्याणे समुपस्थिते सति “चक्रन् रुदन्नश्रूणि विमुञ्चन् “न “क्रन्दत् । नकारश्चार्थे । रोत्स्यति चेत्यर्थः । “तत् त्वदपत्यं “ते तुभ्यं “हिनव प्रहिणोमि “यत् अपत्यं “ते तव संबन्धि “अस्मे अस्मासु निहितम् । त्वं “परेह्यस्तम्। अस्तमिति गृहनाम। स्वगृहं प्रतिगच्छ । हे “मूर मूढ “मा मां “नहि “आपः न प्राप्नोषि। हिनवेत्यत्र हिनोतेः ‘छन्दसि लुङ्लङ्लिटः' इति भविष्यदर्थे लङि मिपोऽमादेशः । गुणः । अन्त्यलोपश्छान्दसः ।। बहुलवचनादडभावः। आपः । ‘आप्लृ व्याप्तौ' । लिटि तिङां तिङो भवन्ति' इति थलो णल् ॥


सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ ।

अधा॒ शयी॑त॒ निरृ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥

सुऽदेवः । अद्य । प्रऽपतेत् । अनावृत् । पराऽवतम् । परमाम् । गन्तवै । ऊँ इति ।

अध । शयीत । निःऽऋतेः । उपऽस्थे । अध । एनम् । वृकाः । रभसासः । अद्युः ॥१४॥

अथ परिदूनः पुरूरवा उवाच । “सुदेवः त्वया सह सुक्रीडः पतिः “अद्य “प्रपतेत् । अत्रैव प्रपततु । अथवा “अनावृत् अनावृत्तः सन् “परमां “परावतं दूरादपि दूरदेशं “गन्तवै गन्तुं महाप्रस्थानगमनं कुर्यात् । “अध अथवा यत्रकुत्रापि गन्तुमसमर्थः निर्ऋतेः पृथिव्याः “उपस्थे “शयीत शयनं कुर्यात् । यद्वा । निर्ऋतिः पापदेवता । तस्या उपस्थे उत्संगे संनिधौ म्रियतामित्यर्थः। “अध अथवा “एनं “वृकाः आरण्याः श्वानः रभसासः वेगवन्तः “अद्युः भक्षयन्तु । अत्र वाजसनेयकं - सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच' (श. ब्रा. ११. ५. १.८) इति ॥


पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।

न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥

पुरूरवः । मा। मृथाः । मा । प्र । पप्तः । मा। त्वा । वृकासः । अशिवासः । ॐ इति । क्षन्।

न । वै । स्त्रैणानि । सख्यानि । सन्ति । सालावृकाणाम् । हृदयानि । एता ॥ १५ ॥

तमितरा प्रत्युवाच । हे “पुरूरवः त्वं मा "मृथाः मृतिं मा प्राप्नुहि । म्रियतेर्लुङि थासि ‘ह्रस्वादङ्गात् इति सिचो लोपः। तथा “मा “प्र “पप्तः अत्रैव पतनं मा कार्षीः। पतेर्लुङि लृदित्त्वात् ‘पुषादि° ' इत्यादिना च्लेरङ्। ‘पतः पुम्' इति पुम्। तथा “त्वा त्वाम् “अशिवासः अशुभाः “वृकासः वृकाः “मा “उ “क्षन्। उ इत्येवकारार्थे। अक्षन् । माभ्यवहारयन्तु । किमित्येवमस्मदुपर्याग्रहं करोषि । मा कार्षीरित्यर्थः । अदेर्लुङि ‘लुङ्सनोर्घस्लृ' (पा. सू. २. ४. ३७) इति घस्लादेशः। ‘मन्त्रे घस' इति च्लेर्लुक्। 'गमहन इत्यादिनपधालोपः । ‘शासिवसि°' इत्यादिना षत्वम् ।' खरि च' इति चर्त्वम् । बाहुलकादडभावः। अथ स्वस्नेहस्यासारतमाह। “स्त्रैणानि स्त्रीणां कृतानि “सख्यानि “न “वै “सन्ति । न सन्ति खलु। अभावे कारणमाह। "एता एतानि सख्यानि “सालावृकाणां “हृदयानि तेषां हृदयानि यथा वत्सादीनां विश्वासापन्नानां घातुकानि तद्वत् । अत्र वाजसनेयकं-- मैतदादृथा न वै स्त्रैणँ सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच' ( श. ब्रा. ११. ५. १. ९) इति ॥ ॥ ३ ॥


यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।

घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥

यत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः ।।

घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥१६॥

“यत् यदा “विरूपा मनुष्यसंपर्काद्विगतसहजभूतदेवरूपा पत्यानुकूल्येन नानारूपा वा “मर्त्येषु मनुष्येषु “अचरं तदानीं “रात्रीः प्ररमयित्रीः “चतस्रः “शरदः “अवसं न्यवसम् । अत्यन्तसंयोगे द्वितीया । तदानीं “घृतस्य “स्तोकं “सकृदह्न “आश्नाम् । “तादेव तेनैव स्तोकेनाहम् “इदं संप्रति “तातृपाणा तृप्ता सती “चरामि ॥


अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।

उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥

अन्तरिक्षप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः ।।

उप । त्वा । रातिः । सुकृतस्य । तिष्ठात् । नि। वर्तस्व । हृदयम् । तप्यते । मे ॥ १७ ॥

“अन्तरिक्षप्रां स्वतेजसान्तरिक्षस्य पूरयित्रीं तथा “रजसः रञ्जकस्योदकस्य “विमानीं निर्मात्रीम् “उर्वशीं “वसिष्ठः समानानां मध्येऽतिशयेन वासयिताहम् “उप “शिक्षामि वशं नयामि। “सुकृतस्य शोभनकर्मणः “रातिः दाता पुरूरवाः “त्वा त्वाम् “उप “तिष्ठात् उपतिष्ठतु । "मे “हृदयं “तप्यते। अतो “नि "वर्तस्व । एवं राजोवाच ॥


इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।

प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः ।।

प्रऽजा । ते। देवान् । हविषा । यजाति । स्वःऽगे । ऊँ इति । त्वम्। अपि। मादयासे ॥१८॥

हे “ऐळ पुरूरवः “त्वा त्वाम् “इमे “देवाः “इति “आहुः । “मृत्युबन्धुः मृत्योः बन्धकः मृत्योर्बन्धुभूतो वा मृत्युवशमप्राप्नुवंस्त्वं “यथें यथा “एतद्भवसि भविष्यसि “प्रजा प्रकर्षेण जायमानस्त्वं “ते तव संबन्धिनो यष्टव्यान् “देवान् “हविषा “यजासि यजसि । “स्वर्ग “उ स्वर्गं एव “त्वमपि “मादयासे मादयसेऽस्माभिः सह । एवमाहुरित्यर्थः । यस्मादेवं करोषि तस्मादभिलाषं हित्वा सुखी भवेति सेयं पुरूरवसं प्रत्युवाच ॥ ॥ ४ ॥



[सम्पाद्यताम्]

वैज्ञानिकदृष्ट्या उर्वशी-पुरूरवा कथानकस्य सारं अनिश्चिततायाः सिद्धान्ते (uncertainty principle ) निहितं अस्ति।

उर्वशी उपरि टिप्पणी

१०.९५.१४

आख्यानं तु हये जाये विलापः स्यान्नदस्य मा । अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।।बृहद्देवता १.५३ ।।

रुवन्व्योम्न्युदयं याति कृन्तत्राद्विसृजन्नपः । पुरूरवसमाहैनं स्ववाक्येनोरुवासिनी । ।बृहद्देवता २.५९ ।।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९५&oldid=158629" इत्यस्माद् पुनः प्राप्तिः