ऋग्वेदः सूक्तं १०.१२
← सूक्तं १०.११ | ऋग्वेदः - मण्डल १० सूक्तं १०.१२ आङ्गिर्हविर्धानः |
सूक्तं १०.१३ → |
दे. अग्निः। त्रिष्टुप् |
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥१॥
देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥२॥
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३॥
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥४॥
किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥५॥
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥६॥
यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥७॥
यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत् ॥८॥
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥९॥
सायणभाष्यम्
‘ द्यावा' इति नवर्चं द्वादशं सूक्तमाङ्गेर्हविर्धानस्यार्षं त्रैष्टुभमाग्नेयम् ।“ द्यावा' इत्यनुक्रान्तम् । गतो विनियोगः ॥
द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।
दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन् सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥१
द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ ।
दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥१
द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा ।
देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥१
“सत्यवाचा सत्यवाचौ सत्यवादिन्यौ “प्रथमे प्रधानभूते “द्यावा “क्षामा द्युक्षामे द्यावापृथिव्यौ “ऋतेन सत्यभूतेन देवयजनेन सह “अभिश्रावे। आभिमुख्येन श्रूयत इत्यभिश्राव आह्वानम् । तस्मिन् अस्मद्यज्ञनिमित्तेऽग्नेः संबन्धिन्याह्वाने “भवतः । लोडर्थे लट । भवताम् । यत् यदा “देवः द्योतमानोऽग्निः “यजथाय यज्ञाय “मर्तान् मनुष्यान् कृण्वन् प्रेरयन् “प्रत्यङ् आह्वानार्थं देवानां प्रत्यञ्चिता “स्वम् “असुम् आत्मीयं ज्वालालक्षणं प्राणं "यन् प्राप्नुवन् “होता देवानामाह्वाता “सीदत् वेद्यां निषीदति । तदास्मद्यागकाले द्यावापृथिवी प्रमुखोऽग्निः आह्वयत्वित्यर्थः ॥
दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।
धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको मं॒द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥२
दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।
धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥२
देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् ।
धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥२
“देवः द्योतमानोऽग्निस्त्वं “देवान् इन्द्रादीन् “परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृह्णन् “ऋतेन यज्ञेन सह “नः अस्माकं “हव्यं हविः “वह प्रापय । कीदृशस्त्वम् । “प्रथमः देवानां मुख्यः “चिकित्वान् सर्वं जानन् “धूमकेतुः धूमस्य कर्ता वा धूमध्वजो वा धूमप्रज्ञानो वा “समिधा समिन्धनेन संदीपनेन “भाऋजीकः ऋजुदीप्तिः । ऊर्ध्वज्वलन इत्यर्थः । “मन्द्रः स्तुत्यः “होता आह्वाता “नित्यः ध्रुवः “वाचा "यजीयान् अतिशयेन यष्टा च ॥
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी ।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥३
स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥३
स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।
विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥३
“देवस्य अग्नेः “स्वावृक् स्वार्जनम् “अमृतम् उदकं स्वतेजसः सकाशात् “यदि यदोपद्यते तदा “अतः अस्मात् “गोः उदकात् “जातासः उत्पन्ना ओषधयः “उर्वी द्यावापृथिव्यौ धारयन्ति । “विश्वे “देवाः सर्वे स्तोतारः “ते तव संबन्धि “तत् “यजुः उदकस्य तद्दानम् “अनु “गुः अनुगायन्ति । “एनी श्वेता दीप्तिः "दिव्यं दिवि भवं “घृतं क्षरत् “यत् “वाः वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।
अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥४
अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।
अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥४
अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।
अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥४
हे अग्ने त्वम् “अपः मदीयं यज्ञरूपं कर्म “वर्धाय। प्रोत्सर्पिते सति हे “घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे “द्यावाभूमी द्यावापृथिव्यौ “वां युवाम् “अर्चामि ।' ऋच स्तुतौ । स्तौमि । हे “रोदसी द्यावापृथिव्यौ युवां “मे मदीयं स्तोत्रं “शृणुतम् । “यत् यस्मिन् “अहा । अहःशब्दसामर्थ्यादहोरात्रसाध्यं कर्मोच्यते । ‘सुपां सुलक्' इति सप्तम्येकवचनस्याजादेशः । अहनि अहोरात्रसाध्यकर्मणि “द्यावः स्तोतारः असुनीतिम् । असुः प्रज्ञा । तया नीयत इत्यसुनीतिः स्तुतिः । ताम् “अयन् गच्छन्ति “अत्र अस्मिन् कर्मणि “पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ “नः अस्मान् वृष्ट्युदकेन “शिशीताम् । स्नानपानादिना संस्कुरुताम् ।।
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।
मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥५
किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।
मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥५
किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।
मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥५
किंस्विच्छब्दो वितर्कार्थे । किंवा “राजा दीप्यमानोऽग्निः “नः अस्माकं स्वभूतानि हवींषि स्तुतीश्च “जगृहे परिगृह्णीयात् किंवा “अस्य अग्नेः “अति “व्रतम् अतिपूजितं परिचरणाख्यं कर्म “चकृम वयं क्रियास्म । कर्मवैगुण्याद्भीतस्य पूर्वार्ध एतद्वचनमुक्तम् । उत्तरार्धं इदानीं तन्निराक्रियते । “हि “स्म इतीमौ पूरणौ । “चित् इत्युपमार्थे । “जुहुराणः स्निग्धेनाहूयमानः “मित्रः स्निग्धो यथागच्छेत् तथा । “न इति संप्रत्यर्थे । “श्लोकः अस्मदीया स्तुतिलक्षणा वाक् “देवान् इन्द्रादीन् “यातां गच्छतु । “अपि “वाजः हविराख्यं चान्नं यत् “अस्ति तदपि देवान प्रति गच्छतु । देवाः स्तुतिं हविश्च प्रतिगृह्णन्त्वित्यर्थः ॥ ॥ ११ ॥
दु॒र्मंत्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
य॒मस्य॒ यो म॒नव॑ते सु॒मंत्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥६
दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।
य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥६
दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।
यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥६
अत्रास्मिन् कर्मणि कृतेऽमृतस्य यमस्य नाम दुर्मंतु दुर्वचनं भवति । यद्यस्मै सलक्ष्मा विषमरूपा भगिनी भार्या भवति । तत्तु न तथा इति यमं यः स्तौति सुवचनमस्य नामेति तं स्तोतारं दर्शनीयाग्ने अप्रयुच्छन् अप्रमाद्यन् रक्ष;
त७-मु- यद्यस्य अमृतस्य मरणधर्मरहितस्य सूर्यस्य । अस्य मरणधर्मराहित्यं तु सूर्ये विषमा सजामीत्यस्यां ऋचि प्रसिद्धं । तादृशस्य संबंधि नाम नामकमुदकं अत्र अस्यां पृथिव्यां विषुरूपा नानारूपं भवाति भवति । उदकस्य नानारूपत्वं या आपो दिव्या इति मंत्रे स्फुटमुक्तं । कीदृशं तत् । दुर्मंतु निरपराधं प्रह्वस्वभावत्वात् । पुनः कीदृशं । सलक्ष्मा मधुररसरूपलक्षणोपेतं ( मु-रसलक्षणोपेतं )। किंच यः सूर्यः यमस्य संयमिनीपतेः सुमंतु सुतरामपराधं मातृताडनरूपं मनवते अवबुध्यते सर्वज्ञत्वात्, ( मु-’सर्वज्ञत्वात् '-नास्ति ) । यद्वा धातूनामनेकार्थत्वात् क्षमत इत्यर्थः । तं तादृशं जलजनकं सर्वज्ञं क्षमाशीलं सूर्यं हे ऋष्व महन्नग्ने अप्रयुच्छन् अप्रमाद्यन् त्वं पाहि । आहुतिप्रदानेन रक्षणद्वारात्मरक्षणं प्रार्थयते ऋषिः ।
यस्मिं॑दे॒वा वि॒दथे॑ मा॒दयं॑ते वि॒वस्व॑तः॒ सद॑ने धा॒रयं॑ते ।
सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥७
यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।
सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥७
यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते ।
सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥७
"यस्मिन् अग्नौ यज्ञस्य प्रधानांशे सति “देवाः इन्द्रादयः “विदथे यज्ञे “मादयन्ते हविषा आत्मानं तर्पयन्ति तृप्यन्ति वा । अपि च “विवस्वतः मनुष्यस्य यजमानस्य स्वभूते “सदने वेद्याख्ये स्थाने “धारयन्ते आत्मानं स्थापयन्ति च । किंच “सूर्ये “ज्योतिः अहराख्यं तेजः “अदधुः स्थापितवन्तः । “मासि चन्द्रमसि “अक्तून् रात्रीः स्थापितवन्तः । तदनन्तरम् “अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ “द्योतनिं दीप्तिं “परि “चरतः परिगच्छतः । सर्वत्र प्राप्नुतः ॥
यस्मिं॑दे॒वा मन्म॑नि सं॒चरं॑त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।
मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥८
यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।
मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥८
यस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म ।
मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥८
“देवाः इन्द्रादयः “यस्मिन् अग्नौ “मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति “संचरन्ति स्वाधिकारे संप्रवर्तन्ते “अपीच्ये अन्तर्हिते स्थितमग्नेः स्वरूपं “वयं “न “विद्म तत्त्वतो न जानीमः । “अत्र अस्मिन् यज्ञेऽङ्गभावाय वर्तमानः “मित्रः “वरुणाय सर्वेषां पापानां निवारयित्रेऽग्नये “नः अस्मान “अनागान् अपापान “वोचत् ब्रवीतु । तथा “अदितिः देवमाता “सविता सर्वस्य प्रेरकः “देवः च ब्रवीतु ॥
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥९
श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥९
श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥९
‘श्रुधी नः' इत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ॥ १२ ॥
मण्डल १० | ||||
---|---|---|---|---|