ऋग्वेदः सूक्तं १०.१३३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१३२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३३
सुदाः पैजवनः
सूक्तं १०.१३४ →
दे. इन्द्रः । शक्वरी, ४-६ महापङ्क्तिः, ७ त्रिष्टुप्।


प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१॥
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
यो न इन्द्राभितो जनो वृकायुरादिदेशति ।
अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥४॥
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः ।
अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥५॥
वयमिन्द्र त्वायवः सखित्वमा रभामहे ।
ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥६॥
अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।
अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥७॥

सायणभाष्यम्

‘प्रो षु' इति सप्तर्चं पञ्चमं सूक्तं पिजवनपुत्रस्य सुदास आर्षमैन्द्रम् । आद्यस्तृचः शाक्वरः । षट्पञ्चाशदक्षरा शक्वरी । द्वितीयस्तृचो महापाङ्क्तः । षळष्टका महापङ्क्तिः । सप्तमी त्रिष्टुप् । तथा चानुक्रान्तं -- प्रो षु सुदाः पैजवनः शाक्वरमहापाङ्क्तावाद्यौ तृचावन्त्या त्रिष्टुप् ' इति । षोळशिशस्त्र आद्यस्तृचः शंसनीयः । सूत्रितं च -- त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ' ( आश्व. श्रौ. ६. २) इति । महाव्रते माध्यंदिनसवने ब्रह्मशस्त्रेऽनुरूपतृचस्य ‘ प्रो ष्वस्मै ' इत्येका। तथैव पञ्चमारण्यके सूत्रितं च-- ‘ प्रो ष्वस्मै पुरोरथमित्यतोऽनुरूपः । (ऐ. आ. ५. १. १ ) इति ।।


प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत ।

अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥१

प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ ।

अ॒भीके॑ । चि॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥१

प्रो इति । सु । अस्मै । पुरःऽरथम् । इन्द्राय । शूषम् । अर्चत ।

अभीके । चित् । ऊं इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥१

“अस्मै “इन्द्राय । षष्य् र्थे चतुर्थी । अस्येन्द्रस्य “पुरोरथं रथस्य पुरः पुरतः । ‘पुरोऽव्ययम्' इति गतित्वाद्गतिसमासः । रथस्याग्रतो वर्तमानं "शूषं बलं “सु “प्रो “अर्चत । हे स्तोतारः सुष्ठु प्रपूजयत । प्र उ इति निपातसमुदायः प्रो इति । ‘ओत्' इति प्रगृह्यसंज्ञम् । इन्द्रो विशेष्यते । समत्सु । समानं माद्यन्यत्रेति समदः संग्रामाः । औणादिकोऽधिकरणे क्विप्। समानस्य छन्दसि० इति सभावः । “समत्सु संग्रामेषु “संगे संगमनीये शत्रुबले। ‘डोऽन्यत्रापि दृश्यते ' (पा. सू. ३. २. ४८) इति गमेर्डः। “अभीके “चित् अभ्यर्णेऽपि निकटं प्राप्तेऽपि केशाकेश्यवस्थायामपि “लोककृत् स्थितिकृन्न पलायिता स्थित्वा च “वृत्रहा वृत्राणामावरकाणां हन्ता एवंविधः स इन्द्रः “अस्माकं स्तोतॄणां “चोदिता धनानां प्रेरिता सन् “बोधि । अस्माभिः कृतानि परिचरणानि बुध्यताम् । बुधेश्छान्दसे लुङि ‘ दीपजनबुध°' इत्यादिना कर्तरि च्लेश्चिणादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि इत्यडभावः । अपि च “अन्यकेषां कुत्सितानामन्येषां शत्रूणाम् “अधि “धन्वसु धनुःष्वधिरोपिता “ज्याकाः कुत्सिता ज्या “नभन्तां हिंस्यन्तां नश्यन्तु। ज्याशब्दात् कुत्सायां प्रागिवात्कः ( पा. सू. ५. ३. ७०; ७४ )। ‘नभ तुभ हिंसायाम्' । क्रैयादिकः । व्यत्ययेन शप् ॥


त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् ।

अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥२

त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् ।

अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥२

त्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् ।

अशत्रुः । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥२

हे “इन्द्र “त्वं “सिन्धून स्यन्दनशीलान् जलपूरान् “अधराचः अधरमधोमुखमञ्चतो गन्तॄन् “अवासृजः मेघान्निरगमयः । यतस्त्वम् “अहिम् अन्तरिक्षे गतं मेघम् “अहन् हतवानसि । यद्वा । अहिमागत्य हन्तारं सर्वस्य जगत आवरकं वृत्रमसुरमहन् हतवानसि । अतो हे “इन्द्र त्वम् “अशत्रुः शत्रुरहितः “जज्ञिषे जायसे । न सन्ति शत्रवोऽस्येति बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । जनेर्लिटि ‘ गमहन इत्यादिनोपधालोपः। द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्वचनम् । तथा “विश्व सर्वं “वार्यं वरणीयं संभजनीयं धनं “पुष्यसि वर्धयसि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् । “तं तादृशं “त्वा त्वां “परि “ष्वजामहे हविर्भिः स्तुतिभिश्चालिङ्गनं कुर्मः । वशीकुर्म इत्यर्थः। ‘ ष्वन्ज परिष्वङ्गे'। दंशसञ्जष्वञ्जां शपि' (पा. सू. ६. ४, २५ ) इत्यनुनासिकलोपः । गतमन्यत् ॥


वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धिय॑ः ।

अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥३

वि । सु । विश्वा॑ । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । नः॒ । धियः॑ ।

अस्ता॑ । अ॒सि॒ । शत्र॑वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां॑सति । या । ते॒ । रा॒तिः । द॒दिः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥३

वि । सु । विश्वा । अरातयः । अर्यः । नशन्त । नः । धियः ।

अस्ता । असि । शत्रवे । वधम् । यः । नः । इन्द्र । जिघांसति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥३

“विश्वाः सर्वाः “अरातयः अदात्र्यः “अर्यः अभिगन्त्र्यः “नः अस्माकं शत्रुभूताः प्रजाः “सु सुष्ठु “वि “नशन्त विनश्यन्तु । हे इन्द्र त्वदर्थं “धियः कर्माणि स्तुतयो वा प्रवर्तन्ताम् । हे “इन्द्र “यः “नः अस्मान् “जिघांसति हन्तुमिच्छति । हन्तेः सनि अज्झनगमां सनि' इति दीर्घः । अभ्यासाच्च' इति कुत्वम् । तस्मै “शत्रवे “वधं हननसाधनमायुधम् “अस्तासि क्षेप्ता भवसि । असु क्षेपणे । ताच्छीलिकस्तृन् । “ते तव “या “रातिः धनप्रदानहेतुर्हस्तः । रा दाने । करणे क्तिन् । ‘ मन्त्रे वृषेषपचमनविदभूवीरा उदात्त: ' इति क्तिन उदात्तत्वम् । सा रातिः “वसु धनं “ददिः अस्मभ्यं दाता भवतु । ‘ आदृगमहन' इति ददातेः किप्रत्ययः । ‘ न लोकाव्यय°' इति वसुशब्दात् षष्ठ्यभावः । सिद्धमन्यत् ॥


यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति ।

अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥४

यः । नः॒ । इ॒न्द्र॒ । अ॒भितः॑ । जनः॑ । वृ॒क॒ऽयुः । आ॒ऽदिदे॑शति ।

अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । वि॒ऽबा॒धः । अ॒सि॒ । स॒स॒हिः । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥४

यः । नः । इन्द्र । अभितः । जनः । वृकऽयुः । आऽदिदेशति ।

अधःऽपदम् । तम् । ईम् । कृधि । विऽबाधः । असि । ससहिः । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥४

हे “इन्द्र “यः “जनः “वृकायुः । वृको हिंसकोऽरण्यश्वा स्तेनो वा । स इवाचरन् “नः अस्मान् “अभितः सर्वतः “आदिदेशति अभिलक्ष्य आयुधान्यतिसृजति । दिशतेर्लेट्यडागमः । छान्दसः शपः श्लुः । नाभ्यस्तस्याचि पिति' इत्यत्र ‘ बहुलं छन्दसीति वक्तव्यम्' इति वचनात् प्रतिषेधाभावे लघूपधगुणः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । “तमीं तमिमं जनम् “अधस्पदं पादस्याधस्ताद्वर्तमानं “कृधि कुरु। करोतेश्छान्दसो विकरणस्य लुक् ।' श्रुशृणुपॄकृवृभ्यः' इति हेर्धिः। यतस्त्वं “विबाधः विशेषेण बाधिता शत्रूणां “सासहिः “अभिभविता च “असि। सिद्धः शेषः ॥


यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑ः ।

अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥५

यः । नः॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । सऽना॑भिः । यः । च॒ । निष्ट्यः॑ ।

अव॑ । तस्य॑ । बल॑म् । ति॒र॒ । म॒हीऽइ॑व । द्यौः । अध॑ । त्मना॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥५

यः । नः । इन्द्र । अभिऽदासति । सऽनाभिः । यः । च । निष्ट्यः ।

अव । तस्य । बलम् । तिर । महीऽइव । द्यौः । अध । त्मना । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥५

हे “इन्द्र “यः “सनाभिः समानजन्मा शत्रुः “नः अस्मान् “अभिदासति उपक्षयति “यश्च “निष्ट्यः निकृष्टजन्मा अस्मानुपक्षयति ॥ जातार्थे निकृष्टवाचिनो निःशब्दादव्ययात्त्यप् (पा. सू. ४० २. १०४ )। ह्रस्वात्तादौ तद्धिते ' (पा. सू. ८. ३. १०१ ) इति षत्वम् ॥ “अध अनन्तरमेव “महीव “द्यौः महती द्यौरिव विस्तृतं “तस्य शत्रोः "बलं "त्मना आत्मना। ‘ मन्त्रेष्वाङ्यादेरात्मनः इत्याकारलोपः । स्वयमेव “अव “तिर जहि अवतिरतिर्वधकर्मा । गतमन्यत् ॥


व॒यमि॑न्द्र त्वा॒यव॑ः सखि॒त्वमा र॑भामहे ।

ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥६

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । स॒खि॒ऽत्वम् । आ । र॒भा॒म॒हे॒ ।

ऋ॒तस्य॑ । नः॒ । प॒था । न॒य॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥६

वयम् । इन्द्र । त्वाऽयवः । सखिऽत्वम् । आ । रभामहे ।

ऋतस्य । नः । पथा । नय । अति । विश्वानि । दुःऽइता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥६

हे “इन्द्र “त्वायवः त्वामात्मन इच्छन्तः “वयं “सखित्वं सखिकर्म यज्ञात्मकम्, “आ “रभामहे उपक्रमामहे। “ऋतस्य सत्यस्य यज्ञस्य “पथा मार्गेण । भस्य टेर्लोपः । उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । “विश्वानि सर्वाणि “दुरिता दुरितानि दुर्गमनानि पापानि तत्फलानि च “नः अस्मान “अति नय अतिपारय । गतमन्यत् ॥


अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे ।

अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥७

अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे ।

अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥७

अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे ।

अच्छिद्रऽऊध्नी । पीपयत् । यथा । नः । सहस्रऽधारा । पयसा । मही । गौः ॥७

हे “इन्द्र “त्वं “तां गाम् “अस्मभ्यं स्तोतृभ्यः “सु “शिक्ष प्रदेहि । शिक्षतिर्दानकर्मा । “या गौः “जरित्रे स्तोत्रे “वरं वरणीयं पयः “प्रति “दोहते प्रतिदिनं नैरन्तर्येण दुग्धे ॥ दुहेः ' बहुलं छन्दसि' इति शपो लुगभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । वरम् । वृञ् वरणे' इत्यस्मात् ' ग्रहवृदृनिश्चिगमश्च ' इति कर्मण्यप् ॥ सा प्रत्ता “गौः “अच्छिद्रोध्नी निबिडोधस्का अत एव “सहस्रधारा बहुभिः क्षीरधाराभिरुपेता “मही महती सती “यथा “नः अस्मान् “पयसा क्षीरेण “पीपयत् प्रवर्धयेत् तथा तां कुर्विति शेषः ॥ ‘ ओप्यायी वृद्धौ । ण्यन्ताच्छान्दसो लुङ् । व्यत्ययेन धातोः पीभावः । अडभावश्छान्दसः ॥ ॥२१॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१