ऋग्वेदः सूक्तं १०.९४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.९३ ऋग्वेदः - मण्डल १०
सूक्तं १०.९४
अर्बुदः काद्रवेयः सर्पः
सूक्तं १०.९५ →
दे. ग्रावाणः, छ. जगती, ५,७,१4 त्रिष्टुप् ।
अर्बुदः कार्द्रवेयः
सोमाभिषवणम्


प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।
यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥१॥
एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः ।
विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥२॥
एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि ।
वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥३॥
बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।
संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥४॥
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥५॥
उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।
यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥६॥
दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥७॥
ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।
त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥८॥
ते सोमादो हरी इन्द्रस्य निंसतेऽंशुं दुहन्तो अध्यासते गवि ।
तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥९॥
वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः ।
रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥१०॥
तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।
अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥११॥
ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।
अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥१२॥
तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।
वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥१३॥
सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः ।
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥१४॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

‘प्रैते' इति चतुर्दशर्चं चतुर्थं सूक्तं कद्र्वाः पुत्रस्य सर्पस्यार्बुदस्यार्षम् । पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः । सोमाभिषवार्था ग्रावाणोऽत्र देवता । तथा चानुक्रान्तं----प्रैते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी च' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रित च--- प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः ' ( आश्व. श्रौ. ५. १२) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च--- अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके' (आश्व. श्रौ. ५, १२) इति ॥


प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।

यद॑द्रयः पर्वताः सा॒कमा॒शव॒ः श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिनः॑ ॥

प्र । एते । वदन्तु । प्र। वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत। वदत्ऽभ्यः ।

यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥१॥

एते ग्रावाण उपलाः प्र वदन्तु अभिषवशब्दं कुर्वन्तु । vवयं यजमानाः vवदद्भ्यः अभिषवशब्दं कुर्वद्भ्यः vग्रावभ्यः ग्राव्णामर्थाय vवाचं vप्र vवदाम । किंच हे ऋत्विजो यूयमपि स्तुतिलक्षणां वाचं वदत पठत । यत् यदा अद्रयः आदरणीया दृढाः आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वताः ग्रावाणः सर्वे यूयं साकं सह इन्द्राय इन्द्रार्थं श्लोकं श्रोतव्यं vघोषम् अभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृप्ता भवथ ॥ ।


ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।

वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥

एते । वदन्ति । शतऽवत् । सहस्रऽवत् । अभि । क्रन्दन्ति । हरितेभिः । आसऽभिः ।

विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम्। आशत ॥२॥

vशतवत्सहस्रवत् यथा शतं मनुष्याः सहस्रवदपरिमिता मनुष्याश्च वदन्ति तद्वत् एते ग्रावाणः vवदन्ति शब्दं कुर्वन्ति । किंच हरितेभिः सोमसंसर्गाद्धरितवर्णैः vआसभिः आस्यैः अभि vक्रन्दन्ति । सोममभिलक्ष्य देवानाह्वयन्तीत्यर्थः। किंच vसुकृतः शोभनकर्माणः vग्रावाणः vविष्ट्वी यज्ञं प्राप्य होतुः देवानामाह्वातुरग्नेः पूर्वे चित् पूर्वमेव अद्यं भक्षणीयं हविः आशत प्राप्नुवन्ति ।।


ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।

वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥

एते । वदन्ति । अविदन् । अना। मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि ।

वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते। सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥३॥

vअरुणस्य अरुणवर्णस्य वृक्षस्य शाखां vबप्सतः भक्षयन्तः vते vसूभर्वाः शोभनभक्षाः vवृषभाः प्रेमराविषुः प्ररुवन्ति । यथा vपक्वे vआमिषि vअधि आमिषे क्रव्यादो मांसभक्षकाश्च मांसविषये यथा न्यूङ्खयन्ते शब्दविशेषं कुर्वन्ति तद्वत् एते ग्रावाणः वदन्ति शब्दं कुर्वन्ति । किंच vमधु मदकरं सोमम् vअना आस्येन vअविदन् लभन्ते ॥


बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ ।

सं॒रभ्या॒ धीरा॒ः स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥

बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना। मधु ।

सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः॥४॥

vमदिरेण मदकरेण मन्दिना अभिषूयमाणेन सोमेन इन्द्रं क्रोशन्तः आह्वयन्त एते ग्रावाणः बृहत् अत्यन्तं वदन्ति शब्दायन्ते । किंच vअना आस्येन vमधु मदकरं सोमम् vअविदन् अलभन्त । किंच vसंरभ्य संरब्धा भूत्वा vधीराः धृष्टाः सन्तः उपब्दिभिः शब्दैः पृथिवीम् vआघोषयन्तः पूरयन्तः स्वसृभिः अङ्गुलिभिः सह अनर्तिषुः नृत्यन्ति ।


सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।

न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥

सुऽपर्णाः । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णाः । इषिराः । अनर्तिषुः ।

न्य॑क् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वित: ॥ ५ ।।

vसुपर्णाः सुपतना ग्रावाणः उप उपलक्ष्य समीपे द्यवि अन्तरिक्षे vवाचम् अभिषवशब्दम् vअक्रत कुर्वन्ति । किंच आखरे । मृगाणां व्रज आखरः । तस्मिन् vइषिराः गमनशीलाः कृष्णाः कृष्णमृगा इव सूर्यश्वितः सूर्यवच्छ्वेतवर्णा द्रप्साः अनर्तिषुः नृत्यन्ति । निष्कृतं ग्रावभि: पीडितं सत् उपरस्य उपलस्य vन्यक् अधोमुखं सोमं vनि vयन्ति निगमयन्ति । किंच vपुर बहु vरेतः सोमलक्षणमुदकं दधिरे धारयन्ति ॥ ॥ २९ ॥


उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।

यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥

उग्राःऽइव । प्रऽवहन्तः । सम्ऽआयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः ।

यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ।। ६ ।।

vवृषणः । फलं वर्षतीति वृषा यज्ञः। तस्य vधुरः धुरं भारं vबिभ्रतः धारयन्त एते ग्रावाणः । vसाकं सोमेन सह vयुक्ताः सन्तः प्रवहन्तः रथं प्रकर्षेण वोढारः vउग्राः उद्गूर्णा अश्वाः vइव vसमायमुः समायच्छन्ति । आयता भवन्तीत्यर्थः । यत् यदा vश्वसन्तः अभिषवसमय उत्पतननिपतनव्यापारजनितेन वायुना श्वसन्त इव स्थिता ग्रावाणः vजग्रसानाः सोमं ग्रसमानाः अराविषुः शब्दायन्ते तदानीम् vएषां ग्राव्णां संबन्धी vप्रोथथः मुखाच्छब्दः शृण्वे श्रूयते । तत्र इष्टान्तः । vअर्वतामिव । अश्वानां संबन्धिनो मुखाद्धेषाशब्दो यथा तद्वदित्यर्थः ॥


दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।

दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

दशावनिऽभ्यः । दशऽकक्ष्येभ्यः । दशऽयोक्त्रेभ्यः । दशऽयोजनेभ्यः ।।

दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ।। ७ ।।

दशावनिभ्यः । कर्माण्यवन्ति गच्छन्तीत्यवनयः । दशावनयोऽङ्गुलयो येषां ग्राहकत्वेन संबन्धिनस्ते दशावनयः । तान् ग्राव्णः। द्वितीयार्थे चतुर्थी । दशकक्ष्येभ्यः। कक्ष्याः प्रकाशका अङ्गुलयो येषां ते दशकक्ष्याः । तान् । दशयोक्त्रेभ्यः । योक्त्रवद्बन्धनसाधनभूता दशाङ्गुलयो येषां तान् । दशयोजनेभ्यः । सोमेन सह योजने साधनभूता दशाङ्गुलयो येषां तान्। vदशाभीशुभ्यः । कर्माण्यभितो व्याप्नुवन्तीत्यभीशवोऽङ्गुलयो दश येषां तान् । अजरेभ्यः जराविवर्जितान् vदश दशभिः vधुरः धूर्भिः हिंसितृभिः । तृतीयार्थे प्रथमा । vयुक्ताः युक्तान्। द्वितीयार्थे प्रथमा । vवहद्भ्यः वहतोऽभिषवाख्ये कर्मणि व्याप्रियमाणान् vअर्चत स्तुत । हे ऋत्विज इति शेषः । अत्र यास्कः-* अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि । कक्ष्याः प्रकाशयन्ति कर्माणि । योक्त्राणि योजनानीति व्याख्यातमभीशवोऽभ्यनुवते कर्माणि । दश धुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मण इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेर्वा ' (निरु. ३. ९) इति ।


ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् ।

त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥

ते । अद्रयः । दशऽयन्त्रासः । आशवः । तेषाम् । आऽधानम् । परि । एति । हर्यतम् ।

ते । ऊँ इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥ ८ ॥

अद्रयः आदरणीयाः आशवः क्षिप्रकारिणः vते एते प्रकृता ग्रावाणः दशयन्त्रासः दशयन्त्राः । तेषाम् एषां ग्राव्णां संबन्धि यत् vआधानं प्रक्षेपणमभिषवकर्म हर्यतं स्पृहणीयं vपर्येति परितो गच्छति । ते एते ग्रावाण एव सुतस्य अभिषुतस्य सोम्यस्य सोमस्य संबन्धिनः अंशोः खण्डस्वरूपस्य vअन्धसः अन्नस्य पीयूषम् अमृतं प्रथमं भेजिरे ॥


ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।

तेभि॑र्दु॒ग्धं प॑पि॒वान्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥

ते । सोमऽअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि।

तेभिः । दुग्धम्। पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥ ९ ॥

सोमादः सोमस्यात्तारः ते प्रकृता एते ग्रावाणः इन्द्रस्य हरी अश्वौ vनिंसते निक्षन्ति चुम्बन्ति । प्राप्नुवन्तीत्यर्थः । किंच vगवि अधिषवणचर्मणि अंशु सोमं दुहन्तः vआसते। किंच vइन्द्रः vतेभिः तैः दुग्धं सोम्यं सोममयं मधु अमृतं vपपिवान् पीतवान् vवर्धते वृद्धशरीरो भवति । vप्रथते विस्तीर्णशरीरश्च भवति । वृषायते वृषेवाचरति ॥


वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒ः सद॒मित्स्थ॒नाशि॑ताः ।

रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥

वृषा । वः । अंशुः । न । किल । रिषाथन । इळाऽवन्तः । सदम् । इत् । स्थन । आशिताः ।

रैवत्याऽइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥ १० ॥

अंशुः सोमः वः युष्माकं वृषा यज्ञे वर्षिता भविष्यति । यूयमपि न रिषाथन किल न vरिष्यथ न शीर्णा भवथ किल । किंच vइळावन्तः अन्नवन्त इव यूयं सदमित् सदैव आशिताः भोजिताः स्थन भवथ। किंच रैवत्येव यथा रेवन्तस्तेजसा युक्ता भवन्ति तद्वत् महसा तेजसा युक्ताः vचारवः कल्याणाः स्थन भवथ । हे vग्रावाणः यूयं यस्य यजमानस्य vअध्वरं यज्ञम् vअजुषध्वम् असेवध्वम् ॥ ॥ ३० ॥


तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।

अ॒ना॒तु॒रा अ॒जरा॒ः स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥

तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः ।

अनातुराः । अजराः । स्थ । अमविष्णवः । सुऽपीवसः । अतृषिताः । अतृष्णऽजः ॥११॥

vअश्रमणाः श्रमणवर्जिताः अशृथिताः अन्यैरशिथिलीकृताः vअमृत्यवः अमारिताः vअनातुराः अरोगाः vअजराः जरारहिताः vस्थ भवथ । किंच अमविष्णवः उत्क्षेपणावक्षेपणगत्युपेता हे ग्रावाणः vतृदिलाः अन्येषां भेदकाः vअतृदिलासः स्वयमन्येनाभिन्नाः सुपीवसः सुबलाः vअतृषिताः तृष्णारहिताः vअतृष्णजः निःस्पृहा भवथ ॥


ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामास॒ः सद॑सो॒ न यु॑ञ्जते ।

अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥

धुवाः । एव । वः । पितरः । युगे युगे । क्षेमऽकामासः । सदसः । न । युञ्जते ।

अजुर्यासः । हरिऽसाचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः ॥ १२ ॥

हे ग्रावाणः vयुगेयुगे सर्वेषु युगेषु vधुवा vएव निश्चला एव vवः युष्माकं पितरः पितृभूताः पर्वताः vक्षेमकामासः क्षेमकामाः सदसः सदांसि आत्मना न vयुञ्जते न संयोजयन्ति। vअजुर्यासः जरारहिताः हरिषाचः सोमस्य संभक्तारः vहरिद्रवः सोमसंसर्गाद्धरितवर्णाः द्यां दिवं पृथिवीं च रवेण अभिषवशब्देन vअशुश्रवुः श्रावयन्ति ।


तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।

वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥

तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ। इत् । उपब्दिऽभिः ।

वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम्। न । मिनन्ति । बप्सतः ।। १३ ॥

vअद्रयः आदरणीया ग्रावाणः यामन् यामनि गमने अञ्जस्पाः । अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानाम् इव उपब्दिभिः vतदित् तदेवाभिषवकर्म विमोचने vघेत् तत् सोमरसविमोचनवेलायामपि vवदन्ति प्रकाशयन्ति । किंच vबप्सतः सोमं भक्षयन्त ग्रावाण: vवपन्तः vधान्याकृतः कृषीवला: vबीजमिव यथा पृञ्चन्ति तद्वत् vसोमं पृञ्चन्ति । संपर्चयन्तीत्यर्थः । न एनं vमिनन्ति । न हिंसन्तीत्यर्थः ॥


सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।

वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥

सुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम्। तुदन्तः ।

वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ।। १४ ।।

vचायमानाः पूज्यमानाः अद्रयः आदरणीया ग्रावाणः अध्वरेऽधि यज्ञे vसुते सोमेऽभिषुते vमातरं तुदन्तः हस्तेन ताडयन्तः vआ vक्रीळयो vन आक्रीडकाः कुमाराः शब्दं यथा कुर्वन्ति तथा vवाचं शब्दम् vअक्रत कृण्वन्ति । vसुषुवुषः सोममभिषुतवतः ग्राव्णः vमनीषां स्तुतिं vवि vमुञ्च विशेषेण मुञ्च । किंच अद्रयः वि vवर्तन्ताम् अभिषवशब्दं विमुञ्चन्तु ॥ ॥ ३१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके चतुर्थोऽध्यायः समाप्तः ॥


[सम्पाद्यताम्]

टिप्पणी

सोमयागे सुत्यादिवसे माध्यन्दिन सवने ग्रावस्तुद् ऋत्विजः स्वशस्त्रस्य उच्चारणं करोति। तस्य शस्त्रस्य ऋचानां समूहः ऋग्वेदे १०.९४ सूक्ते प्रकटयति। अस्य सूक्तस्य ऋषिः अर्बुदः कार्द्रवेयः भवति एवं देवता ग्रावाणः भवति। निरुक्तोपनिषत् १.१० अनुसारेण, यदा गर्भे शुक्रस्य स्थापना भवति, तदा पंचरात्रि पर्यन्तं तस्य संज्ञा बुद्बुदं भवति, सप्तरात्रि पर्यन्तं पेशी, चत्वारिंशत् रात्रि पर्यन्तं अर्बुदं एवं पंचविशति रात्रि पर्यन्तं घनं भवति। शतपथ ब्राह्मणानुसारेण यदा वायुः पृथिवीतत्त्वे प्रवेशं करोति, तदा बुद्बुदस्य सृष्टिः भवति। बुद्बुदस्य रचनानन्तरं मृद, शर्करा, अश्मा, हिरण्यादस्य क्रमानुसारेण सृष्टिः भवति। अत्र वायुः प्राणानां रूपमस्ति। अतः यदा निरुक्तोपनिषदे बुद्बुदस्य रचनस्य कथनं प्रकटयति, अयं संकेतः भवति यत् जड तत्त्वे यदा वचसः, मनसः, प्राणस्य प्रवेशं भवति, तदा गर्भः संजायते। अर्बुदं बुद्बुदस्य एकं विकसित रूपमस्ति। अर्बुदस्य विकसिततमं रूपं ग्रावाणः सन्ति। ग्रावाणः अर्थात् दिव्याः प्राणाः। ग्रावाणः रूपाः ते प्राणाः अशुद्धात् सोमात् शुद्धस्य सोमस्य विश्लेषणं कर्तुं समर्थाः भविष्यन्ति। ग्री – विज्ञाने। अथर्ववेदे अपि अर्बुदस्य सूक्तं प्रकटयति। अनेनानुसारेण अर्बुदस्य विकसिततमं रूपं न्यर्बुदि अस्ति, अयं प्रतीयते। लौकिकां भाषायां अर्बुदं, न्यर्बुदं संख्यानां क्रमिक रूपेण वर्धिताः रूपाः भवन्ति – अर्बुदं – अरब(१००कोटि)। लक्ष्मीनारायण संहिता १.५५१ मध्ये अर्बुदाचलस्य अतिरिक्तं रहस्यं प्रकटी भवति यत् त्रिपुष्कराणां तादात्म्यं अर्बुदाचलस्य व्योम, शिखर एवं भूमि अथवा सरोवराणां सह भवति। अतः त्रिपुष्कराणां ये गुणाः सन्ति, तेषामनुसारेण अर्बुदाचलस्य गुणानां ग्रहणं अपि बोधगम्यं भवति।

अर्बुदोपरि टिप्पणी

पुराणेषु अर्बुदः

ग्रावस्तुदोपरि टिप्पणी

१०.९४.१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः। यदा अद्रयः एवं पर्वताः साकं - सह स्थित्यां कार्यं करिष्यन्ति, तदैव ते आशवः - आशु, क्षिप्रगत्यात्मकाः भविष्यन्ति। तदा ते इन्द्राय श्लोकं, घोषं भरिष्यन्ति। लौकिकार्थे अद्रि शब्दस्य ग्रहणं प्रस्तरसंज्ञात्मकं भवति। प्रस्तरहृदयं। पत्थरदिल। वैदिक-निघण्टु मध्ये अद्रिः एवं पर्वतः शब्दयोः वर्गीकरणं मेघनामेषु अस्ति। अद्रि। दॄ- विदारणे। व्यवहारे अयं घटति यत् कोपि गंभीरः शोकः नेत्रेषु अश्रूणां सर्जनं न करोति, तदा अकस्मात् कापि घटना, कोपि वचनं वज्रपातइव क्षोभति एवं अश्रूणां प्रवाहः भवति। वैदिक चिन्तना मध्ये अयं कल्पना अस्ति यत् मेघानां द्रावणं विद्युतैव भवति। वैद्युद्स्फुलिंगस्य जननं केन प्रकारेण भवेत्। अस्य उपायमस्ति यत् अद्रयः एवं पर्वताः साकं कार्यं कुर्युः। पुराणेषु अद्रयः - पर्वताः स्थाने नारद-पर्वतस्य नामधेयं प्रकटयति। कस्मिंश्चित् स्थाने नारदपर्वतौ अन्योन्यस्य दोषं गणयन्ति, परस्परं शपन्ति। अन्यस्थाने ते परस्परं सहयोगं कुर्वन्ति। नारदस्य प्रसिद्धिः भक्तिभावे अस्ति, अतएव पर्वतस्य प्रवृत्तिः ज्ञानात्मकं भवितुं शक्यते।

अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ।।

भाव्यं वाप्यथवातीतं वर्तमानं वदस्व नः ।।

वह्निना केन तद्भस्म भवेदेतन्मतं मम ।। - नारदपुराणम् २.१.५

ज्ञानप्राप्त्या स्वपापानां, दोषाणां अन्वेषणं सर्वाधिकं कठिनं कार्यमस्ति। एवं यावत् स्वपापानां ज्ञानं न भवेत्, तावत् अद्रेः द्रावणं न भविष्यति, आर्द्रा स्थितिः न भविष्यति। अस्यां स्थित्यां भगवत्कृपा एव कल्याणकारी अस्ति।

अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ।।

आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्। - पद्मपुराणम् ६.११४.२२

अद्रिरसि श्लोककृत् - काठक संहिता १.५

पर्वतोपरि पौराणिकाः संदर्भाः एवं टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९४&oldid=142492" इत्यस्माद् पुनः प्राप्तिः