ऋग्वेदः सूक्तं १०.९६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९६ इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सूक्तं १०.९५ ऋग्वेदः - मण्डल १०
सूक्तं १०.९६
वरु* आङ्गिरसः, सर्वहरिर्वा ऐन्द्रः।
सूक्तं १०.९७ →
दे. हरिः। जगती, १२-१३ त्रिष्टुप्



प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः ।
आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥२॥
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥६॥
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥७॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥८॥
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥९॥
उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत् ।
मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥१०॥
आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥११॥
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥१२॥
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥१३॥


प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥
अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥

श्रीहरिविष्णु मूर्ति, नेपाल







[सम्पाद्यताम्]

तुलनीयं - ऋग्वेदः १.८२

  • शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णितमस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।

हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः

शतपथब्राह्मणे हारियोजनग्रहः

भाष्यम्

सायणभाष्यम्॥

प्र ते मह इति त्रयोदशर्चं षष्ठं सूक्तं वरुर्नामांगिरसऋषिः इन्द्रस्य पुत्रः सर्वहरिर्वा नाम द्वादशीत्रयोदश्यौ त्रिष्टुभौ शिष्टा एकादश जगत्यः इन्द्रस्याश्वौ हरी तयोरत्र स्तूयमानत्वात्तद्देव- ताकमिदं तथा चानुक्रान्तं - प्र ते सप्तोना वरुः सर्वहरिर्वेन्द्रो हरिस्तुतिर्द्वित्रिष्टुबन्तं । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिन एतत्सूक्तं सूत्रितं च – प्र ते मह ऊती शचीवस्तव वीर्येणेति याज्येति । षोडशिशस्त्रेप्याद्यस्तृचः शंसनीयः । सूत्रितं च- प्र ते महे विदथे शंसिषं हरी इति तिसो जगत्य इति ।

प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥


१ हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्रशंसिषं अशंसिषं अस्ताविषं । तथा वनुषः वनु हिंसायां हिंसकस्य ते तव हर्यतं हर्य गतिकान्त्योः तस्यौणादिकः अतच् चित्स्वरेणान्तोदात्तः कमनीयं मदं प्रवन्वे प्रयाचे अस्मदभिमतं । वनु याचने य इन्द्रो हरिभिः हरितवर्णैः अश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतं उदकं सेचते वर्षति तं तादृशं हरिवर्पसं वर्प इति रूपनाम हरितरूपं त्वा त्वां आविशन्तु गिरोस्मदीयाः स्तुतिवाचस्तव मदाय।। १

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।

आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥

२ ये पूर्वे स्तोतारऋषयोयोनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् स्वृशब्दोपता- पयोः अधिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

३ अस्येन्द्रस्य वज्रो हरितो हरितवर्णः य आयसः अयसःसारभूतोस्ति निर्मितः स च हरिर्हरितवर्णो- वज्रोनिकामः नितरां कमनीयः स आहन्ता शत्रूणां तादृशो वज्रो गभस्त्योः हस्तयोर्वतते इति शेषः । अयमिन्द्रो द्युम्नी द्युम्नं द्योतमानं धनं तद्वान् सुशिप्रः शोभनहनुः हरिमन्युसायकः यस्य मन्युः सायकः शत्रुहन्तात्रिगन्तावा भवति यद्वा शत्रुहन्ता कोपः सायकश्च यस्य स तादृशो भवति । किं च बहूनां इन्द्रे रूपा रूपाणि सर्वाणि हरिता हरितानि निमिमिक्षिरे निषिक्तानि बभूवुः मिहेः सन्नन्तात्कर्मणि लिटि रूपं ।। ३ ।।

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥

४ दिव्यन्तरिक्षे केतुः प्रकाशेन सर्वस्य प्रज्ञापक आदित्य इव स यथा अधिनिहितः एवमयमिन्द्रः अधिधायि अध्यधायि स्तोतृभिरधिनिहितः किंचेन्द्रस्य वज्रः हर्यतः स्पृहणीयः सन्विव्यचत् विव्याप्नोति व्याप्तव्यं शत्रुसंघं । तव दृष्टान्तः-हरितो न हरितवर्णा अध्वा हर्तारो- वा अश्वाआदित्यसंबन्धिनस्ते यथा रंह्या रंहणेन वेगेन व्याप्नुवन्ति व्याप्तव्यं योस्य वज्रः आयसः अयोविकारः अहिं वृत्रं मेघं वा तुदत् हिनस्ति योयं महानुभावो हरिशिप्रः सोमपान- रभसेन हरितवर्णनासिकः तद्वर्णहनुर्वा हरिंभरः हर्योर्भर्ता इन्द्रः सहस्रशोकाः अभवत् शुच दीप्तौ अपरिमितदीप्तिर्भवति ।। ४ ।।

त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।

त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥

हे इन्द्र हे हरिकेश हरितरोमवदश्व त्वं त्वमेव सर्वत्र यज्ञे अहर्यथाः अकामयथाः स्तो- त्रं हविर्वा ।कीदृस्त्वं पूर्वेभिः पूर्वतनैर्यज्वभिर्यजमानैरुपस्तुतः सन् हे हरिजात हरितवर्णः सन् प्रादुर्भूत हारकप्रादुर्भाव वा शत्रुवधार्थं प्रादुर्भूतेत्यर्थः हे तादृशेन्द्र त्वं तव स्वभूतमिति शेषः विश्वं व्याप्तं सोमचरुपुरोडाशादिरूपं सर्वं वा यद्वा यत्र यानि यानि हवींषि दीयन्ते तत्सर्वंं वा तथा उक्थ्यं प्रशस्यं असामि असाधारणं असमं कृत्स्नं हर्यतं कान्तं राधोन्नं हविर्लक्षणं हर्यसि कामयसे ।। ५ ।।

ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥

६ ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णौ अश्वौ मन्दिनं मोद- मानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः धारयतः यज्ञमस्मदीयं प्रापयतः अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि इरयो हरितवर्णाः सोमाद- धन्विरे निधीयन्ते ।। ६ ।।

अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥

७ अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे ते च हरयः स्थिराय युद्धे अपालितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन् प्रेरयन्ति यः अर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शरैः सेव्यं संग्राममीयते गच्छति सरथोस्येन्द्रस्य स्वभूतं कामं कमनीयं हरिवन्तं सोमवन्तं यज्ञं आनशे व्याप्नोति ।। ७ ।।

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

८ हरिश्मशारुर्हरितवर्णश्मश्रुः हरिकेशः हरितवर्णकेशः आयसः अयोमयहृदयोस्य शत्रूणां घातक इत्यर्थः एतादृशो य इन्द्रः तुरस्पेये तूर्णं पातव्ये सोमे हरिपाः हरितवर्णसोमपाः अवर्धत वर्धते यश्चार्वद्भिगन्तृभिहरिभिरश्वैः सोमैर्वा वाजिनीवसुः वाजिनमन्नं हविर्लक्षणं तद स्यास्तीति वाजिनी क्रिया सैव वसु धनं यस्य स तथोक्तः यज्ञधन इत्यर्थः । यद्वा वाजिनमेव वाजिनो तदेव धनं यस्य स एवमुक्तलक्षणइन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरिता अस्माकं दुरितानि पारिषत् पारयतु पारयतेर्लेटि सिप्यडागमः ।। ८ ।।

स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥

९ यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथे इन्द्रमारोप्य विपततो यज्ञमस्मदीयं । यद्वा यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः तत्र दृष्टान्तः-स्रुवेव यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेषौ होमार्थं विपततः तद्वत् । तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कंपयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तं अन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्रमर्मृजत् प्रमार्ष्टि तदानीं स्तुत इत्यर्थः ।। ९ ।।

उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।

म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥

१० उतापि च हर्यतस्य कमनीयस्येन्द्रस्य सद्म सदनं पस्त्योः द्यावापृथिव्योः संबन्धि सोय- मत्यो न अश्व इव वाजं संग्रामं हरिवान् अश्ववान् अचिक्रदत् गच्छति । तथा हि यस्मात् हे इन्द्र त्वां मही महती धिषणा स्तुतिरोजसा बलेन युक्तमिन्द्रं अहर्यत्कामयते चिदिति पूरणः अतो वाजमचिक्रदत् तथा सति हे इन्द्र हर्यतः कामयमानस्य यजमानस्य बृहत् महत् वयोन्नं आदधिषे आप्रयच्छसि । चिदिति पूरणः ।। १० ।।

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥

११ हे इन्द्र हर्यमाणः कामयमानो महित्वा महत्वेन रोदसी द्यावापृथिव्यौ आपूरयसीति शेषः । तथा नव्यंनव्यं नवतरं प्रियं प्रियकरं मन्म मननीयं स्तोत्रं नु क्षिप्रं हर्यसि कामयसे हे असुर बलवन् असुः प्राणः तद्वन् मत्वर्थीयोरः तादृशेन्द्र गोः जातावेकवचनं गवां हर्यतं स्पृहणीयं पस्त्यं गृहं गोरुदकस्योक्तगुणकं स्थानं वा हरये उदकस्य हर्त्रे सूर्याय प्र- प्रकर्षेण आविष्कृधि प्रकटीकुरु ।। ११ ।।

आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥

१२ हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यतं यज्ञं कामयमानं प्रयुजो रथे प्रयुक्ताअश्वा रथे स्थापयित्वा जनानां ऋत्विग्यजमानानां अन्तिकं प्रति वहन्तु प्रापयन्तु यथा येन प्रकारेण प्रतिभृतस्य गृहादिषु संवृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिं ओणयोंगुलयः दशभिरंगुलीभिः संपादितं सोमं हर्यन् कामयमानः सन्पिब पिबसि सधमादे संग्रामे ज- यार्थं तथा वहन्त्वित्यर्थः ।। १२ ।।

अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।

म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥

१३ हे इन्द्र त्वं सुतानामभिषुतानां पूर्वेषां प्रातःसवने संपादितानां कर्मणि षष्ठ्यावेते अभिषुतान्प्रातःसवनिकान्सोमानित्यर्थः तानपाः अपिबः हे हरिव इतीन्द्रसंबोधनं हरिभ्यामश्वा- भ्यां तद्वन्यद्वा ऋक्सामात्मकाभ्यां हरिभ्यां युक्त । कक्सामे वा इन्द्रस्य हरी ।ताभ्यामेष हरतीति ब्राह्मणं अथो अपि चेदं माध्यंदिनसवनं केवलं ते तवैवासाधारणं । माध्यंदिनं सवनं केवलं त इति हि मंत्रान्तरं । तस्मिन्हे इन्द्र मधुमन्तं माधुर्योपेतं सोमं ममद्धि पिब आस्वादयेत्यर्थः मदिरत्रा- स्वादनकर्मा पिबन्तु मदन्तु वियंत्विति च मंत्रः । सत्रावृषन् सत्रा शब्दो भूयिष्ठवचनः हे भूयिष्ठं वर्षितरिन्द्र जठरे आवृषस्व आसिंचस्व ।। १३ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९६&oldid=136810" इत्यस्माद् पुनः प्राप्तिः