ऋग्वेदः सूक्तं १०.१५७
← सूक्तं १०.१५६ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५७ भुवन आप्त्यः, साधनो वा भौवनः। |
सूक्तं १०.१५८ → |
दे. विश्वे देवाः। द्विपदा त्रिष्टुप् । |
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥१॥
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥२॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ॥३॥
हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥४॥
प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥५॥
सायणभाष्यम्
‘इमा नु कम्' इति पञ्चर्चं षष्ठं सूक्तमप्त्यपुत्रस्य भुवनस्यार्षं, भुवनपुत्रस्य साधनसंज्ञस्य वा वैश्वदेवम् । सर्वा द्विपदास्त्रिष्टुभः । तथा चानुक्रान्तम्-‘इमा नु कं भुवन आप्त्यः साधनो वा भौवनो वैश्वदेवं द्वैपदं त्रैष्टुभम्' इति । दशरात्रस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवान्निविद्धानात् पूर्वमिदं शंसनीयम् । सूत्रितं च-' आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि ' (आश्व. श्रौ. ८.७ ) इति । षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिनः उक्थ्यशस्त्र आद्यस्तृचः स्तोत्रियः । ततो द्वे अनुरूपार्थे । सूत्रितं च--- ब्राह्मणाच्छंसिन इमा नु कं भुवना सीषधामेति पञ्च' (आश्व. श्रौ. ८. ३) इति ॥
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥१
इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥१
इमा। नु । कम् । भुव॑ना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ।। १ ।।
“इमा इमानि प्रदृश्यमानानि “भुवना भुवनानि “नु क्षिप्रं सीषधाम साधयामः वशीकुर्मः । “कम् इति पूरकः । यद्वा । इमानि सर्वाणि भूतजातान्यस्मभ्यं कं सुखं सीषधाम । साधयन्तु । पुरुषव्यत्ययः। “इन्द्रश्च “विश्वे सर्वे अन्ये “देवाः “च स्तुत्या प्रीता इममर्थं साधयन्तु ॥
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥२
य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥२
यज्ञम् । च । नः । तन्वम् । च । प्रऽजाम् । च । आदित्यैः । इन्द्रः । सह । चीक्लृपाति ।।२।।
“नः अस्माकं यज्ञं ज्योतिष्टोमादिकं यागं “तन्वं शरीरं “च “प्रजां पुत्रादिकां च “आदित्यैः अदितिपुत्रैरन्यैर्देवैः “सह वर्तमानः “इन्द्रः “चीक्लृपाति कल्पयतु । यज्ञादिकं स्वव्यापारसमर्थं करोतु ॥
आ॒दि॒त्यैरिन्द्र॒ः सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥३
आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥३
आदित्यैः । इन्द्रः । सऽगणः । मरुत्ऽभिः । अस्माकम् । भूतु । अविता । तनूनाम् ॥ ३ ॥
“आदित्यैः अदितिपुत्रैर्मित्रादिभिः “मरुद्भिः च “सगणः सहितः इन्द्रः अस्माकं तनूनां शरीराणां तनयानां वा अविता "भूतु रक्षिता भवतु ॥
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥४
ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥४
हत्वाय । देवाः । असुरान् । यत् । आयन् । देवाः । देवऽत्वम् । अभिऽरक्षमाणाः ।।४।।
“देवाः इन्द्रादयः “असुरान् क्षेप्तॄन् वृत्रादीन् “हत्वाय हत्वा विनाश्य यत् यदा “आयन आगच्छन् स्वकीयॆ स्थानॆ प्राप्नुवन् तदानीं ते "देवाः देवत्वम् आत्मीयममृतत्वम् “अभिरक्षमाणाः अभितः सर्वतो रक्षन्तोऽभूवन् । बाधकाभावात् सर्वत्र प्रख्यापितवन्त इत्यर्थः ॥
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥५
प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥५
प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥५॥
“शचीभिः कर्मभिः परिचरणात्मकैः सार्धम् “अर्कम् अर्चनसाधनं स्तोत्रं “प्रत्यञ्चम् इन्द्रादीन् प्रत्यञ्चत् “अनयन् स्तोतारः प्रापयन् । यदैवम् “आदित् अनन्तरमेव “इषिरां गमनशीलं “स्वधां वृष्ट्युदकं “पर्यपश्यन् सर्वे जनाः परितः पश्यन्ति । यद्वा । इषिरामेषणीयां स्वधाम् । अन्ननामैतत् । हविर्लक्षणमन्नं सर्वे देवाः परिपश्यन्ति ॥ ॥ १५ ॥
टिप्पणी
१०.१५७.१ इमा नु कं भुवनमिति
दशरात्रे अष्टममहः -- इमा नु कं भुवना सीषधामेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति - ऐ.ब्रा. ५.१९
द्वितीयः छन्दोमः -- इमा नु कम् भुवना सीषधाम इति द्विपदाः । इन्द्रश् च विश्वे च देवा इत्य् अभ्यारब्धवत् । - कौ.ब्रा. २६.१३
अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत इति द्विपाद् वै पुरुषः द्विप्रतिष्ठः पुरुषः पुरुषो वै यज्ञस् तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः - गो.ब्रा. २.६.१२
वायुपुराण १.२३.८१ अनुसारेण सरस्वती चतुष्पादा अस्ति, सावित्री द्विपादा - यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी। दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी। नारदपुराणानुसारेण १.६३.१३ - भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ।।
ब्राह्मणाच्छंसिनः उक्थानि -- इमा नु कमिति स्तोत्रियः । उत्तरे चाया वाजमिति (६.१७.१५ ) तृतीयानुरूपस्य - शांश्रौ.सू. १२.१२.१४
भद्रं-श्रेयः (आरण्यकगानम्)
भारद्वाजम् (ग्रामगेयः)
मण्डल १० | ||||
---|---|---|---|---|