सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१८
संकुसुको यामायनः@
सूक्तं १०.१९ →
दे. १-.४ मृत्युः, ५ धाता, ६ त्वष्टा, ७-१४ पितृमेधः, १४ प्रजापतिर्वा। त्रिष्टुप्, ११ प्रस्तारपङ्क्तिः, १३ जगती, १४ अनुष्टुप्


परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥१॥
मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः ।
आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥२॥
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥३॥
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥४॥
यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु ।
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥५॥
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ ।
इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥६॥
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥७॥
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥८॥
धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय ।
अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम ॥९॥
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात् ॥१०॥
उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥११॥
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥१२॥
उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् ।
एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥१३॥
प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥१४॥

सायणभाष्यम्

‘परं मृत्यो ' इति चतुर्दशर्चं द्वितीयं सूक्तं यमपुत्रस्य संकुसुकस्यार्षम् । एकादशी प्रस्तारपक्तिः । आद्यौ जागतौ ततो द्वौ गायत्रौ । ‘प्रस्तारपक्तिः पुरतः ' ( पि. सू. ३. ४१ ) इति । त्रयोदशी जगती चतुर्दश्यनुष्टुप् । शिष्टास्त्रिष्टुभः । तत्रादौ चतस्रो मृत्युदेवत्याः । पञ्चमी धातृदेवताका । षष्ठी त्वष्टृदेवत्या । सप्तम्याद्याः शिष्टाः पितृमेधाभिधायिन्यः । अतस्तद्देवताकाः । अन्त्या त्वनिरुक्तत्वात प्राजापत्या वा । तथा चानुक्रान्तं -- परं मृत्यो संकुसुकश्चतस्रो मृत्युदेवताः परा धात्री परा त्वाष्ट्री पराः पितृमेधा एकादशी प्रस्तारपङ्क्तिर्जगत्युपान्त्यान्त्यानुष्टुप् प्राजापत्या वा सानिरुक्ता ' इति ॥


परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।

चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥१

पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् ।

चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥१

परम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् ।

चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥१

हे "मृत्यो सर्वेषां मारकैतन्नामक देव "परम् अन्यं "पन्थां पन्थानम् "अनु आनुपूर्व्येण “परेहि पराङ्मुखो गच्छ। यजमानादिति शेषः । कोऽसौ पन्थाः । "ते तव "स्वः स्वभूतः "देवयानात् । देवा अनेन मार्गेण गच्छन्तीति देवयानो देवमार्गः। तस्मात् "इतरः यः पन्थाः तं प्रगच्छ । न केवलमतः परागच्छ अपि तु "चक्षुष्मते दर्शनवते “शृण्वते सर्वम् । अप्रतिहतसर्वेन्द्रियविज्ञानायेत्यर्थः । "ते तुभ्यं "ब्रवीमि कथयामि । “नः अस्माकं "प्रजां दुहितृदौहित्रात्मिकां “मा "रिरिषः मा हिंसीः । “उत अपि च "वीरान् पुत्रपौत्रादीन् "मा हिंसीः । तत्परागमनेन रक्षेत्यर्थः ॥


मृ॒त्योः प॒दं यो॒पयं॑तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।

आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥२

मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ।

आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥२

मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ।

आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥२

हे मृतस्य ज्ञातयः "मृत्योः परागच्छतः तस्य "पदम् । पद्यतेऽस्मिन्निति पदं पितृयाणः । तं “योपयन्तः विमोहयन्तः परिवर्जयन्तः "यत् यस्मात् “ऐत देवयानीयपथा गतवन्तः तस्मात् “द्राघीयः दीर्घतरम् “आयुः जीवनं “प्रतरं प्रकृष्टतरमत्यर्थं "दधानाः धारयन्तो भवथ। किंच हे "यज्ञियासः यज्ञार्हा यज्ञसंपादिनो यजमानाः "प्रजया पुत्रपौत्रादिकया “धनेन गवाश्वादिकेन च “आप्यायमानाः वर्धमानाः सन्तः शुद्धाः जन्मान्तरसंचितदुरितक्षयात् शुद्धाः "भवत । “पूताः वर्तमानजन्मोपचितदुरितक्षयाच्च पूता भवत ॥


पैतृमेधिके कर्मणि अमात्याः ‘इमे जीवा वि मृतैः' इति सव्यावृतो व्रजन्ति । सूत्रितं च’इमे जीवा वि मृतैरिति सव्यावृतो व्रजन्ति' (आश्व. गृ. ४. ४. ९) इति ॥

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।

प्रांचो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥३

इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य ।

प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥३

इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य ।

प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥३

“इमे “जीवाः जीवन्तः पुरुषाः "मृतैः पित्रादिभिः । तेभ्य इत्यर्थः । “वि “आ “अववृत्रन् व्यावृत्ता भवन्तु । एते न म्रियन्तामिति भावः । किंच "अद्य अस्मिन् दिने "नः अस्माकमशौचे विसृष्टे "देवहूतिः देवानामाह्वानं यत्र स देवहूतिः पितृमेधाख्यो यज्ञः "भद्रा कल्याणः "अभूत् भवतु । तत उत्तरं वयं "प्राञ्चः प्राङ्मुखाञ्चनाः "अगाम गच्छेम । प्रत्यञ्च इति भावः। "नृतये नर्तनाय कर्मणि गात्रविक्षेपाय । स्वकर्मानुष्ठानायेति भावः। "हसाय हसनाय पुत्रादिभिः सह क्रीडनाय । कीदृशा वयम्। "द्राघीय "आयुः "प्रतरं "दधानाः ॥


इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तं ।

श॒तं जी॑वंतु श॒रदः॑ पुरू॒चीरं॒तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥४

इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् ।

श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥४

इमम् । जीवेभ्यः । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् ।

शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥४

अनया जीवरक्षार्थं पाषाणं परिधिरूपेण स्थापयन्ति । "जीवेभ्यः जीवद्भ्यः पुत्रपौत्रादिभ्यस्तेषां रक्षणार्थमेवं "परिधिं मृत्योः परिधानभूतं पाषाणं "दधामि निदधामि । ततः "एषां जीवतां मध्ये “अपरः अन्यः “एतम् इमम् "अर्थम् । अर्तेरिदं रूपम् । गन्तव्यं मरणाख्यं मार्गं "नु क्षिप्रं "मा “गात् मा गच्छतु । एतदर्थं परिधिं स्थापयामीति संबन्धः। किंच "पुरूचीः बह्वञ्चना बहुगमनाः "शतं “शरदः एतत्संख्याकान् वर्षान् "जीवन्तु स्वस्वप्राणान् धारयन्तु । तथा "पर्वतेन शिलोच्चयेन "मृत्युं सर्वेषां मारकमेतन्नामकम् "अन्तः दधताम् अन्तर्हितं कुर्वन्तु । यथा नागच्छति तथा कुर्वतामित्यर्थः॥


यथाहा॑न्यनुपू॒र्वं भवं॑ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यंति॑ सा॒धु ।

यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषां ॥५

यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तवः॑ । ऋ॒तुऽभिः॑ । यन्ति॑ । सा॒धु ।

यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒तः॒ । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥५

यथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुऽभिः । यन्ति । साधु ।

यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥५

“यथा येन प्रकारेण "अहानि अहोरात्रात्मकानि दिनानि "अनुपूर्वं पूर्वपूर्वमनुक्रमेण "भवन्ति परिवर्तन्ते । "यथा च “ऋतवः वसन्तादयः “ऋतुभिः सह "साधु शोभनमविपर्यासेन "यन्ति गच्छन्ति । "यथा च “पूर्वं पूर्वकालीनं पितरम् "अपरः अर्वाक्कालीनः पुत्रः "न "जहाति न परित्यजति पूर्वमरणेन । “एव "एवं तेनैवोक्तप्रकारेण हे “धातः[] सर्वेषां धारयितरेतन्नामक देव “एषाम् अस्मत्कुलीनानां जीवानाम् "आयूंषि जीवनानि “कल्पय समर्थय। कुर्वित्यर्थः ॥ ॥ २६ ॥


आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ ।

इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥६

आ । रो॒ह॒त॒ । आयुः॑ । ज॒रस॑म् । वृ॒णा॒नाः । अ॒नु॒ऽपू॒र्वम् । यत॑मानाः । यति॑ । स्थ ।

इ॒ह । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषाः॑ । दी॒र्घम् । आयुः॑ । क॒र॒ति॒ । जी॒वसे॑ । वः॒ ॥६

आ । रोहत । आयुः । जरसम् । वृणानाः । अनुऽपूर्वम् । यतमानाः । यति । स्थ ।

इह । त्वष्टा । सुऽजनिमा । सऽजोषाः । दीर्घम् । आयुः । करति । जीवसे । वः ॥६

हे मृतस्य स्वजनाः पुत्रपौत्रादयः "जरसं जरां "वृणानाः संभजमाना यूयम् "आयुः जीवनम् “आ “रोहत अधितिष्ठत । “अनुपूर्वम् आनुपूर्व्येण । अव्ययीभावः । पूर्वो ज्येष्ठः । ज्येष्ठानुपूर्व्या “यतमानाः प्रयत्नं कुर्वन्तो यूयं "यति “स्थ यत्संख्याका भवथ । यच्छब्दाच्छान्दसो डतिः । “सुजनिमा शोभनजननः “त्वष्टा एतन्नामको देवः "सजोषाः भवद्भिः संगतः सन् "इह अस्मिन् कर्मणि प्रवृत्तानां “वः युष्माकं “जीवसे जीवनाय “दीर्घं प्रभूतम् “आयुः "करति करोतु ॥


इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒रांज॑नेन स॒र्पिषा॒ सं वि॑शंतु ।

अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हंतु॒ जन॑यो॒ योनि॒मग्रे॑ ॥७

इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ ।

अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥७

इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम् । विशन्तु ।

अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥७

“अविधवाः । धवः पतिः । अविगतपतिकाः । जीवद्भर्तृका इत्यर्थः । "सुपत्नीः शोभनपतिकाः "इमाः "नारीः नार्यः "आञ्जनेन सर्वतोऽञ्जनसाधनेन "सर्पिषा घृतेन अक्तनेत्राः सत्यः “सं "विशन्तु स्वगृहान् प्रविशन्तु । तथा “अनश्रवः अश्रुवर्जिता अरुदत्यः "अनमीवाः । अमीवा रोगः। तद्वर्जिताः। मानसदुःखवर्जिता इत्यर्थः। "सुरत्नाः शोभनधनसहिताः "जनयः। जनयन्त्यपत्यमिति जनयो भार्याः । ताः "अग्रे सर्वेषां प्रथमत एव “योनिं गृहम् “आ “रोहन्तु आगच्छन्तु ॥


देवारादिकः प्रेतपत्नीम् ‘उदीर्ष्व नारि ' इत्यनया भर्तृसकाशादुत्थापयेत् । सूत्रितं च--- ‘तामुत्थापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्व नार्यभि जीवलोकम्' (आश्व. गृ. ४. २.१८) इति ॥

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।

ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥८

उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ ।

ह॒स्त॒ऽग्रा॒भस्य॑ । दि॒धि॒षोः । तव॑ । इ॒दम् । पत्युः॑ । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥८

उत् । ईर्ष्व । नारि । अभि । जीवऽलोकम् । गतऽअसुम् । एतम् । उप । शेषे । आ । इहि ।

हस्तऽग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनिऽत्वम् । अभि । सम् । बभूथ ॥८

हे "नारि मृतस्य पत्नि "जीवलोकं जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहमभिलक्ष्य "उदीर्ष्व अस्मात् स्थानादुत्तिष्ठ। ईर गतौ' आदादिकः । "गतासुम् अपक्रान्तप्राणम् "एतं पतिम् "उप “शेषे तस्य समीपे स्वपिषि । तस्मात्त्वम् “एहि आगच्छ यस्मात्त्वं "हस्तग्राभस्य पाणिग्राहं कुर्वतः “दिधिषोः गर्भस्य निधातुः "तव अस्य “पत्युः संबन्धादागतम् “इदं "जनित्वं जायात्वमभिलक्ष्य “सं “बभूथ संभूतासि अनुमरणनिश्चयमकार्षीः तस्मादागच्छ ॥


क्षत्रियस्य ‘धनुर्हस्तात्' इत्यनया धनुः प्रहरेत् । सूत्रितं च---‘धनुर्हस्तादाददानो मृतस्येति धनुः' (आश्व. गृ. ४.२.२०) इति ।

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।

अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥९

धनुः॑ । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒त्राय॑ । वर्च॑से । बला॑य ।

अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीराः॑ । विश्वाः॑ । स्पृधः॑ । अ॒भिऽमा॑तीः । ज॒ये॒म॒ ॥९

धनुः । हस्तात् । आऽददानः । मृतस्य । अस्मे इति । क्षत्राय । वर्चसे । बलाय ।

अत्र । एव । त्वम् । इह । वयम् । सुऽवीराः । विश्वाः । स्पृधः । अभिऽमातीः । जयेम ॥९

“मृतस्य क्षत्रियस्य “हस्तात् "धनुः “आददानः । किमर्थम् । "अस्मे अस्माकं "क्षत्राय प्रजापालनसमर्थाय बलाय “वर्चसे तेजसे “बलाय सेनालक्षणाय च धनुराददानोऽहं ब्रवीमीति शेषः। किमिति । “त्वम् "अत्रैव अस्मिन् स्थान एव भव “वयं च “इह अस्मिँल्लोके "सुवीराः सुपुत्रयुक्ता भवन्तः "विश्वाः सर्वान् अभिमातीः अभिमन्यमानान् "स्पृधः संघर्षयितॄन् बाधकान् शत्रून् “जयेम सहेमहि ॥


दीक्षितमरणे उप सर्प मातरम्' इत्याद्याश्चतस्रः शंसनीयाः । सूत्रितं च- उप सर्प मातरं भूमिमेतामिति चतस्रः सोम एकेभ्यः' ( आश्व. श्रौ. ६. १०) इति । 'उप सर्प' इत्यनया संचितान्यस्थीनि गते निदध्युः (आश्व. गृ. ४, ५, ५)॥

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां॑ ।

ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निर्ऋ॑तेरु॒पस्था॑त् ॥१०

उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् ।

ऊर्ण॑ऽम्रदाः । यु॒व॒तिः । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् ॥१०

उप । सर्प । मातरम् । भूमिम् । एताम् । उरुऽव्यचसम् । पृथिवीम् । सुऽशेवाम् ।

ऊर्णऽम्रदाः । युवतिः । दक्षिणाऽवते । एषा । त्वा । पातु । निःऽऋतेः । उपऽस्थात् ॥१०

“मातरं मातृभूतां "भूमिम् अस्माभिर्भूमौ निधीयमानस्त्वम् "उप "सर्प उपगच्छ । अनुप्रविशेत्यर्थः । कीदृशीम् । "उरुव्यचसं बहुव्याप्तिकां “पृथिवीं विस्तीर्णां "सुशेवां सुसुखाम्। सर्वेषां सुखदात्रीमित्यर्थः। तामुपगच्छ । "युवतिः यौवनान्विता स्त्रीरूपेयं भूमिः "दक्षिणावते ऋत्विग्भ्यो देयत्वेन धनवते यजमानाय “ऊर्णम्रदाः । ऊर्णेव ऊर्जास्तुक इव मृद्वी भवति । सुकुमारा भवति । न बाधयित्रीत्यर्थः । स "एषा पृथिवी “निर्ऋतेः मृत्युदेवतायाः "उपस्थात् समीपस्थानात् “त्वा त्वामस्थिरूपं यजमानं "पातु रक्षतु ॥ ॥ २७ ॥


‘उच्छ्वञ्चस्व' इत्येतया पांसूनवकिरेत् । सूत्र्यते हि- उत्तरया पासूनवकिरेत्' ( आश्व. गृ. ४. ५. ६) इति ॥

उच्छ्वं॑चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवंच॒ना ।

मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥११

उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । बा॒ध॒थाः॒ । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒व॒ञ्च॒ना ।

मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥११

उत् । श्वञ्चस्व । पृथिवि । मा । नि । बाधथाः । सुऽउपायना । अस्मै । भव । सुऽउपवञ्चना ।

माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥११

हे पृथिवि “उच्छ्वञ्चस्व । ऊर्ध्वंगतोच्छ्वासमेनं कुरु । अधस्तान्मा कृथा इत्यर्थः । किंच “मा “नि “बाधथाः मा संपीडय । तथा “अस्मै यजमानार्थं सूपायना शोभनोपगमना सूपचारिका भवेत्यर्थः । “सूपवञ्चना। उपवञ्चनं प्रलम्भनम् । शोभनप्रलम्भा सुप्रतिष्ठा “भव । अपि च "माता “पुत्रम् आत्मीयं बालकं “सिचा वस्त्रान्तेन "यथा आच्छादयति तद्वद्धे भूमि “एनम् अस्थिरूपं यजमानं त्वम् “अभि “ऊर्णुहि आभिमुख्येनाच्छादय ॥


उ॒च्छ्वंच॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रयं॑तां ।

ते गृ॒हासो॑ घृत॒श्चुतो॑ भवंतु वि॒श्वाहा॑स्मै शर॒णाः सं॒त्वत्र॑ ॥१२

उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् ।

ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥१२

उत्ऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् ।

ते । गृहासः । घृतऽश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥१२

पांसुभिः प्रच्छाद्यैनां पठन्ति । "उच्छ्वञ्चमाना अस्थिकुम्भमवष्टभ्योर्ध्वं गच्छन्ती “पृथिवी "सु “तिष्ठतु प्रतिष्ठिता भवतु । किंच “सहस्रं सहस्रसंख्याकाः “मितः प्रक्षिप्ताः ॥ मिनोतेरौणादिके कर्मणि क्विपि तुगागमः । ततो जस् । यद्वा । सहस्रम् । तृतीयार्थे प्रथमा । मित इति निष्ठान्तं रूपम् । व्यत्ययेन बहुवचनस्यैकवचनम् । स्वरो वृषादित्वाद्द्रष्टव्यः ॥ सहस्रेण संमिता बहुसंख्याकाः । पार्थिवाः पांसवः “उप “श्रयन्ताम् । एनमुपसेवन्ताम् । संपरिवार्यं तिष्ठन्त्वित्यर्थः । हिरवधारणे । तथा “ते पांसवोऽस्मै “गृहासः गृहा भवन्तः “घृतश्चुतः घृतस्योदकस्य सर्पिषो वा क्षारयितारः “भवन्तु । “अत्र अस्मिँल्लोके “विश्वाहा सर्वेष्वहःसु सर्वदा “अस्मै अस्य “शरणाः “सन्तु आश्रयभूता भवन्तु ॥


‘उत्तै स्तभ्नामि' इति कपालेनास्थीन्यपिदध्यात्। सूत्रितं च- उत्ते स्तभ्नामीति कपालेनापिधाय' (आश्व. गृ. ४. ५. ८) इति ॥

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षं ।

ए॒तां स्थूणां॑ पि॒तरो॑ धारयंतु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥१३

उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् ।

ए॒ताम् । स्थूणा॑म् । पि॒तरः॑ । धा॒र॒य॒न्तु॒ । ते॒ । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒नो॒तु॒ ॥१३

उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निऽदधत् । मो इति । अहम् । रिषम् ।

एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु ॥१३

हे अस्थिकुम्भ “त्वत्परि । परिशब्दयोगे पञ्चमी । तवोपरि “ते त्वदीयेन कपालेन “पृथिवीम् “उत् “स्तभ्नामि प्रतिबध्नामि । यथा पृथिवी तवोपरि मा गच्छति तथापिदधामीत्यर्थः। “इमं “लोग कपाललक्षणं लोष्टं “निदधत् उपरि स्थापयन् “अहं “मो “रिषं मा हिंसिषम्। किंच “एतां मया निहितां “स्थूणां “ते त्वदीयां पृथिव्या धारयित्रीं कपाललक्षणां “पितरः “धारयन्तु निश्चलां कुर्वन्तु । ततः "ते त्वदीये अस्मिन् स्थाने “यमः पितृपतिः सदनानि स्थानानि “मिनोतु परिच्छिनत्तु । करोत्वित्यर्थः ।।


प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः ।

प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥१४

प्र॒ती॒चीने॑ । माम् । अह॑नि । इष्वाः॑ । प॒र्णम्ऽइ॑व । आ । द॒धुः॒ ।

प्र॒तीची॑म् । ज॒ग्र॒भ॒ । वाच॑म् । अश्व॑म् । र॒श॒नया॑ । य॒था॒ ॥१४

प्रतीचीने । माम् । अहनि । इष्वाः । पर्णम्ऽइव । आ । दधुः ।

प्रतीचीम् । जग्रभ । वाचम् । अश्वम् । रशनया । यथा ॥१४

अनया प्रजापतिः प्रार्थ्यते । हे प्रजापते प्रतीचीने प्रतिपूज्ये अहनि तदुपलक्षिते संवत्सरात्मके मां संकुसुकमृषिं आ दधुः निहितवंतः सर्वे देवाः । किमिव । इष्वाः बाणस्य पर्णमिव पक्षमिव । पक्षं यथा बाणस्य मूले स्थापयंति तद्वज्जगन्मूले त्वयि मां स्थापितवंतः । अतो मदीयां प्रतीचीं प्रतिपूज्यां वाचं स्तुतिरूपां जग्रभ गृहाण । कथमित्युच्यते । अश्वं आशुगामिनं हयं रशनया रज्ज्वा यथा गृह्णंति तद्वत्कर्णाभ्यां मत्कृतां स्तुतिं गृहाणेत्यर्थः ।

यत्तु प्रच्यावयन्नेति घोषेण महता मृतम् । तेन मृत्युमिमं सन्तं स्तौति मृत्युरिति स्वयम् ।। २.६० ।।

नाम्ना संकुसुको नाम यमपुत्रो जघन्यजः । संवर्तयंस्तमः सूर्याद् उषसं च प्रवर्तयन् ।। बृहद्देवता २.६१ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

  1. धाता उपरि संक्षिप्त टिप्पणी
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८&oldid=353436" इत्यस्माद् प्रतिप्राप्तम्