ऋग्वेदः सूक्तं १०.१२५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१२५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२५
वागाम्भृणी
सूक्तं १०.१२६ →
दे. आत्मा। त्रिष्टुप्, २ जगती
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१


अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥६॥
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥८॥

[सम्पाद्यताम्]

सायणभाष्यम्

‘अहम्' इत्यष्टर्चं त्रयोदशं सूक्तम् । अम्भृणस्य महर्षेर्दुहिता वाङ्नाम्नी ब्रह्मविदुषी स्वात्मानमस्तोत् । अतः सर्षिः । सच्चित्सुखात्मकः सर्वंगतः परमात्मा देवता । तेन ह्येषा तादात्म्यमनुभवन्ती सर्वजगद्रूपेण सर्वस्याधिष्ठानत्वेन चाहमेव सर्वं भवामीति स्वात्मानं स्तौति । द्वितीया जगती शिष्टाः सप्त त्रिष्टुभः । तथा चानुक्रान्तम्- अहमष्टौ वागाम्भृणी तुष्टावात्मानं द्वितीया जगती' इति । गतो विनियोगः ॥


अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥

अहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत। विश्वऽदेवैः ।

अहम्। मित्रावरुणा । उभा । बिभर्भि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥ १ ॥

“अहं सूक्तस्य द्रष्ट्री वागाम्भृणी यद्ब्रह्म जगत्कारणं तद्रूपा भवन्ती "रुद्रेभिः रुद्रैरेकादशभिः । इत्थंभावे तृतीया । तदात्मना “चरामि । एवं “वसुभिः इत्यादौ तत्तदात्मना चरामति योज्यम् । तथा “मित्रावरुणा मित्रं च वरुणं च ॥ ‘ सुपां सुलुक्' इति द्वितीयाया आकारः ॥ "उभा उभौ अहम् एव ब्रह्मीभूता “बिभर्मि धारयामि। “इन्द्राग्नी अपि “अहम् एव धारयामि । “उभा उभौ “अश्विना अश्विनावपि “अहम् एव धारयामि। मयि हि सर्वं जगच्छुक्तौ रजतमिवाध्यस्तं सद्दृश्यते । माया सच जगदाकारेण विवर्तते । तादृश्या मायाया आधारत्वेनासङ्गस्यापि ब्रह्मण उक्तस्य सर्वस्योत्पतिः ॥


अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् ।

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥

अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् ।

अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ।। २ ।।

“आहनसम् आहन्तव्यमभिषोतव्यं “सोमं यद्वा शत्रूणामाहन्तारं दिवि वर्तमानं देवतात्मानं सोमम् “अहम् एव बिभर्मि । तथा “त्वष्टारम् "उत अपि च “पूषणं “भगं च "अहम् एव बिभर्मि । तथा “हविष्मते हविर्भिर्युक्ताय “सुप्राव्ये शोभनं हविर्देवानां प्रापयित्रे तर्पयित्रे ॥ अवतेस्तर्पणार्थात् 'अवितॄस्तृतन्त्रिभ्य ईः' (उ. सू. ३. १५८) इतीकारप्रत्ययः । चतुर्थ्येकवचने यणि ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति सुपः स्वरितत्वम् ॥ “सुन्वते सोमाभिषवं कुर्वते ॥ ‘ शतुरनुम: इति चतुर्थ्या उदात्तत्वम् ॥ ईदृशाय “यजमानाय “द्रविण धनं यागफलरूपम् “अहम् एव “दधामि धारयामि । एतच्च ब्रह्मणः फलदातृत्वं फलमत उपपत्तेः ' ( वे. सू. ३. २. ३८) इत्यधिकरणे भगवता भाष्यकारेण समर्थितम् ॥


अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।

तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥

अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् ।।

ताम् । मा। देवाः । वि । अदधुः । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्तीम् ॥३॥

“अहं राष्ट्री। ईश्वरनामैतत् । सर्वस्य जगत ईश्वरी । तथा “वसूनां धनानां “संगमनी संगमयित्र्युपासकानां प्रापयित्री । “चिकितुषी यत्साक्षात्कर्तव्यं परं ब्रह्म तज्ज्ञातवती स्वात्मतया साक्षात्कृतवती। अत एव "यज्ञियानां यज्ञार्हाणां “प्रथमा मुख्या। य एवंगुणविशिष्टाहं “तां मां “भूरिस्थात्रां बहुभावेन प्रपञ्चात्मनावतिष्ठमानां “भूरि भूरीणि बहूनि भूतजातानि “आवेशयन्तीं जीवभावेनात्मानं प्रवेशयन्तीमीदृशीं मां “पुरुत्रा बहुषु देशेषु “व्यदधुः "देवाः विदधति कुर्वन्ति । उक्तप्रकारेण वैश्वरूप्येणावस्थानात्। यद्यत्कुर्वन्ति तत्सर्वं मामेव कुर्वन्तीत्यर्थः ।


मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥

मया । सः । अन्नम् । अत्ति । यः । विऽपश्यति। यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् ।

अमन्तवः । माम् । ते। उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिऽवम् । ते । वदामि ॥ ४ ॥

"यः “अन्नमत्ति “सः भोक्तृशक्तिरूपया “मया एवान्नमत्ति । “यः च “विपश्यति । आलोकयतीत्यर्थः । “यः च “प्राणिति श्वासोच्छ्वासरूपं व्यापारं करोति सोऽपि मयैव । यश्च “उक्तं “शृणोति॥ ‘ श्रु श्रवणे । श्रुवः शृ च' इति श्रुप्रत्ययः । धातोः शृभावः ॥ य ईदृशीमन्तर्यामिरूपेण स्थितां “मां न जानन्ति “ते "अमन्तवः अमन्यमाना अजानन्तः “उप “क्षियन्ति । उपक्षीणाः संसारेण हीना भवन्ति ॥ मनेरौणादिकस्तुप्रत्ययः । नञ्समासे व्यत्ययेनान्तोदात्तत्वम् । यद्वा । भावे तुप्रत्ययः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । माममन्तवो मद्विषयज्ञानरहिता इत्यर्थः ॥ हे “श्रुत विश्रुत सखे “श्रुधि । मया वक्ष्यमाणं शृणु। छान्दसो विकरणस्य लुक् । ' श्रुशृणुपॄकृवृभ्यः” इति हेर्धिभावः । किं तच्छ्रोतव्यम् । “श्रद्धिवम् । श्रद्धिः श्रद्धा । तया युक्तम् । श्रद्धायत्नेन लभ्यमित्यर्थः। श्रदन्तरोरुपसर्गवद्वृत्तिरिष्यते (पा.सू. १. ४.५७.२ ) इति श्रच्छब्दस्योपसर्गवद्वर्तमानत्वात् उपसर्गे घोः किः' इति किप्रत्ययः । मत्वर्थीयो वः ॥ ईदृशं ब्रह्मात्मकं वस्तु “ते तुभ्यं वदामि उपदिशामि ।।


अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥

अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः ।

यम् । कामये। तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम्। तम् । सुऽमेधाम् ॥५॥

“अहं “स्वयम् “एव “इदं वस्तु ब्रह्मात्मकं “वदामि उपदिशामि। "देवेभिः देवैरिन्द्रादिभिरपि “जुष्टं सेवितम् । "उत अपि च "मानुषेभिः मनुष्यैरपि जुष्टम् । ईदग्वस्त्वात्मिकाहं “यं “कामये यं पुरुषं रक्षितुमहं वाञ्छामि “तंतं पुरुषम् “उग्रं कृणोमि । सर्वेभ्योऽधिकं करोमि। “तम् एव “ब्रह्माणं स्रष्टारं करोमि । “तम् एव “ऋषिम् अतीन्द्रियार्थदर्शिनं करोमि। “तम् एव “सुमेधां शोभनप्रज्ञं च करोमि ॥ ॥ ११ ॥


अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।

अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥

अहम् । रुद्राय । धनुः । आ । तनोमि। ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊँ इति ।

अहम् । जनय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ।। ६ ॥

पुरा त्रिपुरविजयसमये "रुद्राय रुद्रस्य । षष्ठ्यर्थे चतुर्थी । महादेवस्य “धनुः चापम् “अहम् “आ “तनोमि । ज्ययाततं करोमि । किमर्थम् । “ब्रह्मद्विषे ब्राह्मणानां द्वेष्टारं “शरवे शरुं हिंसकं त्रिपुरनिवासिनमसुरं “हन्तवै हन्तुं हिंसितुम् ॥ हन्तेः तुमर्थे सेसेन्” (पा. सू. ३.४.९ ) इति तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत्' (पा. सू. ६. १. २०० ) इत्याद्यन्तयोर्युगपदुदात्तत्वम्। “शॄ हिंसायाम्' इत्यस्मात् ' शॄस्वृस्निहि इत्यादिना उप्रत्ययः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ उशब्दः पूरकः । “अहम् एव “समदम् । समानं माद्यन्त्यस्मिन्निति समत्संग्रामः । स्तोतृजनार्थं शत्रुभिः सह संग्राममहमेव “कृणोमि करोमि । तथा “द्यावापृथिवी दिवं च पृथिवीं चान्तर्यामितया “अहम् एव “आ “विवेश प्रविष्टवती ॥


अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे ।

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥

अहम् । सुवे। पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्ऽसु । अन्तरिति । समुद्रे ।

ततः । वि। तिष्ठे। भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ।।७।।

' द्यौः पिता' ( तै. ब्रा. ३.७.५.४) इति श्रुतेः पिता द्यौः । “पितरं दिवम् “अहं “सुवे प्रसुवे जनयामि। ‘आत्मन आकाशः संभूतः ' (तै. आ. ८. १) इति श्रुतेः । कुत्रेति तदाह। “अस्य परमात्मनः “मूर्धन् मूर्धन्युपरि । कारणभूते तस्मिन् हि वियदादिकार्यजातं सर्वं वर्तते तन्तुषु पट इव। “मम च “योनिः कारणं "समुद्रे । समुद्भवन्त्यस्माद्भूतजातानीति समुद्रः परमात्मा । तस्मिन् “अप्सु व्यापनशीलासु धीवृत्तिषु “अन्तः मध्ये यद्ब्रह्म चैतन्यं तन्मम कारणमित्यर्थः । यत ईदृग्भूता अहमस्मि “ततः हेतोः “विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि “अनु प्रविश्य "वि “तिष्ठे। विविधं व्याप्य तिष्ठामि ॥ ' समवप्रविभ्यः स्थः' ( पा. सू. १.३.२२) इत्यात्मनेपदम् ॥ “उत अपि च “अमूं “द्यां विप्रकृष्टदेशेऽवस्थितं स्वर्गलोकम् । उपलक्षणमेतत् । एतदुपलक्षितं कृत्स्नं विकारजातं “वर्ष्मणा कारणभूतेन मायात्मकेन मदीयेन देहेन “उप स्पृशामि। यद्वा । अस्य भूलोकस्य मूर्धन् मुर्धन्युपर्यहं पितरमाकाशं सुवे। समुदे जलधावप्सूदकेष्वन्तर्मध्ये मम योनिः कारणभूतोऽम्भृणाख्य ऋषिर्वर्तते । यद्वा । समुद्रेऽन्तरिक्षेऽप्स्वम्मयेषु देवशरीरेषु मम कारणभूतं ब्रह्म चैतन्यं वर्तते । ततोऽहं कारणात्मिका सती सर्वांणि भुवनानि व्याप्नोमि । अन्यत्समानम् ॥


अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥

अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा। भुवनानि । विश्वा ।

परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥ ८ ॥

“विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि कार्याणि “आरभमाणा कारणरूपेणोत्पादयन्ती "अहमेव परेणानधिष्ठिता स्वयमेव “प्र “वामि प्रवर्ते । “वातइव यथा वातः परेणाप्रेरितः सन् स्वेच्छयैव प्रवाति तद्वत् । उक्तं सर्वं निगमयति । “परो “दिवा । पर इति सकारान्तं परस्तादित्यर्थे वर्तते यथा अध इत्यधस्तादर्थे । तद्योगे च तृतीया सर्वत्र दृश्यते। दिव आकाशस्य परस्तात् । “एना “पृथिव्या ॥ ‘ द्वितीयाटौः स्वेनः' (पा. सू. २, ४, ३४ ) इतीदम एनादेशः । अस्याः पृथिव्याः "परः परस्तात् । द्यावापृथिव्योरुपादानमुपलक्षणम् । एतदुपलक्षितात् सर्वस्मात् विकारजातात् परस्ताद्वर्तमाना सङ्गोदासीनकूटस्थब्रह्मचैतन्यरूपाहं “महिना महिम्ना "एतावती “सं “बभूव । एतच्छब्देनोक्तं सर्वं परामृश्यते । एतत्परिमाणमस्याः ॥ यत्तदेतेभ्यः परिमाणे°' ( पा. सू. ५. २. ३९) इति वतुप् ।“ आ सर्वनाम्नः ( पा. सू.६.३.९१ ) इत्यात्वम् ॥ सर्वजगदात्मनाहं संभूतास्मि । महच्छब्दादिमनिचि 'टेः' (पा. सू. ६. ४. १५५ ) इति टिलोपः । ततः तृतीयायामुदात्तनिवृत्तिस्वरेण तस्या उदात्तत्वम्। छन्दसो मलोपः ॥ ॥१२॥


[सम्पाद्यताम्]

सूक्तस्य गानम्

अम्भृण उपरि टिप्पणी

टिप्पणी

अम्भृणम् अतिभयंकरं शब्दायमानम्।। भ्रण शब्दे। यङ्लुगन्तात् पचाद्यचि छान्दसो भलोपश्च।। यद्वा। महान्तम् अतिप्रवृद्धमित्यर्थः। अम्भृण इति महन्नाम, अम्भृण माहिनः (नि. ३.३.१६) इति तत्र पाठात्। - ऋ. १.१३३.५ सायणभाष्यम्

सौत्रामणी -- कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥ - वा.सं. १९.२७

नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यात् - श.ब्रा. १४.९.४.३३

अथाम्भृणौ विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथामिति वैश्वदेवौ वा अम्भृणावतोहि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवावम्भृणौ - श.ब्रा.४.५.६.[३]

चतुरोऽम्भृणाँस्त्रीनुदचनानयुज एकधनान् - - - -अथैतानम्भृणानायातयत्युत्तरस्य हविर्धानस्य नीड - बौ.श्रौ.सू. ६.३४

षोडशिपात्रं चतुस्रक्ति ज्यायसोऽम्भृणाञ्ज्यायस एकधनानदीक्षते - बौ.श्रौ.सू. १७.१

अस्मिन् संसारे केचन भक्तजनाः स्वकान् अहं ब्रह्मास्मि, अनलहक इति घोषयन्ति। डा. फतहसिंहः कथयति यत् येषां जनानां चेतना विज्ञानमयकोशे वसति, तस्मात् उपरि न आरोहति, ते एतादृशा घोषणा कुर्वन्ति।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२५&oldid=151774" इत्यस्माद् पुनः प्राप्तिः