सामग्री पर जाएँ

अथर्ववेदः/काण्डं ४/सूक्तम् ३०

विकिस्रोतः तः
← सूक्तं ४.२९ अथर्ववेदः - काण्डं ४
सूक्तं ४.३०
अथर्वा।
सूक्तं ४.३१ →
दे. सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्। त्रिष्टुप्, ६ जगती।

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥

सायणभाष्यम्

'अहं रुद्रेभिः' इति सूक्तेन जातकर्मणि शङ्खपुष्पिकागन्धपुष्पिके पिष्ट्वा अभि- मन्त्र्य हिरण्यशकलेन प्राशयेत् ।

तथा तत्रैव कर्मणि अनेन सूक्तेन शङ्खनाभिं पिप्पलीं च पिष्ट्वा अभिमन्त्र्य हिरण्यशकलेन प्राशयेत् ।

तथा मेधाजननार्थं प्रथमं वाग्व्यवहारं कुर्वतः शिशोर्मातुरुत्सङ्गे विहितस्य अनेन सूक्तेन आज्यं हुत्वा तालुनि संपातान् आनयेत् ।

तथा दधिमधुनी एकत्र कृत्वा अनेन संपात्य अभिमन्त्र्य शिशुं प्राशयेत् ।

तथा उपनयनकर्मणि दण्डप्रदानानन्तरम् एतत् सूक्तं माणवकं वाचयेत् ।

तथा आयुष्कामोपि शङ्खपुष्पगन्धपुष्पप्राशनादीन्युक्तानि पञ्च कर्माणि कुर्यात् । तथा च कौशिकं सूत्रम् - " "अहं रुद्रेभिः' इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक् स्तनग्रहात् प्राशयति । प्रथमप्रवदस्य मातुरुपस्थे तालुनि संपातान् आनयति । दधिमध्वाशयति । उपनीतं वाचयति वार्षशतिकं कर्म” ( कौसू १०,१६-१९ ) इति ।

तथा उपनयने अनेन सूक्तेन आज्यहोमं कुर्यात् । सूत्रितं हि उपनयनम् प्रक्रम्य - 'मेधाजननायुष्यैर्जुहुयात' (कौसू ५७, ३१) इति।

तथा अध्यायोत्सर्जनकर्मणि अनेन सूक्तेन आज्यं हुत्वा रसेषु संपातान् आनयेत् । तथा च कौशिकः उत्सर्जनम् प्रक्रम्य - 'विश्वे देवाः' (१,३०), 'अहं रुद्रेभिः', 'सिंहे व्याघ्रे' ( अ ६,३८ ), 'यशो हविः' (अ ६,३९) इत्यादि ( कौसू १३९,१५ ) ।


अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः।

अ॒हं मि॒त्रावरु॑नो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ।।१।।

अ॒हम् । रु॒द्रेभि॑ः । वसु॑ऽभिः । चरामि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।

अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥ १ ॥

सर्वजगत्कल्पनास्पदं सच्चित्सुखात्मकं परं ब्रह्म स्वात्मत्वेन विदुषी अम्भृणा- ख्यस्य महर्षेर्दुहिता वाङ्नाम्नी ब्रह्मवादिनी स्वात्मानं सर्वात्मभावेन तुष्टाव । तद् उक्तं दाशतय्यनुक्रमणिकायाम् - "अहम्' अष्टौ । वाग् आम्भृणी तुष्टावात्मानम्” (ऋअ २,१०,१२५) इति । विशुद्धसत्त्वपरिणामरूपस्य अन्तःकरणस्य वृत्तिविशेषः अभिमानात्मकोहंकारः । तदुपलक्षितानवच्छिन्नात्मिका अहं रुद्रेभिः रुद्रैः एकादशभिः अष्टभिर्वसुभिः । इत्थंभावे तृतीया । तत्तद्देवात्मना चरामि । एवम् अहम् आदित्यैः इत्यादावपि योज्यम् । आदित्या द्वादशसंख्याका धात्रादयः वसुरुद्रादित्यव्यतिरिक्ता गणशो वर्तमानाः विश्वदेवाख्याः एकस्यैव हि ब्रह्मणः तत्तदुपाध्यवच्छेदेन वस्वादिदेवतारूपेण भेदावभासात् । वस्तुतस्तु ऐक्यमेवेति तदनुसंधाना ब्रह्मवादिनी एवं ब्रूते । तथा मित्रावरुणा । 'सुपां सुलुक्" (पा ७,१,३९) इति द्वितीयाया आकारः । मित्रावरुणौ देवौ उभा उभौ अहमेव परब्रह्मात्मिका बिभर्मि धारयामि । इन्द्राग्नी अपि अहमेव धारयामि । उभा उभौ अश्विनौ अपि अहमेव धारयामि । मत्स्वरूपे अद्वितीये ब्रह्मणि सर्वं जगत् शुक्तौ रजतमिव अध्यस्तं सत् दृश्यते । माया च जगदाकारेण विवर्तते । तदाधारत्वेन असङ्गस्यापि ब्रह्मणः उक्तस्य सर्वस्योपपत्तिः ।


अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्।

तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ।।२।।

अ॒हम् । राष्ट्री॑ । स॒म॒ऽगम॑नी । वसू॑नाम् । चि॑कि॒तुषी॑ । प्रथ॒मा । य॒ज्ञिया॑नाम् ।

ताम् । मा । दे॒वाः । वि । अ॒द॒धुः । पु॒रु॒त्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तः ॥२॥

अद्वितीयब्रह्मात्मिका अहं राष्ट्री । ईश्वरनामैतत् । कृत्स्नस्य दृश्यप्रपञ्चस्य राज्ञी नियन्त्री । अत एव वसूनाम् धनानां संगमनी संगमयित्री उपासकानां फलस्य प्रापयित्री । चिकितुषी यत् साक्षात्कर्तव्यं परं ब्रह्म तत् ज्ञातवती स्वात्मतया साक्षात्कृतवती । कित ज्ञाने इत्यस्मात् लिटः क्वसुः । तदन्तात् 'उगितश्च' (पा ४, १, ६) इति ङीप् । अत एव यज्ञियानाम् यज्ञार्हाणां देवानां प्रथमा मुख्या । 'यज्ञर्त्विग्भ्यां घखञौ' ( पा ५, १, ७१ ) इति अर्हार्थे घप्रत्ययः । ताम् तादृशीं मा मां भूरिस्थात्राम् बहुभावेन प्रपञ्चात्मना कृतावस्थानां भूरि बहुलं फलम् आवेशयन्तः उपासकान् प्रापयन्तो देवाः पुरुत्रा बहुषु स्थानेषु व्यदधुः विदधति कुर्वन्ति । 'देवमनुष्यपुरुषपुरुमर्त्येभ्यः" (५,४,५६) इति सप्तम्यर्थे त्राप्रत्ययः । उक्तप्रकारेण वैश्वरूप्येण अवस्थानाद् यद्यत् कुर्वन्ति देवास्तत् सर्वं मामेव कुर्वन्तीत्यर्थः ।


अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्।

यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ।।३।।

अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दामि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् ।

यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒मे॒धाम् ॥

अहं स्वयमेव आत्मनैव । एवकारः नान्योस्ति ममोपदेष्टेति अवधारणार्थः । इदम् अपरोक्ष्येण अनुभूयमानं ब्रह्मात्मकं वस्तु वदामि लोकहितार्थम् उपदिशामि । तद् विशेष्यते – देवानाम् इन्द्रादीनां जुष्टम् प्रियम् उत मानुषाणाम् मनुष्याणामपि प्रियं परानन्दरूपत्वात् । ‘एतस्यैवानन्दस्य अन्यानि भूतानि मात्राम् उपजीवन्ति' (बृआ ४,३,३२) इति श्रुतेः । यद्वा देवमनुष्यादिभिः सेवितम् इदं वक्ष्यमाणं मदीयं माहात्म्यम् अहमेव स्वयं वदामि । प्रकटयामीत्यर्थः । किं पुनस्तद् इत्याह - यम् इति । यं कामये । तंतम् इति प्रतिनिर्देश्यस्य वीप्सितत्वाद् अत्रापि वीप्सा द्रष्टव्या । यंयं पुरुषं रक्षितुम् अहं वाञ्छामि तंतं कृत्स्नं पुरुषम् उग्रं कृणोमि । सर्वेभ्योधिकं दुष्प्रधर्षं करोमि । यद्वा उग्रः ईश्वरः । जगन्निर्माणसमर्थम् ईश्वरं करोमि । तम् एव ब्रह्माणम् स्रष्टारं करोमि । तथा तम् ऋषिम् अतीन्द्रियार्थदर्शिनं करोमि । तम् एव सुमेधाम् शोभनप्रज्ञं च करोमि । एवं सर्वजगन्नियन्तृब्रह्मात्मकत्वं स्वात्मनि आविष्कृतम् ।


मया॒ सो ऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ई॑म्शृ॒णोत्यु॒क्तम्।

अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ।।४।।

मया॑। सः। अन्न॑म्। अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्रा॒णति॑ । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।

अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒यन्ति॒ । श्रु॒धि । श्रुत॒ । श्रु॒त्ऽधेय॑म् । ते॒ । व॒दा॒मि॒ ॥ ४ ॥

यो भोक्तृजनः अन्नम् अत्ति स भोक्तृशक्तिरूपया मया एव अन्नम् अत्ति । यश्च जनो विपश्यति विविधं जगत् चक्षुषा साक्षात्करोति । यश्च प्राणिति श्वासोच्छ्वा- सादिव्यापारं करोति । अन प्राणने । अदादित्वात् शपो लुक् । 'रुदादिभ्यः सार्व- धातुके' ( पा ७,२,७६ ) इति इडागमः । 'अनिते:' ( पा ८,४,१९) इति णत्वम् । ईम् इदम् उक्तम् स्वरूपं यश्च पुरुषः शृणोति श्रोत्रेन्द्रियेण गृह्णाति ते सर्वेपि तत्त- च्छक्त्त्यात्मना अवस्थितया मयैव तत्तद्व्यापारं कुर्वन्तीत्यर्थः । शृणोतीति । श्रु श्रवणे । 'श्रुवः शृ च' ( पा ३,१,७४ ) इति श्नुप्रत्ययः धातोः शृभावश्च। ये ईदृशीम् अन्तर्यामिरूपेण स्थितां मां न जानन्ति ते माम् अमन्तवः अमन्यमानाः अजानानाः मद्विषयज्ञानरहिताः उप क्षियन्ति उपक्षीणाः संसारेण निहीना भवन्ति । अमन्तव इति । मनेरौणादिकस्तुप्रत्ययः । नञ्समासेन (?) अन्तोदात्तत्वम् । यद्वा भावे तुप्रत्ययः । ततो बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वम् । हे श्रुत विश्रुत हे सखे श्रुधि मया उक्तं शृणु । छान्दसो विकरणस्य लुक् । 'श्रुशृणुपॄकृवृभ्यः” ( पा ६,४,१०२ ) इति हेर्धिभावः । अहं ते तुभ्यं श्रद्धेयम् श्रद्धातव्यम् । श्रद्धा भक्तिः । तया प्राप्यं परतत्त्वस्वरूपं वदामि उपदिशामि । श्रद्धेयम् इति । 'अचो यत्' ( पा ३,१,९७ ) इति धाञो यत्प्रत्ययः । ' ईद्यति' ( पा ६,४,६५ ) इति ईकारः ।


अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑।

अ॒हं जना॑य स॒मदं॑ कृणोमि अ॒हम्द्यावा॑पृथि॒वी आ वि॑वेश ।।५।।

अ॒हम् । रु॒द्राय॑ । धनु॑ः । आ । त॒नोमि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।

अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥ ५ ॥

पुरा त्रिपुरविजयसमये रुद्राय । षष्ठ्यर्थे चतुर्थी । रुद्रस्य महादेवस्य धनुः अहम् आ तनोमि आततज्यं करोमि । किमर्थम् । ब्रह्मद्विषे ब्राह्मणानां द्वेष्ट्रे शरवे । शॄ हिंसायाम् 'शॄस्वृस्निहित्रप्यसि' ( पाउ १,१० ) इत्यादिना उप्रत्ययः । हिंसकाय । उभयत्र 'क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२ ) इति कर्मणः संप्रदानत्वात् चतुर्थी । ब्रह्मद्विषं शरुं 'त्रिपुरनिवासिनम् असुरगणं हन्तवै हन्तुं हिंसितुम् । हन्तेः 'तुमर्थे सेसेन्” ( पा ३,४,९ ) इति तवैप्रत्ययः । 'अन्तश्च तवै युगपत्' ( पा ६,१,२०० ) इति आद्यन्तयोर्युगपद् उदात्तत्वम् । उशब्दः पूरणः । अहमेव जनाय स्तोतृजनार्थं समदम् । समानं माद्यन्त्यस्मिन्निति समत् संग्रामः । तं कृणोमि करोमि । तथा द्यावापृथिवी द्यावापृथिव्यौ अहम् आ विवेश अन्तर्यामित्वेन प्रविष्टवती ।


अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्।

अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑३ यज॑मानाय सुन्व॒ते ।।६।।

अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भर्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।

अ॒हम् । द॒धामि॒ । द्रवि॑णा । ह॒विष्म॑ते । सुप्र॒ऽअ॒व्याः॑ । यज॑मानाय । सुन्व॒ते ॥ ६ ॥

आहनसम् आहन्तव्यम् अभिषोतव्यं सोमम् यद्वा शत्रूणाम् आहन्तारं दिवि वर्तमानं देवतात्मानं सोमम् अहम् एव बिभर्मि धारयामि पोषयामि वा । तथा त्वष्टारम् उत अपि च पूषणं भगं च एतत्संज्ञान् देवान् अहमेव बिभर्मि । तथा हविष्मते हविर्भिर्युक्ताय सुप्राव्ये शोभनहविर्भिर्देवानां प्रावित्रे तर्पयित्रे । अवतेस्तर्पणार्थात् 'अवितृस्तृतन्त्रिभ्य ई: ' ( पाउ ३, १५८ ) इति ईकारप्रत्ययः । चतुर्थ्यैकवचने यणि 'उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्य' (पा ८,२,४ ) इति अनुदात्तस्य सुपः स्वरितत्वम् । सुन्वते सोमाभिषवं कुर्वते । 'शतुरनुमः' ( पा ६,१,१७३ ) इति विभक्त्युदात्तत्वम् । ईदृशाय यजमानाय द्रविणम् धनं यागफलरूपम् अहमेव दधामि प्रयच्छामि । 'फलम् अत उपपत्तेः' ( ब्रसू ३,२,३९) इति न्यायेन परब्रह्मणः फलदातृत्वस्य निर्णीतत्वात् ।


अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व॑१न्तः स॑मु॒द्रे।

ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ।।७।।

अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनि॑ः । अ॒प्सु । अ॒न्तः । स॒मु॒द्रे ।

तत॑ः। वि। ति॒ष्ठे। भुव॑नानि। विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥ ७ ॥

अस्य दृश्यमानस्य प्रपञ्चस्य मूर्धन् मूर्धनि उपरिभागे सत्यलोके पितरम् प्रपञ्चस्य जनकं विधातारम् अहं सुवे जनयामि । षूङ् प्राणिगर्भविमोचने । अदादित्वात् शपो लुक् । स्रष्टृसहितस्य जगतः कारणभूताया मम योनिः कारणं समुद्रे । समुद् द्रवन्ति अस्माद् भूतजातानीति समुद्रः परमात्मा । 'समुद्र एवास्य बन्धुः समुद्रो योनिः' (माश १०,६,४,१) इति वाजसनेयकश्रुत्या समुद्रशब्दवाच्यत्वं परमात्मनो दर्शितम् । तस्मिन् परमात्मनि अप्सु व्यापनशीलासु धीवृत्तिषु अन्तः मध्ये यद् ब्रह्मचैतन्यं तत् मम कारणम् इत्यर्थः । यद्वा समुद्रे जलधौ अप्सु उदकेषु अन्तः मध्ये वाडववैद्युतरूपेण यत् तेजो वर्तते तदेव माध्यमिकवाग्रूपाया मम योनिः कारणम् । ततः तेजःकारणकत्वाद्धेतोः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि वि चष्टे प्रकाशयामि । उत अपि च अमूं द्याम् विप्रकृष्टां दिवम् । उपलक्षणम् एतत् । एतदुपलक्षितं कृत्स्नं ब्रह्मणि अध्यस्तं विकारजातं वर्ष्मणा देहेन कारणभूतमायात्मकेन उप स्पृशामि । यद्वा अस्य भूलोकस्य मूर्धन् मूर्धनि उपरि पितरम् आकाशम् । 'द्यौः पिता पृथिवी माता' ( तैब्रा ३, ७,५,५ ) इति श्रुतेः । सुवे प्रेरयामि । तथा समुद्रे अन्तरिक्षे अप्सु अब्विकारेषु देवशरीरेषु मम कारणभूतं ब्रह्म व्याप्य वर्तत इत्यर्थः । शेषं पूर्ववत् ।

अ॒हमे॒व वातै॑व॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑।

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒म्ना सं ब॑भूव ।।८।।

अ॒हम् । ए॒व । वात॑:ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ ।

प॒रः । दि॒वा । प॒रः । ए॒ना । पृथि॒व्या । ए॒ताव॑ती । म॒हि॒म्ना । सम् । ब॒भू॒व ।। ८ ।।

विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि कार्याणि आरभमाणा कार्यरूपेण उत्पादयन्ती अहमेव अनन्यसहाया प्र वामि प्रवर्ते । वा गतिगन्धनयोः । अदादित्वात् शपो लुक् । तत्र दृष्टान्तः - वात इव । यथा वायुः परेण अप्रेरितः स्वेच्छयैव प्रवाति तद्वद् इत्यर्थः । उक्तं सार्वात्म्यं निगमयति उत्तरार्धेन – परो दिवा । परस् इति सकारान्तं परस्तात् इत्यर्थे वर्तते । यथा अध इति अधस्तादर्थे । तद्योगे च तृतीया सर्वत्र दृश्यते । दिवा आकाशस्य परस्तात् एना पृथिव्या । 'द्वितीयाटौस्स्वेनः' ( पा २,४,३४ ) इति इदम एनादेशः । 'सुपां सुलुक्' ( पा ७,१,३९ ) इति तृतीयाया आच् आदेशः । अस्याः पृथिव्याः परः परस्तात् । द्यावापृथिव्योरुपादानम् उपलक्षणम् । एतदुपलक्षितात् सर्वस्माद् विकारजातात् परस्ताद् वर्तमाना असङ्गोदासीनकूटस्थब्रह्मचैतन्यरूपा अहं महिम्ना माहात्म्येन एतावती सं बभूव । एतत्परिमाणा उदीरितसकलजगदात्मना संभूतास्मि । एतच्छब्दात् 'यत्तदेतेभ्यः " ( पा ५,२,३९) इति वतुप् । 'आ सर्वनाम्नः ' ( पा ६, ३,९१ ) इति आत्वम् ।



टिप्पणी