सामग्री पर जाएँ

अथर्ववेदः/काण्डं ४/सूक्तम् २९

विकिस्रोतः तः
← सूक्तं ४.२८ अथर्ववेदः - काण्डं ४
सूक्तं ४.२९
मृगारः।
सूक्तं ४.३० →
दे. मित्रावरुणौ। त्रिष्टुप्, ७ शक्वरीगर्भातिजगती।

मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।
प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥
सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।
यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।
यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।
यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।
यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥
ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥