शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ९/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

१४.९.४ पुत्रमन्थकर्मब्राह्मणम्


एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः - १४.९.४.[१]

स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाऽध उपास्त तस्मात्स्त्रियमध उपासीत श्रीर्ह्येषा स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत् - १४.९.४.[२]

तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्या स स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते - १४.९.४.[३]

एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति - १४.९.४.[४]

बहु वा इदं सुप्तस्य वा जाग्रतो वा रेत स्कन्दति तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः इदमहं तद्रेत आददे पुनर्मा मैत्विन्द्रियं पुनस्तेज पुनर्भगः पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृञ्ज्यात् - १४.९.४.[५]

अथ यद्युदक आत्मानं पश्येत् तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति - १४.९.४.[६]

श्रीर्ह वा एषा स्त्रीणाम् यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत सा चेदस्मै न दद्यात्काममेनामपक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति - १४.९.४.[७]

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाप्य मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेदङ्गात्सम्भवसि हृदयादधि जायसे स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेति - १४.९.४.[८]

अथ यामिच्छेत् न गर्भं दधीतेति तस्यामर्थं निष्ठाप्य मुखेन मुखं संधायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति - १४.९.४.[९]

अथ यामिच्छेत् गर्भं दधीतेति तस्यामर्थं निष्ठाप्य मुखेन मुखं संधायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति - १४.९.४.[१०]

अथ यस्य जायायै जारः स्यात् तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हि स्तीर्त्वा तस्मिन्नेतास्तिस्रः शरभृष्ठीः प्रतिलोमाः सर्पिषाऽक्त्वा जुहुयान्मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति नाम गृह्णाति स वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य जायाया उपहासं नेच्छेदुत ह्येवंवित्परो भवति - १४.९.४.[११]

अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसे न पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लूय व्रीहीनवघातयेत् - १४.९.४.[१२]

स य इच्छेत् पुत्रो मे गौरो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनम्पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै - १४.९.४.[१३]

अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै - १४.९.४.[१४]

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै - १४.९.४.[१५]

अथ य इच्छेत् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै - १४.९.४.[१६]

अथ य इच्छेत् पुत्रो मे पण्डितो विजिगीथः समितिंगमः शूश्रूषितां वाचं भाषिता
जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवाऽ औक्ष्णेन वार्षभेण वा - १४.९.४.[१७]

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युतिष्ठातो विश्वावसोऽन्यामिच्छ प्रफर्व्यम् सं जायां प्रत्या सहेति - १४.९.४.[१८]

अथैनामभिपद्यते अमोऽहमस्मि सा त्वं सा त्वमस्यमो अहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति - १४.९.४.[१९]

१४.९.४.[२०] अथ गर्भाधानम्

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाप्य मुखेन
मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ - १४.९.४.[२०]

हिरण्ययी अरणी याभ्यां निर्मन्थतामश्विनौ देवौ तं ते गर्भं दधामहे दशमे मासि सूतवे यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति नाम गृह्णाति - १४.९.४.[२१]

१४.९.४.[२२] अथ सोष्यन्तीकर्म

सोष्यन्तीमद्भिरभ्युक्षति यथा वातः पुष्करिणीं समीङ्गयति सर्वतः एवा ते गर्भ एजतु सहावैतु जरायुणा इन्द्रस्यायं व्रजः कृतः सार्गडः सपरिश्रयः तमिन्द्र निर्जहि गर्भेण सावरं सहेति - १४.९.४.[२२]

१४.९.४.[२३] अथ जातकर्म

जातेऽग्निमुपसमाधाय अङ्कऽ आधाय कंसे पृषदाज्यमानीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्त्सहस्रं पुष्यासमेधमानः स्वगृहे अस्योपसद्यां मा च्छैत्सीत्प्रजया च पशुभिश्च स्वाहा मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा- १४.९.४.[२३]

यत्कर्मणात्यरीरिचम् यद्वा न्यूनमिहाकरमग्निष्टत्स्विष्टकृद्विद्वान्त्स्विष्टं सुहुतं करोतु स्वाहेति - १४.९.४.[२४]

१४.९.४.[२५] अथायुष्यकरणम्

अथास्यायुष्यं करोति दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथास्य नामधेयं करोति वेदोऽसीति तदस्यैतद्गुह्यमेव नाम स्यादथ दधि मधुघृतं संसृज्यानन्तर्हितेन जातरूपेण प्राशयति भूस्त्वयि दधामि भुवस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति - १४.९.४.[२५]

अथैनमभिमृशति अश्मा भव परशुर्भव हिरण्यमस्रुतं भव आत्मा वै पुत्रनामासि स जीव शरदः शतमिति - १४.९.४.[२६]

अथास्य मातरमभिमन्त्रयते इडासि मैत्रावरुणी वीरे वीरमजीजनथाः सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति - १४.९.४.[२७]

१४.९.४.[२८] अथ स्तन्यप्रदानम्

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवेऽकरिति- १४.९.४.[२८]

तं वा एतमाहुः अतिपिता बताभूरति पितामहो बताभूः परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति - १४.९.४.[२९]

१४.९.४.[३०] अथ स्त्रीप्रधानो विद्यावंशः
अथ वंशः तदिदं वयं भारद्वाजीपुत्राद्भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्राद्वात्सीमाण्डवीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो गार्गीपुत्राद्गार्गीपुत्रः पाराशरीकौण्डिनीपुत्रात्पाराशरीकौण्डिनीपुत्रो गार्गीपुत्राद्गार्गीपुत्रो गार्गीपुत्राद्गार्गीपुत्रो बाडेयीपुत्राद्बाडेयीपुत्रो मौषिकीपुत्रान्मौषिकीपुत्रो हारिकर्णीपुत्राद्धारिकर्णीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पैङ्गीपुत्रात्पैङ्गीपुत्रः शौनकीपुत्राच्छौनकीपुत्रः - १४.९.४.[३०]

काश्यपीबालाक्यामाठरीपुत्रात्काश्यपीबालाक्यामाठरीपुत्रः कौत्सीपुत्रात्कौत्सीपुत्रो बौधीपुत्राद्बौधीपुत्रो शालङ्कायनीपुत्राच्छालन्कायनीपुत्रो वार्षगणीपुत्राद्वार्षगणीपुत्रो गौतमीपुत्राद्गौतमीपुत्रऽ आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो वात्सीपुत्राद्वात्सीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्रऽ आर्तभागीपुत्रादार्तभागीपुत्रः शौङ्गीपुत्राच्छौङ्गीपुत्रः सांकृतीपुत्रात्सांकृतीपुत्रः - १४.९.४.[३१]

आलम्बीपुत्रात् आलम्बीपुत्रऽ आलम्बायनीपुत्रादालम्बायनीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद्राथीतरीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ
वैदभृतीपुत्राद्वैदभृतीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः सांजीवीपुत्रात्सांजीवीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रः - १४.९.४.[३२]

प्राश्नीपुत्रात् आसुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिर्याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते - १४.९.४.[३३]

इति चतुर्दशे काण्डे सप्तमे प्रपाठके बृहदारण्यकोपनिषदि पञ्चमे प्रपाठके पञ्चमं ब्राह्मणम्।।