शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १ पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्

१ पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्-तत्र च कर्मणः फलविज्ञानस्य विवक्षितत्वात्तद्द्वारेण च पञ्चाग्निविद्यादर्शनस्योत्तरमार्गप्रतिपत्तिसाधनस्याभिधानं, तत्राप्यशेषभवगत्युपसंहारः कर्मकाण्डस्यैषा निष्ठा-इत्येतस्य द्वयस्य दिदर्शयिषयाऽऽख्यायिकाया निरूपणं, तस्यां च श्वेतकेतोः पाञ्चालानां परिषदि गमनकथनं, श्वेतकेतुं प्रति प्रवाहणस्य भोः कुमारानुशिष्टोऽसि पित्रेति प्रश्नकरणं, उक्तप्रश्नस्य श्वेतकेतोरुत्तरप्रदानमोमिति, पुनः श्वेतकेतुं प्रति प्रवाहणस्य पञ्चाग्निविद्यासम्बन्धिप्रश्नपञ्चकस्य विचारणा, पञ्चस्वपि प्रश्नेषु न जाने इति श्वेतकेतोरुत्तरप्रदानं, तत्र पञ्चमप्रश्नगतमार्गद्वयसद्भावे मन्त्रसम्मतेरभिधानं, ततो विद्याभिमानगर्वपरिहारेण क्रुद्धः श्वेतकेतुः पाञ्चालराजप्रतिश्रुतां वसतिमनादृत्य स्वपितरं प्रति प्रत्याजगामेत्याचद्यंशस्य सप्रकारकं वर्णनं, ततः पित्रा पृष्टे पारिषद्ये वृत्तान्ते तस्योपवर्णनं, ततः पितुः पुत्रस्य क्रोधोपशमनकरणप्रकारवर्णनं, ततः पितुर्गौतमस्यानुपदं दर्शितप्रश्नपञ्चकस्योत्तराणां जिज्ञासया प्रवाहणं प्रति शिष्यभावेनोपसंगमनप्रकारस्य वर्णनं, ततो राज्ञो गौतमप्रार्थितं वरमङ्गीकृत्य तदनुसारेण पूर्वं स्वयं श्वेतकेतुं प्रति पृष्टस्य प्रश्नपञ्चकस्योत्तरपञ्चककथनव्याजेन सोपपत्तिकं पञ्चाग्निविद्याया निरूपणं चेत्यादि.


ब्राह्मण २ ज्येष्ठश्रेष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्

२ ज्येष्ठश्रेष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्-तत्र च पूर्वं " प्राणो गायत्री" इत्यादिना गायत्र्याः प्राणभावोऽभिहितो न पुनर्वागादिभावः इति यस्माज्ज्येष्ठश्च श्रेष्ठश्च प्राणो न वागादयो ज्यैष्ठ्यश्रेष्ठ्यभाजः--कथं प्राणस्यैव ज्येष्ठत्वं श्रेष्ठत्वं चेत्यपेक्षायां तस्योपपादनं, ज्यैष्य्यश्रैष्ठ्यविज्ञानफलनिरूपणं च, ततः सफलं वाक्चक्षुःश्रोत्रमनोरेतसां क्रमेण वसिष्ठाप्रतिष्ठासम्पदायतनप्रजातित्वलक्षणविज्ञानस्य पर्यायश उपपादनं, ततो वागादयः प्राणाः “ अहं श्रेयानहं श्रेयान् " इति विवदमानाः सन्तो निर्णयार्थं ब्रह्म जग्मुरिति निरूपणं, ब्रह्मणस्तेभ्यो निर्णायकोपायस्य कथनं, ततो ब्रह्मण आदेशेन वागादीनां शरीरादुत्क्रम्यासंवत्सरं प्रोष्य पुनरागत्य मां विना यूयं कथं जीवितुं शक्नुथ इति पृच्छाकरणस्य पञ्चभिः पर्यायैः प्रतिपादनं, प्रतिपर्यायं तस्य तस्य त्वद्व्यापारादृते स्वस्वव्यापारं कुर्वन्त एव वयमजीविष्मेत्युत्तरं श्रुत्वा पुनः शरीरप्रवेशनस्य कथनं, ततो यदा च प्राण उत्क्रमणमैच्छत्तदानीमेव वागादयः स्वस्वस्थानाद्विचलिताः सन्तोऽब्रुवत हे भगवंस्त्वं मोत्क्रमीस्त्वदृते वयं जीवितुं नैव शक्ष्याम इति सदृष्टान्तं प्रतिपादनं, ततः यद्येवं भवद्भिर्मम श्रेष्ठता विज्ञाता तर्हि मे भवन्तः सर्वे करं प्रयच्छतेति प्राणस्याज्ञाकरणकथनं, ततो मुख्यस्य प्राणस्याज्ञामनुसृत्य तस्मै वागादीनां स्वस्ववसिष्ठत्वादेर्गुणस्य कररूपेण प्रदानकरणस्य कथनं, तत एवं गुणविशिष्टस्य मे किमन्नं किं वासः इति प्राणस्य पुनरनुयोगकरणकथनं, ततो यदिदं किञ्च जगत्याश्वक्रिमिकीटपतङ्गेभ्योऽन्नं तत्सर्वं तेऽन्नमापो वासश्च स्यादिति वागादीनां प्रतिवचनप्रदानकथनं, उक्तस्य प्राणान्नस्य प्रशंसार्थमर्थवादकथनं, ततः प्राणस्य यस्मादापो वासस्तस्माद्विद्वांसः श्रोत्रिया ब्राह्मणा भोजनस्यादावन्ते चाप आचामन्तीति साभिप्रायमभिधानं, एतद्विज्ञानवेदितृभिरिदानीन्तनैरपि भोजनस्यादावन्ते चापामाचमनं कार्यमिति पुरुषार्थतया विधानं, उक्तविधेरर्थवादकथनं चेत्यादि.


ब्राह्मण ३ श्रीमन्थकर्मब्राह्मणम्

३ श्रीमन्थकर्मब्राह्मणम्--तत्र च कर्मार्थमप्रत्यवायकारिणोपायेन वित्तमुपार्जयितुं श्रीमन्थाख्यस्य कर्मण उपायत्वेनाभिधानं, तत्रापि विशेषतः प्रवृत्ति.
निमित्तकालसामग्रीतिकर्तव्यताप्रभृतीनां क्रमेण प्रतिपादनं, ततः प्रथमे द्वे आहुती समन्त्रके अभिधाय तृतीयस्या आहुतेर्मन्त्रप्रतीकस्याभिधानं, ततो " ज्येष्ठाय स्वाहा" इत्यारभ्य “प्रजापतये स्वाहा " इत्यन्तानामाहुतीनां सेतिकर्तव्यताकमनुक्रमणं, ततो मन्थस्य समन्त्रकमभिमर्शनविधानं, ततो मन्थस्य समन्त्रकं पात्रेण सह हस्ते ग्रहणविधानॆ, ततो मन्थस्य व्याहृतीभिर्मधुमतीभिर्ऋग्भिश्च सप्रकारकं भक्षणविधानं, ततोऽग्नेः पश्चाद्भागे प्राक्शिरस्कतया शयनस्य विधानं, ततः प्रातरुत्थायादित्यमुपतिष्ठतेति समन्त्रकं विधानं, ततो यथागतमागत्य जघनेऽग्निमासीनः सन्वंशं जपेदिति विधानं, तत्र जपसाधनभूतस्य श्रीमन्थकर्मणो गुरुशिष्यपरम्पराद्योतकस्य वंशस्याभिधानं, तत्रापि विद्याधिगमे षट् तीर्थानि तेषां मध्येऽत्र प्राणदर्शनस्य द्वे एव तीर्थे पुत्रान्तेवासिनावित्यनुज्ञापनं, ततः श्रीमन्थकर्मसाधनभूतानां केषाञ्चित्प्रधानानां पात्राणामभिधानं, ततो मन्थस्य प्रकृतिभूतानि दश ग्राम्याणि धान्यान्यभिधाय तेषां मन्थसम्पादनेतिकर्तव्यतायाः सविशेषं निरूपणं चेत्यादि.


ब्राह्मण ४ पुत्रमन्थकर्मब्राह्मणम्

४ पुत्रमन्थकर्मब्राह्मणम्--तत्र च प्रथमं यादृग्जन्मा यथोत्पादितैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवेत्तथा सम्पादनायोपायानां प्रदर्शनं, तत्र भूतादीनां पृथिव्यादयो रसा इति प्रतिपादनद्वारा रेतसः प्रतिष्ठायै प्रजापतेः स्त्रीसृष्टि
निर्माणकथनं, ततः प्रजापतिः स्त्रीसम्बन्धेन मैथुनाख्यं ग्राम्यधर्मं सृष्टवानित्युपपादनं, ततो मैथुनाख्यस्य ग्राम्यधर्मस्य श्रुतिमुखेन वाजपेयसामान्यत्वोपवर्णनं, मैथुनकर्मणः प्रशंसार्थमर्थवादकथनं, तत्र मैथुनकर्मणो वाजपेयसम्पत्तिं विदुषोऽविदुषश्च किं फलं भवतीत्यपेक्षायां तस्य निरूपणं, तत्राप्यविद्वत्फले उद्दालकनाककुमारहारितानां सहेतुकं मतनिरूपणं, ततः सुप्तावस्थायां जाग्रदवस्थायां वा बहु वाऽल्पं वा यदि रेतः स्कन्देत्तदा तदभिमशेद्वाऽनुमन्त्रयेत वेति समन्त्रकं सेतिकर्तव्यताकं विधानं, ततो यदि कदाचिदात्मानमुदके पश्येत्तदाऽप्यभिमन्त्रयेतेति समन्त्रकं विधानं, ऋतुमतीं स्त्रियममिक्रम्योपमन्त्रयेतेति विधानं, आप्लुती सत्यपि सा चेदस्मै मैथुनं कर्तुं न दद्यात्तदा तां वशीकर्तुमुपायप्रतिपादनं, तत्र मंत्रस्य प्रदर्शनं, यदा च स्त्री मूलत एवानुकूला तदोक्तमन्त्रे ऊहप्रदर्शनं च. ततः स यामिच्छेदियं मां कामयेत तदा तस्या उपस्थमभिमृशेदिति समन्त्रकं सप्रकारकं विधानं, ततः स यामिच्छेदियं मे स्त्री गर्भिणी मा भूदिति तदाऽभिप्राण्यापान्यादिति समन्त्रकं सप्रकारकं विधानं, ततः स यदीच्छेदियं मे स्त्री गर्भिणी भवत्विति तदा ऽपान्याभिप्राण्यादिति समन्त्रकं सप्रकारकं विधानं, ततो यस्य जायायै जारः स्यात्तं चेद्द्वेष्यात्तदा तम्प्रत्याभिचारिकोपाययोजनस्य समन्त्रकं सेतिकर्तव्यताकं विधानमुक्तोपायफलप्रदर्शनं च, ततः प्रसङ्गाद्रजस्वलायाः स्त्रियो वर्तनधर्माणां निरूपणं, ततः क्रमेण गौरत्वविशिष्टस्य पुत्रस्य-कपिलत्वपिङ्गलत्वविशिष्टस्य पुत्रस्य-श्यामवर्णत्वलोहिताक्षत्वविशिष्टस्य पुत्रस्य-पांडित्यविशिष्टाया दुहितुः-पाण्डित्यप्रख्यातिप्रागल्भ्यैकपाठित्वादिविशेषगुणविशिष्टस्य पुत्रस्य चोत्पादनेच्छायां तत्तदर्थे सेतिकर्तव्यताकस्योपासनस्य पर्यायशोऽभिधानं, तत्रान्तिमे पर्यायस्थोपाये होमादिविशेषेतिकर्तव्यताया अभिधानं, तत्रापि सन्निवेशकाले " अमोऽहमस्मि" इत्यादिमन्त्रेणाभिपद्यतेति विशेषस्याभिधानं, ततः सप्रकारकं समन्त्रकं गर्भाधानकर्मणो विधानं, ततः सप्रकारकं समन्त्रकं सोष्यन्तीकर्मणो विधानं, ततः सप्रकारकं समन्त्रकं जातस्य कर्मणो विधानं, ततो जातस्य कुमारस्य सप्रकारकं समन्त्रकमायुष्यकरणनामकरणयोर्विधानं, तत्र कुमारस्य समन्त्रकमभिमर्शनविधानं, तन्मातुश्च समन्त्रकाभिमन्त्रणविधानं, ततो जातस्य कुमारस्य मात्रे प्रदानं विधाय माता च तस्मै स्तनं प्रयच्छतीति समन्त्रकं स्तन्यप्रदानविधानं, ततोऽनेन विधिना मन्त्रवद्गर्भाधानजातकर्मादिना जातः संस्कृतश्च पुत्रः पितरं पितामहं वाऽतिशेते इति तस्य पुत्रस्य प्रशंसार्थमर्थवादकथनं, ततः समस्तकर्मज्ञानोभयकाण्डात्मकस्य वेदविज्ञानस्य य आचार्यशिष्यपरम्पराद्योतकः स्त्रीप्रधानत्वाद्गुणविशेषाभिव्यञ्जको विद्यावंशस्तस्य निरूपणं, वाजसनेयेन याज्ञवल्क्येन प्रवचनविषयीकृतानामेषां यजुषां वैशिष्ट्याभिधानं चेत्यादि.

अथ परिशिष्टसूची।
१ अथास्य बृहदारण्यकोपनिषदः स्वाध्यायप्रवचनादौ--आद्यन्तयोः पठ्यमानायाः शान्तेरभिधानम्
२ स्वाध्यायप्रवचनान्ते पठ्यमानस्य स्वाध्यायानिराकरणस्याभिधानम्
३ स्वाध्यायोच्चारणपरिभाषावेदकं व्याख्यासहितं प्रतिज्ञासूत्रम्
४ स्वाध्यायस्वरपरिभाषावेदकं व्याख्यासहितं भाषिकसूत्रं चेति.
इति परिशिष्टसूची।

इति श्रीगोदातटिनीतटनिकटवर्तिश्रीमन्नासिकमहाक्षेत्रवासिना “ वारे" इत्युपनाम्ना ज्योतिर्विज्जयरामप्रपौत्रभट्टात्याजीसूरिपौत्रवैदिकतिलकपदसंभूषिताण्णाशास्त्रिसूनुना "काव्यतीर्थमीमांसकविद्याभरण" इत्युपाधित्रयवता श्रीधरशर्मणा प्रायो भाष्यस्थावतरणिकाद्यनुसारेण क्वचित्स्वमतिवैभवेन च सम्पादिता चतुर्दशकाण्डात्मकमाध्यन्दिनशतपथब्राह्मणस्य विषयानुक्रमणिका
परिसमाप्ता।
॥ इति ॥