ऋग्वेदः सूक्तं १०.१८३
← सूक्तं १०.१८२ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८३ प्रजावान् प्राजापत्यः |
सूक्तं १०.१८४ → |
दे. १ यजमानः, २ यजमानपत्नी, ३ होत्राशिषः। त्रिष्टुप्। |
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥१॥
अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् ।
उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥२॥
अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥३॥
सायणभाष्यम्
‘ अपश्यम्' इति तृचं द्वात्रिंशं सूक्तं त्रैष्टुभम् । प्रजापतिपुत्रः प्रजावान्नामर्षिः । ऋचः क्रमेण यजमानपत्नीहोतॄणामाशिषः प्रतिपादिकाः । अतस्तद्देवताकाः । तथा चानुक्रान्तम् - अपश्यं प्रजावान् प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिषः' इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्र्यते हि -- अपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानम् ' (आश्व. श्रौ. ४, ६) इति ॥
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥ १
अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् ।
इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥१
अपश्यम् । त्वा । मनसा । चेकितानम् । तपसः । जातम् । तपसः । विऽभूतम् ।
इह । प्रऽजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥१
हे यजमान “त्वा त्वां मनसा बुद्यात “अपश्यम् अदर्शम् । कीदृशम् । “चेकितानं कर्माणि भृशं जानन्तं “तपसः दीक्षारूपाद्व्रतात् "जातं पुनरुत्पन्नं यद्वा जन्मान्तरानुष्ठितात्सुकृतादुत्पन्नं “तपसः अनुष्ठीयमानाद्यज्ञाद्धेतोः विभूतं व्याप्तं सर्वत्र प्रख्यातम् । हे “पुत्रकाम पुत्रान् कामयमान स त्वम् “इह अस्मिँल्लोके “प्रजां पुत्रपौत्रादिरूपां “रराणः रमयन् “रयिं धनम् “इह अस्मिँल्लोके रमयन् “प्रजया प्रजनेन “प्र “जायस्व पुत्रादिरूपेणोत्पद्यस्व । प्रजा उत्पादयेत्यर्थः ॥
अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् ।
उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥ २
अप॑श्यम् । त्वा॒ । मन॑सा । दीध्या॑नाम् । स्वाया॑म् । त॒नू इति॑ । ऋत्व्ये॑ । नाध॑मानाम् ।
उप॑ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒मे॒ ॥२
अपश्यम् । त्वा । मनसा । दीध्यानाम् । स्वायाम् । तनू इति । ऋत्व्ये । नाधमानाम् ।
उप । माम् । उच्चा । युवतिः । बभूयाः । प्र । जायस्व । प्रऽजया । पुत्रऽकामे ॥२
हे पत्नि “दीध्यानां दीप्यमानां “स्वायाम् आत्मीयायां “तनू तन्वां शरीरे “ऋत्व्ये । ऋतु काले भवं गर्भधारणरूपं कर्म ऋत्वियम् । तस्मिन्निमित्तभूते “नाधमानां भर्तुरुपगमनं याचमानां “त्वा त्वां “मनसा “अपश्यम् अद्राक्षम् । हे “पुत्रकामे पुत्रान् कामयमाने “माम् “उप मत्समीपं प्राप्य सा त्वम् "उच्चा उच्चैर्भृशं “युवतिः तरुणी “बभूयाः भूयाः । छन्दस्युभयथा ' इत्याशीर्लिङः सार्वधातुकत्वाच्छप् । तस्य छान्दसः श्लुः । अलिढ्यपि व्यत्ययेन ‘ भवतेरः ' (पा. सू. ७. ४. ७३ ) इत्यभ्यासस्यात्वम् । युवतिर्भूत्वा च "प्रजया प्रजनेन “प्र “जायस्व पुत्रान् प्रसूष्व । जनी प्रादुर्भावे। श्यनि ‘ ज्ञाजनोर्जा ' इति जादेशः ॥
अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥ ३
अ॒हम् । गर्भ॑म् । अ॒द॒धा॒म् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।
अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि॑ऽभ्यः । अ॒प॒रीषु॑ । पु॒त्रान् ॥३
अहम् । गर्भम् । अदधाम् । ओषधीषु । अहम् । विश्वेषु । भुवनेषु । अन्तरिति ।
अहम् । प्रऽजाः । अजनयम् । पृथिव्याम् । अहम् । जनिऽभ्यः । अपरीषु । पुत्रान् ॥३
“अहं होता “ओषधीषु शाल्यादिषु फलार्थं “गर्भमदधां धारयामि । "विश्वेषु सर्वेष्वन्येष्वपि "भुवनेषु भूतजातेषु "अन्तः मध्ये "अहम् एव गर्भं धारयामि । तथा “पृथिव्यां भूम्यां “प्रजाः सर्वान् मनुष्यान् "अहम् “अजनयं जनयामि। "जनिभ्यः जायाभ्यः “अपरीषु अन्यास्वपि स्त्रीषु "पुत्रान् “अहम् अजनयं जनयामि । मत्साध्येन यागेन सर्वस्योत्पत्तेरहं सर्वजननहेतुर्भवामीत्यर्थः ॥ ॥४१॥
मण्डल १० | ||||
---|---|---|---|---|