ऋग्वेदः सूक्तं १०.५२
← सूक्तं १०.५१ | ऋग्वेदः - मण्डल १० सूक्तं १०.५२ सौचीकोऽग्निः |
सूक्तं १०.५३ → |
दे. विश्वे देवाः। त्रिष्टुप् |
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य ।
प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥१॥
अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति ।
अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥२॥
अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः ।
अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥३॥
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् ।
अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥४॥
आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥५॥
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥६॥
सायणभाष्यम्
‘विश्वे देवाः शास्तन' इति षडृचं दशमं सूक्तं सौचीकस्याग्नेरार्षं वैश्वदेवम् । गतः सूक्तविनियोगः । स्रुगादापनात्पूर्वभाविनि जपे विनियुक्ता। सूत्रितं च - ‘ विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयान् ' ( आश्व. श्रौ. १. ४ ) इति ॥
विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।
प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥१
विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ ।
प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥१
विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य ।
प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥१
एतत्सूक्तं कृत्स्नमाग्नेयम् । हे "विश्वे "देवाः यूयं "मा मां “शास्तन अनुज्ञां दत्त । "यथेह यज्ञे “होता देवानामाह्वाता सन् “वृतः होतृत्वेन वृतोऽहं “मनवै स्तौमि भवतः । "यत् यस्मात् "निषद्य स्तौमि तस्माच्छास्तन । "मे मम “भागधेयं “प्र “ब्रूत “यथा “वः यूयं भागं कल्पितवन्तः तथा तं भागं प्र ब्रूत । "येन च "पथा “वः "हव्यमा "वहानि वहनं करोमि ॥
अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति ।
अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥२
अ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ ।
अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥२
अहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति ।
अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥२
“यजीयान् यष्टृतमः "अहं "होता सन् "न्यसीदं निषण्णोऽस्मि । निषदने तं निषण्णं "विश्वे व्याप्ताः “मरुतः "देवाः "जुनन्ति प्रेरयन्ति हविर्वहनाय । हे "अश्विना “वां युवयोः "आध्वर्यवम् "अहरहः प्रतिदिनं कर्तव्यमिति शेषः। आध्वर्यवं भवद्भ्यामनुज्ञातव्यमित्यर्थः । "ब्रह्मा “भवति भवतु । कः । "समित् समिद्धश्चन्द्रमाः । चन्द्रमा ब्रह्मा भवतु । किंच "सा । स इत्यर्थः। स च समित् समिद्धश्चन्द्रमाः “वां युवयोर्होमार्थं वां युवाभ्यां क्रियमाणायाध्वर्यवकर्मणे “आहुतिः भवति भवत्वित्यर्थः । सोमात्मको हि चन्द्रमा हूयते । एष वै सोमो राजा' इत्युपक्रम्य तदेवोभयं भवति' इति हि छन्दोगब्राह्मणम् । अथवैवं योजना। याहुतिराध्वर्यवमनुष्ठितवद्भ्यां होतव्या सा वां युवयोः युवाभ्यां भवति भवतु । आध्वर्यवं वामित्यस्यैव विवरणमेतत् ॥
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः ।
अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥३
अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।
अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥३
अयम् । यः । होता । किः । ऊं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्ऽअञ्जन्ति । देवाः ।
अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥३
“यः "अयं "होता "सः "किः को भवति । कीदृशो भवति । तस्य को व्यापार इत्यर्थः । तस्योत्तरमुच्यते । "यमस्य मृत्योः भीतः सन्निति शेषः । “कमपि हुतम् "ऊहे वहति । यद्वा सर्वऋत्विजातं नियमयतीति यमो यजमानः । तस्य कमपि हुतमूहे वहति देवान्प्रति । "यत्समञ्जन्ति यद्धविः प्राप्नुवन्ति "देवाः । किंचाग्निः "अहरहः प्रतिदिनमग्निहोत्रार्थं “जायते प्रादुर्भवति । तथा “मासिमासि प्रतिमासं जायते पितृयज्ञार्थम्। एतत्कालद्वयमुपलक्षणं पक्षचतुर्मासषण्माससंवत्सरादीनाम् । अपरे पुनरेवमाहुः । अहरहः सूर्यत्मना जायते मासिमास चन्द्रात्मनेति । "अथ तमिममग्निं "देवा "दधिरे "हव्यवाहं हविषां वोढारम् । एवमग्निः स्वात्मानं स्वयमेवोक्तवान् ॥
मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् ।
अ॒ग्निर्वि॒द्वान्य॒ज्ञं न॑ः कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥४
माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।
अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥४
माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् ।
अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥४
“माम् अग्निं "देवाः "हव्यवाहं हविर्वोढारं "दधिरे कृतवन्तः । कीदृशं माम्। “अपम्लुक्तम् अपक्रम्यागतं “बहु "कृच्छ्रा। बहूनि कृच्छाणि स्थानानि "चरन्तं गच्छन्तम् । कया मनीषया दधिर इत्युच्यते । अयम् "अग्निर्विद्वान् सर्वं जानन् “नः अस्माकं "यज्ञं “कल्पयाति कल्पयति । कीदृशं यज्ञम् । "पञ्चयामं पञ्चविधगमनम् । पाङ्क्तो हि यज्ञः। "त्रिवृतं सवनत्रयभेदेन त्रिप्रकारं सप्ततन्तुं सप्तभिश्छन्दोमयैः स्तुतिभिर्विस्तृतम् ॥
आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑व॒ः करा॑णि ।
आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वा॒ः पृत॑ना जयाति ॥५
आ । वः॒ । य॒क्षि॒ । अ॒मृ॒त॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि ।
आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धे॒या॒म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥५
आ । वः । यक्षि । अमृतऽत्वम् । सुऽवीरम् । यथा । वः । देवाः । वरिवः । कराणि ।
आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥५
हे देवाः "वः युष्मान् “आ “यक्षि आयाचे । किम्। "अमृतत्वम् अविनाशित्वं "सुवीरं सुपुत्रं च । हे “देवाः “वः युष्माकं "वरिवः परिचर्यां हवीरूपं धनं वा "यथा “कराणि करवाणि तदर्थमित्यर्थः । किंच “इन्द्रस्य “बाह्वोः “वज्रम् “आ “धेयाम् । ग्राहयामीत्यर्थः । अग्नेर्होतृत्वाभावे इन्द्रस्य सोमाद्यभावाद्दुर्बलत्वेन वज्रधारणं नोपपद्यते । अतस्तत्कृत्वा वज्रं ग्राहयामीत्यर्थः । "अथ एवं सति "इमाः "विश्वाः सर्वाः "पृतनाः शत्रुसेनाः "जयाति जयति । जयतु वा ॥
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥६
त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥६
त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।
औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥६
“त्रीणि “शता शतानि त्रीणि "सहस्राणि "त्रिंशच्च "नव "च एतत्संख्याकाः “देवाः "अग्निं माम् “असपर्यन् पर्यचरन् । परिचर्याप्रकार उच्यते । “घृतैः क्षरद्भिराज्यैः “औक्षन् सिक्तवन्तः । "अस्मै अग्नये मह्यं “बर्हिः "अस्तृणन् आस्तृतवन्तः। “आदित् आस्तरणानन्तरं “होतारम् आह्वातारं “न्यसादयन्त नियमेनासादितवन्तः ॥ ॥ १२ ॥
मण्डल १० | ||||
---|---|---|---|---|