सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१०८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१०७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०८
पणयोऽसुराः
सूक्तं १०.१०९ →
दे. सरमा देवता। २, ४, ६, ८, १०-११ सरमा देवशुनी ऋषिका। पणयो देवता। त्रिष्टुप्।


किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः ।
कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥१॥
इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः ।
अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥२॥
कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् ।
आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥३॥
नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् ।
न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥४॥
इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती ।
कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ॥५॥
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः ।
अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥६॥
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः ।
रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥७॥
एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः ।
त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥८॥
एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।
स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥९॥
नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः ।
गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥१०॥
दूरमित पणयो वरीय उद्गावो यन्तु मिनतीरृतेन ।
बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥११॥

सायणभाष्यम्

‘ किमिच्छन्ती' इत्येकादशर्चं नवमं सूक्तं त्रैष्टुभम् । ऐन्द्रपुरोहितस्य बृहस्पतेर्गोषु वलनाम्नोऽसुरस्य भटैः पणिनामकैरसुरैरपहृत्य गुहायां निहितासु सतीषु बृहस्पतिप्रेरितेनेन्द्रेण गवामन्वेषणाय सरमा नाम देवशुनी प्रेषिता । सा च महतीं नदीमुत्तीर्य वलपुरं प्राप्य गुप्तस्थाने नीतास्ता गा ददर्श । अथ तस्मिन्नन्तरे पणय इदं वृत्तान्तमवगच्छन्त एनां मित्रीकर्तुं संवादमकुर्वन् । तत्र प्रथमातृतीयाद्या अयुजोऽन्त्यावर्जिताः पणीनां वाक्यानि । अत्र त ऋषयः सरमा देवता । द्वितीया चतुर्थ्याद्या युज एकादशी च षट् सरमाया वाक्यानि । अतस्तासु सर्षिः पणयो देवता । तथा चानुक्रान्तं -- किमिच्छन्ती पणिभिरसुरैर्निगूळहा गा अन्वेष्टुं सरमा देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुः सा तान्युग्मान्त्याभिरनिच्छन्ती प्रत्याचष्टे' इति । गतो विनियोगः ॥


किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।

कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥ १

किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः ।

का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥१

किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः ।

का । अस्मेऽहितिः । का । परिऽतक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि ॥१

अनयागच्छन्तीं सरमां दृष्ट्वा पणयो वदन्ति । "सरमा सरणशीलैतन्नामिका देवशुनी “किमिछन्ती किं प्रार्थयमाना सती “इदम् अस्मदीयं स्थानं “प्र “आनट् प्राप्नोत् । आङ्पूर्वो नशिः व्याप्तिकर्मा । तस्य लुङि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । छन्दस्यपि दृश्यत इत्याडागमः ॥ “पराचैः पराञ्चि पराङ्मुखान्यावृत्तिवर्जितानि यानि गमनानि तैः "जगुरिः उद्गूर्णः । महता प्रयत्नेनापि गन्तुं न शक्यत इत्यर्थः ॥ ‘ गॄ निगरणे'। ‘ आदृगमहन ' इत्यादिना किन्प्रत्ययः । ‘ बहुलं छन्दसि । (पा. सू. ७. १. १०३) इत्युत्वम् ॥ तादृशोऽयम् “अध्वा “दूरे “हि विप्रकृष्टः खलु । यद्वा । पराचैः पराञ्चनैर्जगुरिरत्यर्थं गन्त्री पार्ष्णिभागमनालोकमाना सतीदं स्थानं प्राप्नोति । दूरेऽयमध्वा यदृच्छया गन्तुं न शक्यते । अतो वयमेतां पृच्छामः । हे सरमे “का कीदृशी “अस्मेहितिः । कोऽस्मास्वर्थहितिः । कोऽस्मासु त्वदपेक्षितार्थो निहितः । यद्वा । अस्मासु कोऽर्थो गतः । दधातेर्हिनोतेर्वा क्तिनि रूपन् । आगच्छन्त्यास्तव “का कीदृशी “परितक्म्या रात्रिः “आसीत् । यद्वा । तकतिर्गत्यर्थः । परितकनं परितो गमनं भ्रमणं वा कीदृशमासीत् । “कथं च “रसायाः शब्दायमानाया अन्तरिक्षनद्या योजनशतविस्तीर्णायाः “पयांसि उदकानि “अतरः तीर्णवत्यसि । एतद्वद । अत्र किमिच्छन्ती सरमेदं प्रानट् ' (निरु. ११. २५) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥


इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्वः॑ ।

अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥ २

इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ ।

अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥२

इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । निऽधीन् । वः ।

अतिऽस्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि ॥२

अनया तान् सरमा प्रत्युवाच । हे “पणयः एतन्नामका असुराः “इन्द्रस्य “दूतीः । ‘ सुपां सुलुक्' इति प्रथमैकवचनस्य सुश्छान्दसः । अहम् “इषिता तेनैव प्रेषिता सती “चरामि । युष्मदीयं स्थानमागच्छामि । किमर्थम् । “वः युष्मदीयान् युष्मदीये पर्वतेऽधिष्ठापितान् “महः महतः “निधीन् बृहस्पतेर्गोनिधीन “इच्छन्ती कामयमाना सती चरामि । किंच “अतिष्कदः ॥ ‘ स्कन्दिर्गतिशोषणयोः '। भावे क्विप् । अतिष्कन्दनादतिक्रमणाज्जातेन “भियसा भयेन “तत् नदीजलं “नः । पूजायां बहुवचनम् । माम् “आवत् अरक्षत् । “तथा तेन प्रकारेण “रसायाः नद्याः “पयांसि उदकानि “अतरं तीर्णवत्यस्मि ॥


की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।

आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥ ३

की॒दृङ् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् ।

आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥३

कीदृङ् । इन्द्रः । सरमे । का । दृशीका । यस्य । इदम् । दूतीः । असरः । पराकात् ।

आ । च । गच्छात् । मित्रम् । एन । दधाम । अथ । गवाम् । गोऽपतिः । नः । भवाति ॥३

तेषां वाक्यम् । हे "सरमे तव स्वामी “इन्द्रः कीदृक् । कियत्पराक्रमवान् । “का “दृशीका। तस्य कीदृशी दृष्टिः । दृष्टिरूपा सेना कियती । “यस्य दूतीः दूती त्वम् “इदम् अस्मदीयं स्थानं “पराकात् अतिदूरात् “असरः आगमः । इति तामुक्त्वा इदानीं ते परस्परमाहुः । एषा सरमा “आ “गच्छात् “च आगच्छतु च । गमेर्लेट्याडागमः । स्वामी “भवाति भवतु । न ह्येकस्या गोः किंतु बहूनां गवां स्वामी भवतु । वृत्त्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते ॥


नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।

न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥ ४

न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् ।

न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥४

न । अहम् । तम् । वेद । दभ्यम् । दभत् । सः । यस्य । इदम् । दूतीः । असरम् । पराकात् ।

न । तम् । गूहन्ति । स्रवतः । गभीराः । हताः । इन्द्रेण । पणयः । शयध्वे ॥४

सरमा वदति । हे पणयः “तम् इन्द्रं “दभ्यं हन्तव्यमिति “न “वेद न जानामि । दभेः अचो यत् । कथम् । “सः इन्द: “दभत् सर्वान् जनान् दभति हिनस्त्येव ।। दभेर्लेटि रूपम् । वाक्यभेदादनिघातः ॥ “यस्य “दूतीः दूती अहम् “इदं युष्मदीयं स्थानं “पराकात् अतिदूरदेशात् “असरं प्राप्ताभूवम् । इन्द्रो हिंसितव्यो न भवतीत्यत्र युक्तिमाह । “स्रवतः । स्रवणं स्रवः। तमाचरन्ति । आचारार्थे क्विप् । तुगागमः । जसि रूपम् । स्रवणशीला: “गभीराः गभीरा नद्यः “तम् इन्द्रं “न “गूहन्ति न संवृण्वन्ति । नाच्छादयन्ति । किंत्वाविष्कुर्वन्ति । वयं यस्य महिम्ना समुद्रं प्रतिसरामः । तस्मादहिंस्य इत्येनं प्रकटीकुर्वन्ति । ‘ गुहू संवरणे'। भौवादिकः । तस्माद्धे “पणयः यूयम् “इन्द्रेण तादृशपराक्रमेण “हताः सन्तः “शयध्वे ॥ ‘ शीङ् स्वप्ने'। 'बहुलं छन्दसि ' इति शपो लुगभावः ।।


इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अन्ता॑न्सुभगे॒ पत॑न्ती ।

कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥ ५

इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती ।

कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥५

इमाः । गावः । सरमे । याः । ऐच्छः । परि । दिवः । अन्तान् । सुऽभगे । पतन्ती ।

कः । ते । एनाः । अव । सृजात् । अयुध्वी । उत । अस्माकम् । आयुधा । सन्ति । तिग्मा ॥५

क्रुद्धाः पणयः प्रत्यूचुः । हे “सुभगे शोभनसौभाग्यवति हे “सरमे “दिवः द्युलोकस्य “अन्तान् पर्यन्तान् “परि “पतन्ती कुत्र गावस्तिष्ठन्तीति परितो गच्छन्ती त्वम् “इमाः परिदृश्यमानाः “याः “गावः । सुब्व्यत्ययः । गाः “ऐच्छः कामयसे ता: “एनाः गाः “ते त्वदीयः “कः “अयुध्वी अयुद्ध्वा “अव “सृजात् । अस्मात् पर्वतादवसृजेत् । विनिर्गमयेत् । सृजेर्लेटि रूपम् । अयुध्वी । युधेः क्त्वाप्रत्यये स्नात्व्यादयश्च ' इति निपातितः । नञ्समासत्वाल्ल्यबादेशाभावः। नञः प्रकृतिस्वरत्वम् । “उत अपि च “अस्माकं “तिग्मा तीक्ष्णानि “आयुधा आयुधानि “सन्ति । तस्मादस्माभिर्युद्धमकृत्वा को वा गा आहरति ॥ ॥ ५ ॥


अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः ।

अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥ ६

अ॒से॒न्या । वः॒ । प॒ण॒यः॒ । वचां॑सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः ।

अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥६

असेन्या । वः । पणयः । वचांसि । अनिषव्याः । तन्वः । सन्तु । पापीः ।

अधृष्टः । वः । एतवै । अस्तु । पन्थाः । बृहस्पतिः । वः । उभया । न । मृळात् ॥६

सा तान्निराह । हे “पणयः “वः युष्माकं “वचांसि पूर्वोक्तानि वचनानि “असेन्या असेन्यानि । सेनार्हाणि न भवन्ति ॥ सेनाशब्दात् तदर्हतीत्यर्थे ' छन्दसि च ' इति यत्प्रत्ययः । नञा समासः । ‘ ययतोश्चातदर्थे ' (पा. सू. ६. २. १५६ ) इत्युत्तरपदान्तोदात्तत्वम् । तथा “तन्वः युष्मदीयानि शरीराणि “अनिषव्याः इष्वर्हाणि न “सन्तु पराक्रमराहित्येन । पूर्ववत् प्रत्ययः । ‘ओर्गुणः (पा. सू. १, ४, १४६ ) इति गुणः । स्वरश्च तादृक् । यतः “पापीः पापयुक्तानि खलु । ‘ छन्दसीवनिपौ ' इतीप्रत्ययः । जसः सुः । किंच “वः युष्मदीयः “पन्थाः मार्गः “एतवै गन्तुम् “अधृष्टः असमर्थः “अस्तु ॥ ‘ इण् गतौ ' इत्यस्य तुमर्थे तवैप्रत्ययः । ‘ तवै चान्तश्च युगपत् ' ( पा. सू. ६. २. ५ ) इति धातोः प्रत्ययस्य च युगपदुदात्तत्वम् । तत्र हेतुमाह । “वः युष्मदीयान् “उभया उभयविधान पूर्वोक्तांस्तन्वो देहान् “बृहस्पतिः इन्द्रप्रेरितः “न “मृळात् न सुखयेत् । किंतु बाधेत ॥ ‘ मृड सुखने' । लेट्याडागमः ॥


अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।

रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥ ७

अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः ।

रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥७

अयम् । निऽधिः । सरमे । अद्रिऽबुध्नः । गोभिः । अश्वेभिः । वसुऽभिः । निऽऋष्टः ।

रक्षन्ति । तम् । पणयः । ये । सुऽगोपाः । रेकु । पदम् । अलकम् । आ । जगन्थ ॥७

ते पुनराहुः । हे “सरमे “अयं “निधिः अस्मदीयः कोशः अद्रिबुध्नः । ‘बन्ध बन्धने । ‘ बन्धेर्ब्रधिबुधी च' ( उ. सू. ३. ५ ) इति नप्रत्ययो बुध इत्यादेशः । अद्रिर्बन्धको यस्य तादृशः । तथा आहृतैः गोभिरश्वेभिः अश्वैश्च “वसुभिः आत्मीयैर्धनैश्च न्यृष्टः नितरां प्राप्तो भवति ॥ ऋषी गतौ । क्तप्रत्यये ‘ श्वीदितो निष्टायाम्' इतीट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृति स्वरत्वम् ॥ “सुगोपाः । ‘ गुप रक्षणे ' । आयप्रत्ययान्तात् क्विपि अतोलोपयलोपौ । सुष्ठु गोपयितारः “ये “पणयः तेऽसुराः “तं निधिं “रक्षन्ति पालयन्ति । “रेकु । ‘रेकृ शङ्कायाम् । औणादिक उप्रत्ययः । शङ्कितं गोभिः शब्दायमानं “पदम् अस्माभिः पालितं स्थानम् “अलकं व्यर्थमेव “आ “जगन्थ आगतवत्यसि ॥ गमेर्लिटि रूपम् ॥


एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः ।

त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥ ८

आ । इ॒ह । ग॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्यः॑ । अङ्गि॑रसः । नव॑ऽग्वाः ।

ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वचः॑ । प॒णयः॑ । वम॑न् । इत् ॥८

आ । इह । गमन् । ऋषयः । सोमऽशिताः । अयास्यः । अङ्गिरसः । नवऽग्वाः ।

ते । एतम् । ऊर्वम् । वि । भजन्त । गोनाम् । अथ । एतत् । वचः । पणयः । वमन् । इत् ॥८

सरमा पुनः प्रत्युवाच । हे पणयः “सोमशिताः सोमेन तीक्ष्णीकृताः सोमपानेन मत्ताः ॥ ‘ शिञ् निशाने '। कर्मणि क्तप्रत्ययः । ‘ तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तादृशाः “नवग्वाः नवगतयः । यद्वा । अङ्गिरसां सत्रमासीनानां मध्ये केचन नवसु माःसूदतिष्ठन् ते “नवग्वाः । अनेन दशग्वा अप्युपलक्ष्यन्ते । उभयविधास्ते “अङ्गिरसः “ऋषयः तेषां प्रथमः अयास्यः एतन्नामा च त एते “इह युष्मदीये स्थाने “आ “गमन् आगच्छेयुः ।। गमेः छन्दसि लुङ्लङ्लिटः इति सार्वकालिको लुङ । लृदित्त्वाच्च्लेरङ् ॥ आगत्य च “ते “गोनाम् ॥ ‘ गोः पादान्ते' इति छन्दसि नुडागमः ।। गवाम् “ऊर्वं तं समूहं "वि “भजन्त विभाग कुर्युः ।। अत्रापि पूर्ववत् सार्वकालिको लुङ ॥ “अथ अनन्तरं “पणयः यूयम् “एतद्वचः पूर्वं यत् व्यर्थमागतासीति यद्वाक्यमवोचत तद्वाक्यं तदा “वमन्नित् वमन्तः परित्यजन्त एव भवथ ।। ‘ वमु उद्गिरणे ' । शतरि ‘ सुपा सुलुक्° । इति जसो लुक् । नुमागमः । संयोगान्तस्य लोपः । यद्वा । लङि रूपम् । स्वरश्छान्दसः ।।


ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।

स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥ ९

ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न ।

स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥९

एव । च । त्वम् । सरमे । आऽजगन्थ । प्रऽबाधिता । सहसा । दैव्येन ।

स्वसारम् । त्वा । कृणवै । मा । पुनः । गाः । अप । ते । गवाम् । सुऽभगे । भजाम ॥९

तयैवमुक्ते सति पणयः प्रणयवाक्यमाहुः । हे “सरमे “त्वं “दैव्येन देवसंबन्धिना “सहसा बलेन “प्रबाधिता यथा तथा वलपुरं प्राप्य तत्र स्थित गा दृष्ट्वा पुनरागच्छेति तेन प्रपीडिता “त्वम् एवं चेत् “आजगन्थ आगतवत्यसि ॥ चशब्दश्चेदर्थे । ‘ निपातैर्यद्यदिहन्त° ' इति तिङो निघाताभावः । गमेर्लिटि थलि रूपम्। सह सुपा' इत्यत्र सहेति योगविभागात् समासः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । लित्स्वरः॥ तर्हि “त्वा त्वां “स्वसारं भगिनीं “कृणवै करवै । समूहापेक्षयैकवचनम् । त्वं तु “पुनः “मा “गाः । इन्द्रादीन् मा गच्छ। अपि तर्हि हे “सुभगे सरमे “ते त्वदीयानां “गवां समूहं पर्वतादपगमय्य “भजाम । त्वं च वयं च विभजाम । विभागं करवामेत्यर्थः ॥


नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः ।

गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥ १०

न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः ।

गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥१०

न । अहम् । वेद । भ्रातृऽत्वम् । नो इति । स्वसृऽत्वम् । इन्द्रः । विदुः । अङ्गिरसः । च । घोराः ।

गोऽकामाः । मे । अच्छदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरीयः ॥१०

सा तान् प्रत्याचष्टे । हे पणयः “अहं “भ्रातृत्वं “न “वेद न जानामि । तथा “स्वसृत्वं च “नो वेद नैव जानामि । के जानन्ति तानाह। “इन्द्रः “घोरः शत्रूणां भयंकराः “अङ्गिरसश्च “विदुः जानन्ति । किंच अस्मात् स्थानादहं “यत् यदा “आयम् इन्द्रादीन् प्राप्नवम् ॥ ‘ अय पय गतौ । लङि रूपम् ॥ तदा “मे मदीयाः "गोकामाः युष्माभिरपहृता गाः कामयमाना इन्द्रादयः "अच्छदयन् । युष्मदीयं स्थानमाच्छादयन्ति । ‘छद अपवारणे' । “अतः कारणाद्धे “पणयः “वरीयः उरुतरं गवां वृन्दं परित्यज्य “अप “इत अन्यत्स्थानं प्रति गच्छत । यद्वा । वरीयः प्रभूतमतिदूरं देशं गच्छत ॥ इत । इण् गतौ '। लोटि रूपम् । वरीयः । उरुशब्दादीयसुनि ‘प्रियस्थिर इत्यादिना वरादेशः ॥


दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीरृ॒तेन॑ ।

बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥ ११

दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ ।

बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑णः । ऋष॑यः । च॒ । विप्राः॑ ॥११

दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन ।

बृहस्पतिः । याः । अविन्दत् । निऽगूळ्हाः । सोमः । ग्रावाणः । ऋषयः । च । विप्राः ॥११

हे “पणयः यूयं “वरीयः उरुतरं “दूरं दूरदेशम् “इत गच्छत। युष्माभिरपहृताः “गावः “ऋतेन सत्येन “मिनतीः मिनत्यो द्वारस्य पिधायकं पर्वतं हिंसत्यो विदारयन्त्यः “उत् “यन्तु तस्मादुद्गच्छन्तु । यद्वा । मिनतीः । व्यत्ययेन कर्मणि शतृ । मीयमाना युष्माभिर्बाध्यमानास्ता गावः । सुब्व्यत्ययः । गा ऋतेन स्तुतिभिर्गन्तव्येनेन्द्रेण सहायेन बृहस्पत्यादय उद्यन्तु पर्वतादुद्गमयन्तु । “निगूढाः नितरां स्थापिताः “याः गाः “बृहस्पतिः “अविन्दत् लप्स्यते तथा “सोमः तदभिषवकारिणः “ग्रावाणः च “विप्राः मेधाविनः “ऋषयः अङ्गिरसः “च लप्स्यन्ते। ‘ विद्लृ लाभे । तौदादिकः । तस्मात् ‘छन्दसि लुङलङ्लिटः' इति भविष्यदर्थे लङ्। ‘शे मुचादीनाम् ' इति नुमागमः ॥ ॥ ६ ॥


टिप्पणी

सरमा उपरि टिप्पणी

सरमा उपरि टिप्पणी (दर्पणं)

सरमा शब्द के मूल में वही "सृ” धातु है जो सरस्वती तथा सरण्यू में देखी जा चुकी है। अतः सरमा को भी सरस्वती एवं सरण्यू के समान वाक् नामक शक्ति का द्योतक माना गया है। - सरमाशब्दस्य विवेचनम्

सरमा सरणात् ।- निरुक्तशास्त्रम् ११.२५

सरमायाः वृक्काभ्यां सह साम्यम्


असुरा पणयो नाम रसापारनिवासिनः ।

गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ॥ २४ ॥

बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।

प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ॥ २५ ॥

किमीत्यत्रायुजाभिस्तां पप्रच्छुः पणयोऽसुराः ।

कुतः कस्यासि कल्याणि किंवा कार्यमिहास्ति ते ॥२६॥

‘किम' ( ऋग्वेद १०. १०८ ) सूक्त में असुर पणियों ने अयुग्म ऋचाओं द्वारा उससे ( सरमा से } पूछा : ‘तुम कहाँ से ( आ रही हो ) ? हे कल्याणि तुम किसकी हो ? अथवा तुम्हारा यहाँ क्या कार्य है ?'

अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।।

युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ॥ २७॥

विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।।

ऊचुर्मा सरसे गास्त्वम् इहास्माकं स्वसा भव ॥ २८ ॥

विभजामो गवां भागं माहिता ह ततः पुनः ।

सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ॥२९॥

साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।

पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ॥ ३० ॥

असुरास्तां तथेत्युक्त्वा तदाजहुः पयस्ततः ।

सा स्वभावाच्च लौल्याच्च पीत्वा तत्पय आसुरम् ॥३१॥

परं संवननं हृद्यं बलपुष्टिकरं ततः ।

शतयोजनविस्ताराम् अतरत्तां रसां पुनः ॥ ३२ ॥

यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।।

पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि ॥ ३३ ॥

सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।

तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ॥ ३४ ॥

जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।।

पदानुसारिपद्धत्या रथेन हरिवाहनः ॥ ३५॥

गत्वा जघान च पणीन् गाश्च ताः पुनराहरत् ।। - बृहद्देवता ८.३५


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०८&oldid=403476" इत्यस्माद् प्रतिप्राप्तम्