ऋग्वेदः सूक्तं १०.१७६
← सूक्तं १०.१७५ | ऋग्वेदः - मण्डल १० सूक्तं १०.१७६ सूनुरार्भवः। |
सूक्तं १०.१७७ → |
दे. १ ऋभवः, २-४ अग्निः । अनुष्टुप्, २ गायत्री |
प्र सूनव ऋभूणां बृहन्नवन्त वृजना ।
क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥१॥
प्र देवं देव्या धिया भरता जातवेदसम् ।
हव्या नो वक्षदानुषक् ॥२॥
अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते ।
रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥३॥
अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥४॥
सायणभाष्यम्
‘प्र सूनवः' इति चतुर्ऋचं पञ्चविंशं सूक्तम् । ऋभुपुत्रः सूनुर्नामर्षिः। द्वितीया गायत्री शिष्टास्तिस्रोऽनुष्टुभः । आद्यर्भुदेवत्या शिष्टा आग्नेय्यः । तथा चानुक्रान्तं-’ प्र सूनवः सूनुरार्भव आग्नेयमानुष्टुभं द्वितीया गायत्र्याद्यार्भवी' इति । गतो विनियोगः ॥
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वंत वृ॒जना॑ ।
क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्नं॑धे॒नुं न मा॒तरं॑ ॥१
प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ ।
क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥१
प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना ।
क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥१
“सूनवः एतत्संज्ञाः “ऋभूणाम् । ऋभुर्विभ्वा वाज इति त्रयाणामपि प्रथमेन व्यपदेशः । तेषां पुत्राः “बृहत् प्रभूतं “वृजना । संग्रामनामैतत् । वृजनं संग्रामं “प्र “नवन्त । नवतिर्गतिकर्मा । प्रगच्छन्ति । प्रकर्षेण गच्छन्ति । प्रकृष्टगमनेन जयो लक्ष्यते । तत्र शत्रूञ्जयन्तीत्यर्थः । सूनुर्नामर्षिरात्मानमेव परोक्षेण निरदिशत् । एकस्मिन्नपि पूजार्थं बहुवचनम्। "ये ऋभवः “विश्वधायसः विश्वस्य धारकाः “क्षाम भूमिम् "अश्नन् व्याप्नुवन् । अशू व्याप्तौ । व्यत्ययेन श्ना। “धेनुं “न । धेनुः प्रीणयित्री गौः । तामिव तेषामृभूणामित्यन्वयः । यद्वा । सूर्यरश्मयोऽप्यृभव उच्यन्ते । य उरु भासमानाः सूर्यरश्मयो विश्वधायसो विश्वं सर्वं रसं धयन्तः पिबन्तः । यद्वा । वृष्ट्यादिप्रदानेन सर्वस्य धारकाः । एवंभूताः सन्तः क्षाम भूमिमश्नन् अभुञ्जत तदीयं सर्वं रसमपिबन् । तत्र दृष्टान्तः । “मातरं जननीं धेनुं पयस्विनीं गां यथा वत्सः पिबति तथा । य ऋभवोऽश्नन्ति तेषामृभूणामित्यन्वयः ॥
अग्निप्रणयने ‘प्र देवम्' इति तृचोऽनुवक्तव्यः । सूत्रितं च-’ प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते प्र देवं देव्या धियेति तिस्रः' (आश्व. श्रौ. २. १७) इति ॥
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं ।
ह॒व्या नो॑ वक्षदानु॒षक् ॥२
प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् ।
ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥२
प्र । देवम् । देव्या । धिया । भरत । जातऽवेदसम् ।
हव्या । नः । वक्षत् । आनुषक् ॥२
हे ऋत्विग्यजमानाः “देवं दानादिगुणयुक्तं “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा इममग्निं “प्र “भरत प्रकर्षेण हरत । यद्वा । प्राञ्चं नयत । केन साधनेनेति तदाह । “देव्या दीप्तया “धिया प्रज्ञया कर्मणा वा । यद्वा । एषा सहयोगे तृतीया । देव्या धिया युक्तम् । किं प्रयोजनमिति चेत् । “नः अस्माकं “हव्या हव्थानि हवींषि “आनुषक् आनुपूर्व्यादनुक्रमेण “वक्षत् । अयमग्निर्वहेत् । देवान् प्रापयेत् ॥ वहेर्लेटि • सिब्बहुलम्” इति सिप् ॥ अयमु य अ देवयुहता यज्ञार्य नीयते ।
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वांचेतति॒ त्मना॑ ॥३
अ॒यम् । ऊं॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ ।
रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥३
अयम् । ऊं इति । स्यः । प्र । देवऽयुः । होता । यज्ञाय । नीयते ।
रथः । न । योः । अभिऽवृतः । घृणिऽवान् । चेतति । त्मना ॥३
“अयमु अयमेव “स्यः सोऽग्निः “देवयुः देवान् यष्टुमिच्छन् भवति ॥ देव शब्दात्क्यचि ‘न च्छन्दस्यपुत्रस्य इतीत्वदीर्घयोः प्रतिषेधः ॥ अयमेव “होता देवानामाह्वाता । अयमेव “यज्ञाय यागार्थं “प्र “णीयते आहवनीयदेशं प्रति प्रकर्षेण नीयते । अपि च “रथः रंहणशीलः सूर्यो रथवान् वा ।। छान्दसो मत्वर्थीयस्थ लोपः ॥ स यथा “घृणीवान् दीप्तिमान् तद्वद्दीप्तः “योः मिश्रयिता हविषां देवैः संगमयिता । यौतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति विच् ।। “अभीवृतः ऋत्विग्यजमानैरावेष्टितः ॥ वृणोतेः कर्मणि ‘अन्येषामपि ' इति पूर्वपदस्य दीर्घः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । एवंभूतोऽग्निः “त्मना आमना स्वयमेव “चेतति सम्यग्देवान् यष्टुं जानाति ।। ‘ मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः ॥
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥४
अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः ।
सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥४
अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः ।
सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥४
“अयमग्निः “अमृतात् अमरणाद्देवाद्देवनिमित्ताद्भयादिव “जन्मनः जायमानात् मनुष्यात् मनुष्यनिमित्ताद्भयादपि “उरुष्यति तस्माद्रक्षति ॥ ‘ उरुष्यती रक्षाकर्मा ' ( निरु. ५. २३) इति यास्कः । भाववाचिनोऽमृतशब्दस्य नञा बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । ‘ भीत्रार्थानाम् (पा. सू. १. ४, २५) इत्यपादानसंज्ञा ॥ अपि चायं “देवः सहसश्चित् ॥ सह इति बलनाम । तस्मादुत्तरस्य मत्वर्थीयस्य ‘ बहुलं छन्दसि' इति लुक् ॥ चिच्छब्दोऽप्यर्थे । सहस्वतो बलवतोऽपि “सहीयान् बलवत्तरः ॥ सहस्विशब्दादीयसुनि • विन्मतोः' इति विनो लुक् । टेः ' इति टिलोपः ॥ एवंभूतो देवः "जीवातवे जीवनहेतवे यागाय “कृतः ब्रह्मणा सृष्टः ॥ ॥ ३४ ॥
मण्डल १० | ||||
---|---|---|---|---|