ऋग्वेदः सूक्तं १०.१३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३
आङ्गिर्हविर्धानः, विवस्वानादित्यो वा
सूक्तं १०.१४ →
दे. हविर्धाने। त्रिष्टुप्, ५ जगती
उत्तरवेदी


युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥१॥
यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः ।
आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥२॥
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन ।
अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥३॥
देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥४॥
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् ।
उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥५॥

सायणभाष्यम्

‘युजे वाम्' इति पञ्चर्चं त्रयोदशं सूक्तमदितेः पुत्रस्य विवस्वत आर्षम् । हविर्धानाख्ये ये द्वे शकटे तद्देवत्यमिदम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं--- युजे पञ्च विवस्वानादित्यो हाविर्धानं जगत्यन्तम्' इति । गतः सूक्तविनियोगः । हविर्धानप्रवर्तने ‘युजे वाम्' इत्येका। सूत्रितं च--- अन्तरा वर्त्म पादयोर्युजे वां ब्रह्म पूर्व्यं नमोभिः' (आश्व. श्रौ. ४. ९) इति ॥


यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।

शृ॒ण्वंतु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥१

यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः ।

शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥

युजे । वाम् । ब्रह्म । पूर्व्यम् । नमःऽभिः । वि । श्लोकः । एतु । पथ्याऽइव । सूरेः ।

शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥

हे हविर्धानशकटे “वां युवामहं “पूर्व्यं पूर्वस्मिन् काले भवम् । अनादिकालप्रवृत्तमित्यर्थः । एवंभूतं “ब्रह्म मन्त्रम् । उच्चार्येति शेषः । “नमोभिः सोमादिहविर्लक्षणैरन्नैः “युजे युनज्मि । युवयोरुपरि सोमादिकमारोप्य पत्नीशालातो हविर्धानं प्रति युवां नयामीत्यर्थः । एवंभूतयोर्युवयोः “श्लोकः शब्दः “वि “एतु विश्वान् देवान् प्रति विविधं गच्छतु । तत्र दृष्टान्तः । “पथ्येव “सूरेः । यथा स्तोतुः स्वभूता पथ्या परिणामसुखावहा आहुतिः विश्वान् देवान् प्रति विविधं गच्छति तद्वत् । “अमृतस्य अमरणधर्मणः प्रजापतेः “पुत्राः “विश्वे देवाः एवंभूतं शब्दं “शृण्वन्तु “ये देवाः "दिव्यानि दिवि भवानि “धामानि स्थानानि “आ “तस्थुः अधिष्ठितवन्तः । ते शृण्वन्त्वित्यर्थः ॥


अत्रैव हविर्धानप्रवर्तने • यमेइव' इत्येषा । सूत्रितं च -- यमेइव यतमाने यदैतमधि द्वयोरदधा उक्थ्यं वच इत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४, ९) इति ॥

य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यंतः॑ ।

आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिंद॑वे नः ॥२

य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ ।

आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥

यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवऽयन्तः ।

आ । सीदतम् । स्वम् । ऊं इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥

“यमेइव यथा सहोत्पन्ने अपत्ये संचरतः तथा “यतमाने गमनहविर्धारणादिस्वाधिकारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां “यत् यदा “ऐतं हविर्धानस्थानं प्रतिगच्छथः तदा “देवयन्तः देवकामाः “मानुषाः यजमानाः “वां युवा “प्र “भरन् प्रभरन्ति । किंच युवां “स्वमु “लोकम् आत्मीयमेव हविर्धानाख्यं स्थानं “विदाने जानती “आ “सीदतम्। ततः “नः अस्माकम् “इन्दवे सोमार्थं “स्वासस्थे शोभननिवासस्थाने “भवतम् ॥


पंच॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ ।

अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥३

पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ ।

अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥

पञ्च । पदानि । रुपः । अनु । अरोहम् । चतुःऽपदीम् । अनु । एमि । व्रतेन ।

अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥

“रुपः यष्टॄणां स्वर्गमारोपयितुर्यज्ञस्याङ्गत्वेन संबन्धीनि पञ्चसंख्याकानि धानासोमपशुपुरोडाशाज्याख्यानि “पदानि पदितॄणि होतृत्वेन देवान् प्रति गन्तॄणि हवींषि “अन्वरोहम् अनुरोहामि । शकटे युवयोः स्थापनवहनानन्तरं करणं करोमीत्यर्थः । किंच “चतुष्पदीं चतुर्भिः पादैर्युक्तां त्रिष्टुबादिच्छन्दसं क्रियां “व्रतेन प्रयोगकर्मणा “अन्वेमि अनुगच्छामि। यथाकालं प्रयुनज्मीत्यर्थः । “अक्षरेण प्रणवाख्येन “एताम् उपस्थितां प्रतिगरक्रियां “प्रति “मिमे निर्ममे । अपि च “ऋतस्य यज्ञस्य । “अधि इति सप्तम्यर्थानुवादी। “नाभौ नाभिभूते वेद्याख्ये स्थाने “सं “पुनामि संशोधयामि ।। दशापवित्रेण सोमं संस्करोमीत्यर्थः ॥


दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत ।

बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥४

दे॒वेभ्यः॑ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । कम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ ।

बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि॑म् । प्रि॒याम् । य॒मः । त॒न्व॑म् । प्र । अ॒रि॒रे॒ची॒त् ॥

देवेभ्यः । कम् । अवृणीत । मृत्युम् । प्रऽजायै । कम् । अमृतम् । न । अवृणीत ।

बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत् ॥

"देवेभ्यः देवानां “मृत्युं मारयितारं “कं स्वपुरुषम् “अवृणीत प्रार्थयते प्रयुङ्क्ते। किंच “प्रजायै देवव्यतिरिक्ताया मनुष्यादिकायाः प्रजायाः "अमृतम् अमारकमविनाशकं “कं वा स्वपुरुषं “नावृणीत न प्रयुङ्क्ते । हविर्धारणक्रियायां प्रवृत्तायां सत्यां पूर्वोक्तानां सर्वेषां स्थितेरवश्यंभावित्वान्न कंचिदपि विनाशकं स्वपुरुषं यमो निरूपयतीत्यर्थः। अपि च “बृहस्पतिं बृहतां देवानां हविर्धारणे पालकं बृहतां मन्त्राणां स्वामिनं वा “ऋषिं सर्वस्य दृष्टादृष्टफलस्य द्रष्टारं “यज्ञम् “अकृण्वत ऋत्विग्यजमानाः कुर्वन्ति । अपि च “यमः "प्रियां “तन्वम् अस्मदीयमिष्टं शरीरं “प्रारिरेचीत् । धातूनामनेकार्थत्वात् रिचिरत्र परिहारार्थे वर्तते । प्ररेचयति । मृत्योः सकाशात् परिहरति । कर्मवैगुण्यजनितदोषभावादस्माकं जीवितं नापहरतीत्यर्थः॥


स॒प्त क्ष॑रंति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तं ।

उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥५

स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् ।

उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥

सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् ।

उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥

“मरुत्वते । मरुतः स्तोतारः । स्तुतिद्वारेण तद्वते “पित्रे ऋत्विजां पितृभूताय “शिशवे शंसनीयाय हविर्धानशकटयोः सुखासीनभूताय सोमाय “सप्त च्छन्दांसि “क्षरन्ति स्तुतित्वेन गच्छन्ति । अपि च “पुत्रासः “अपि सोमस्य पुत्रभूता ऋत्विजोऽपि “ऋतं सत्यभूतं स्तोत्रम् “अवीवतन् संगमयन्ति । सद्गुणग्राहिणीं स्तुतिं कुर्वन्तीत्यर्थः । “उभे “इत् द्वे एव हविर्धानशकटे “अस्य “उभयस्य देवजातस्य मनुष्यजातस्य च “राजतः ईशाते । “उभे एव शकटे “यतेते कर्मानुष्ठाने प्रयत्नं कुरुतः । “उभयस्य देवजातस्य मनुष्यजातस्य च “पुष्यतः । हविर्धारणद्वारेण पुष्टिं कुरुत इत्यर्थः ॥ ॥ १३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३&oldid=165421" इत्यस्माद् पुनः प्राप्तिः