ऋग्वेदः सूक्तं १०.३१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.३० ऋग्वेदः - मण्डल १०
सूक्तं १०.३१
कवष ऐलूषः
सूक्तं १०.३२ →
दे. विश्वे देवाः। त्रिष्टुप्


आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः ।
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥१॥
परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् ।
उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥२॥
अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः ।
अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥३॥
नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान ।
भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥४॥
इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् ।
अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥५॥
अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।
अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥६॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥७॥
नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥
स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम ।
मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥९॥
स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा ।
पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥१०॥
उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी ।
प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥११॥


सायणभाष्यम्

' आ नः' इत्येकादशर्चं द्वितीयं सूक्तं कवषस्यार्षं त्रैष्टुभं वैश्वदेवम् । अनुक्रान्तं च - आ न एकादश वैश्वदेवम् ' इति । गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोः पुरोडाशस्य ‘ आ नः' इत्येषानुवाक्या । सूत्रितं च --' विश्वे अद्य मरुतो विश्व ऊत्या नो देवानामुप वेतु शंसः । (आश्व. श्रौ. ३. ७) इति ॥


आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।

तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥१

आ । नः॒ । दे॒वाना॑म् । उप॑ । वे॒तु॒ । शंसः॑ । विश्वे॑भिः । तु॒रैः । अव॑से । यज॑त्रः ।

तेभिः॑ । व॒यम् । सु॒ऽस॒खायः॑ । भ॒वे॒म॒ । तर॑न्तः । विश्वा॑ । दुः॒ऽइ॒ता । स्या॒म॒ ॥१

आ । नः । देवानाम् । उप । वेतु । शंसः । विश्वेभिः । तुरैः । अवसे । यजत्रः ।

तेभिः । वयम् । सुऽसखायः । भवेम । तरन्तः । विश्वा । दुःऽइता । स्याम ॥१

“देवानां स्तोतॄणां “नः अस्माकं “शंसः स्तोतव्यः "यजत्रः यष्टव्यः एवंभूत इन्द्रः “तुरैः त्वरणशीलैः “विश्वेभिः सर्वैः मरुद्भिः सह “अवसे अस्मद्यज्ञरक्षणार्थम् “आ “उप “वेतु उपागच्छतु । “वयम् अपि “तेभिः तैः सह “सुसखायः शोभनसखायः “भवेम स्याम । किंच “विश्वा “दुरिता विश्वानि दुरितानि पापानि “तरन्तः “स्याम ॥


परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् ।

उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥२

परि॑ । चि॒त् । मर्तः॑ । द्रवि॑णम् । म॒म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । नम॑सा । आ । वि॒वा॒से॒त् ।

उ॒त । स्वेन॑ । क्रतु॑ना । सम् । व॒दे॒त॒ । श्रेयां॑सम् । दक्ष॑म् । मन॑सा । ज॒गृ॒भ्या॒त् ॥२

परि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । आ । विवासेत् ।

उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥२

“मर्तः मनुष्यः यजमानः “परि “चित् सर्वतः “द्रविणं विश्वेषां देवानां यागार्थं धनं ममन्यात् । मन्यतिः कान्तिकर्मा । कामयेत लब्धुमिच्छेत् । धनं लब्ध्वा च “ऋतस्य यज्ञस्य “पथा मार्गेण “नमसा हविराख्येनान्नेन “आ “विवासेत् परिचरेत् । “उत अपि च “स्वेन आत्मीयेन “क्रतुना प्रज्ञानेन । मनसेत्यर्थः । “सं “वदेत । संवादोऽत्र समाध्यानमुच्यते । हविर्गृहीत्वा वषट्करिष्यन् विश्वान् देवान् मनसाध्यायेदित्यर्थः । विश्वेषां देवानां यागानन्तरं च तत्प्रसादात् “श्रेयांसम् अतिशयेन प्रशस्यमात्मानं “दक्षं प्रवृद्धं सर्वव्यापिनं “मनसा ध्यानसाधनेनान्तःकरणेन “जगृभ्यात् गृह्णीयात् ॥


अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑ः ।

अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥३

अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ ।

अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥३

अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः ।

अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥३

“धीतिः देवयागक्रिया “अधायि निहिता स्थापिता । अस्माभिः प्रवर्तितेत्यर्थः । तदनन्तरम् “ऊमाः अवितारस्तर्पयितारः “अंशाः अस्माभिर्दत्ता हविर्भागाः “दस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा “अससृग्रम् असमानसृष्टिम् । उत्कृष्टजन्मानमित्यर्थः । एवंभूतं देवसंघम् “उप “यन्ति उपगच्छन्ति । तत्र दृष्टान्तः । “तीर्थे “न । यथा गङ्गादितीर्थे तर्पणमुखे विसृष्टा अपामंशाः देवसंघमुपगच्छन्ति तद्वत् । तदनन्तरं वयं “सुवितस्य सु इतस्य सुष्ठु प्राप्तस्य स्वर्गादिकस्य “शूषं सुखम् “अभ्यानश्म अभिप्राप्नवाम। किंच वयम् "अमृतानां देवानां “नवेदसः । न वेदेत्येतस्मिन्नर्थे नवेदः शब्दो ‘नभ्राण्नपान्नवेदा' इति निपातितः । न न वेत्तारो वेत्तार एव । स्वरूपतो ज्ञातार एवेत्यर्थः । “अभूम भवेमेत्याशास्महे ॥


नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ ।

भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥४

नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊं॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ ।

भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥४

नित्यः । चाकन्यात् । स्वऽपतिः । दमूनाः । यस्मै । ऊं इति । देवः । सविता । जजान ।

भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥४

नित्यः कल्पावस्थायी प्रजापतिः “चाकन्यात् । तस्मै दृष्टादृष्टफलं दातुं कामयतां । कीदृशः। “स्वपतिः स्वीयानां प्रजानां स्वामी धनपतिर्वा “दमूनाः दानमनाः । कस्मै कामयतामिति उच्यते । “उ उत अपि च “यस्मै यजमानाय मह्यं “सविता सर्वस्य प्रेरको “देव: “जजान जनितवान् । दृष्टादृष्टफलं दत्तवानित्यर्थः । वाशब्दः समुच्चये । तथा “भगः देवश्च “गोभिः अस्मदीयाभिः स्तुतिरूपाभिः वाग्भिः स्तुतः “अर्यमा देवश्च “ईम् ईदृग्भूतं दृष्टादृष्टफलम् “अनज्यात व्यक्तीकुर्यात् । दद्यादित्यर्थः । “उत अपि च “स्यात् अन्योऽपि “यो देवगणोऽस्ति “चारुः रमणीयः “सः अपि देवगणः “अस्मै यजमानाय मह्यं “छदयत् दृष्टादृष्टफलं दातुं कामयतामित्येतदाशास्महे ॥ , इयं सा भूया उषसामिव क्षा यद्धं क्षुमन्तुः शवसा समार्यन् ।।


इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मन्त॒ः शव॑सा स॒माय॑न् ।

अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ न॑ः श॒ग्मास॒ उप॑ यन्तु॒ वाजा॑ः ॥५

इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् ।

अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥५

इयम् । सा । भूयाः । उषसाम्ऽइव । क्षाः । यत् । ह । क्षुऽमन्तः । शवसा । सम्ऽआयन् ।

अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥५

“लुमन्तः । क्षुशब्दोऽन्नवाची शब्दवाची वा । अन्नवन्तः स्तुतिमन्तः कीर्तिमन्तो वेत्यर्थः । एवंभूता देवाः “शवसा बलेन “यत् यामस्मदीयां स्तुतिं प्रति “समायन् समागच्छन् संप्राप्ताः “सा “इयं स्तुतिर्देवानां प्राप्या “भूयाः भूयात् भवतु । “उषसामिव “क्षाः । यथा पृथिवी उषसां व्याप्त्या सर्वेषां प्राप्या भवति तद्वत् । किंच “जरितुः स्तोतुः “अस्य मम “स्तुतिं "भिक्षमाणाः याचमानाः “शग्मासः । शग्ममिति सुखनाम । सुखाः सुखकराः “वाजाः सुधन्वनः पुत्रास्त्रयोऽप्यृभुर्विभ्वा वाज इत्येते "नः अस्मानाभिमुख्येन “उप “यन्तु उपगच्छन्तु ॥ ॥ २७ ॥


अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः ।

अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥६

अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः ।

अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥६

अस्य । इत् । एषा । सुऽमतिः । पप्रथाना । अभवत् । पूर्व्या । भूमना । गौः ।

अस्य । सऽनीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः ॥६

“इत् इदानीम् “अस्य देवगणसंबन्धिनी “एषा “सुमतिः सुष्टुतिः “पप्रथानाभवत् विस्तीर्यमाणाभूत् । अस्माभिः क्रियमाणेत्यर्थः । कीदृशी । “पूर्व्या पूर्वकालीना “भूमना भूम्ना बहुत्वेन युक्तेति शेषः । सर्वदेवसंबन्धित्वाद्भृशं जातेत्यर्थः । “गौः देवान्प्रति गन्त्री । एतज्ज्ञात्वा सर्वे देवाः "असुरस्य प्रजारूपबलवतः “अस्य मम संबन्धिनि “समाने सर्वदेवसाधारणे “भरणे सर्वेषां देवानां पुष्टिकरे “योनौ यज्ञाख्ये स्थाने “सनीळाः समानस्थानाः “बिभ्रमाणाः अस्मदर्थं दृष्टादृष्टफलं धारयन्तः “आ गच्छन्त्विति शेषः ॥


किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥७

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।

स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥७

किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।

सन्तस्थाने इति सम्ऽतस्थाने । अजरे इति । इतऊती इतीतःऽऊती । अहानि । पूर्वीः । उषसः । जरन्त ॥७

“यतः यस्माद्वृक्षात् “द्यावापृथिवी द्यावापृथिव्यौ “निष्टतक्षुः देवाः निःशेषेण कृतवन्तः “सः तादृशः “वृक्षः “क “उ “आस कीदृग्वा बभूव । तदुत्पादकं “वनम् अरण्यं “किं “स्वित् । संतस्थाने सम्यक्तिष्ठन्त्यौ "अजरे जरावर्जिते “इतऊती इत एतेभ्यो देवेभ्यो रक्षणं ययोस्ते । किंच “अहानि सर्वाणि दिनानि “पूर्वीः बह्वीः “उषसः च देवा निष्टतक्षुः । एवंभूतान् देवान् “जरन्त स्तोतारः स्तुवन्ति ॥


नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति ।

त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह॑न्ति ॥८

न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा॑पृथि॒वी इति॑ । बि॒भ॒र्ति॒ ।

त्वच॑म् । प॒वित्र॑म् । कृ॒णु॒त॒ । स्व॒धाऽवा॑न् । यत् । ई॒म् । सूर्य॑म् । न । ह॒रितः॑ । वह॑न्ति ॥८

न । एतावत् । एना । परः । अन्यत् । अस्ति । उक्षा । सः । द्यावापृथिवी इति । बिभर्ति ।

त्वचम् । पवित्रम् । कृणुत । स्वधाऽवान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति ॥८

द्यावापृथिव्योर्निर्माणरूपम् “एतावत् देवजातं सामर्थ्येन युक्तमिति “न अपि तु “एना एतेभ्यो देवेभ्यः “परः उत्कृष्टः “अन्यत् अन्यो हिरण्यगर्भः “अस्ति। “उक्षा सेक्ता । प्रजानां स्रष्टेत्यर्थः । हिरण्यगर्भः परमसूक्ष्मो वायुरूपो लिङ्गात्मा अपः प्रविश्य द्यावापृथिवी द्यावापृथिव्यौ “बिभर्ति धारयति । किंच “स्वधावान् बलवानन्नवान् वा स हिरण्यगर्भः “पवित्रं पवित्रमयं “त्वचम् अत्मीयं शरीरं दीप्तं मन्त्रं वा “कृणुत करोति । कदेति उच्यते । “यत् यदा “ईम् इमां त्वचं “हरितः अश्वाः “सूर्यं “न “वहन्ति न प्रापयन्ति तदेति । सृष्टेः प्रागित्यर्थः ॥


स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ ।

मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥९

स्ते॒गः । न । क्षाम् । अति॑ । ए॒ति॒ । पृ॒थ्वीम् । मिह॑म् । न । वातः॑ । वि । ह॒ । वा॒ति॒ । भूम॑ ।

मि॒त्रः । यत्र॑ । वरु॑णः । अ॒ज्यमा॑नः । अ॒ग्निः । वने॑ । न । वि । असृ॑ष्ट । शोक॑म् ॥९

स्तेगः । न । क्षाम् । अति । एति । पृथ्वीम् । मिहम् । न । वातः । वि । ह । वाति । भूम ।

मित्रः । यत्र । वरुणः । अज्यमानः । अग्निः । वने । न । वि । असृष्ट । शोकम् ॥९

“स्तेगः । ‘ स्त्यै ष्ट्यै शब्दसंघातयोः'। रश्मिसंघाती आदित्यः “पृथ्वीं विस्तीर्णां “क्षां भूमि तेजसा “न “अत्येति नातिगच्छति । मर्यादया तिष्ठतीत्येवमादित्यः स्तूयते । “वातः वायुरपि खलु “भूम भूमिं “मिहं वृष्टिं “न “वि “वाति समर्थोऽपि सन् विविधं न गमयति । भूमिं प्रति सावशेषमेव वर्षयतीति वातः स्तूयते । “यत्र यस्मिन् प्रजापतौ “मित्रः देवः “अज्यमानः व्यज्यमानः व्यक्तीभवन् । उत्पाद्यमान इत्यर्थः । “शोकं स्वीयां दीप्तिं “व्यसृष्ट विसृजति सर्वतो विक्षिपति तथा “वरुणः च व्यक्तीभवन् स्वदीप्तिं विक्षिपति । तत्र दृष्टान्तः । “अग्निः देवः “वने “न यथा वृक्षसंघाते स्वदीप्तिं सर्वतो विसृजति तद्वत् । तादृशं प्रजापतिं स्तौमीति शेषः ।।


स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा ।

पु॒त्रो यत्पूर्व॑ः पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥१०

स्त॒रीः । यत् । सूत॑ । स॒द्यः । अ॒ज्यमा॑ना । व्यथिः॑ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्वऽगो॑पा ।

पु॒त्रः । यत् । पूर्वः॑ । पि॒त्रोः । जनि॑ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥१०

स्तरीः । यत् । सूत । सद्यः । अज्यमाना । व्यथिः । अव्यथीः । कृणुत । स्वऽगोपा ।

पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान् ॥१०

अरण्योः कारणभूतां शमीं गोत्वेन रूपयति । “स्तरीः निवृत्तप्रसवा गौः “सद्यः शीघ्रम् “अज्यमाना निषिच्यमानरेतस्का सती “यत् यदा “सूत वत्सं प्रसूते तदा “व्यथिः दुःखानां बाधयित्री “स्वगोपा स्वायत्तगोप्तृका स्वभूतरक्षणा वा सती सा गौः “अव्यथीः व्यथारहिताः प्रजाः “कृणुत करोति । यदा शमी पुत्रस्थानीयमश्वत्थं प्रसूते तदानीमरण्याहरणाय तादृशमश्वत्थमन्विष्यतामृत्विजामश्वत्थस्य जनयित्री शमी सुखहेतुर्भवतीत्यर्थः। शमीगर्भादश्वत्थादरणी आहर्तव्ये । श्रूयते हि - शमीगर्भादग्निं मन्थन्ति ' ( तै. ब्रा. १.१.९ ) इति । अपि च “पूर्वः पुरातनः “पुत्रः । पुन्नाम्नो नरकात् त्राता । यद्वा । पुत्रस्थानीयोऽग्निः । “पित्रोः जनयित्र्योररण्योः सकाशात् “यत् यदा “जनिष्ट मथनेन प्रादुर्भवति तदानीं “गौः पृथिवी तयोररण्योर्मातृभूतां “शम्याम् अश्वत्थगर्भां तां शमीम् । ‘सुपां सुलुक्' इति सुपो ड्यादेशः । “जगार उद्गिरति । “यद्ध यां खलु शमीं “पृच्छान् ऋत्विजः पृच्छन्ति वीप्सन्ति गवेषयन्ति ॥


उ॒त कण्वं॑ नृ॒षद॑ः पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।

प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑रृ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥११

उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी ।

प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥११

उत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी ।

प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥११

“उत अपि च “कण्वम् ऋषिं “नृषदः “पुत्रमाहुः वेदवादिनो वदन्ति । "उत अपि च “वाजी हविर्लक्षणान्नवान् कण्वः “श्यावः श्यामवर्णः सन्नस्मादग्नेः सकाशात् “धनमादत्त अगृह्णात् । “कृष्णाय श्यामवर्णाय नार्षदाय कण्वायाग्नेः “ऊधः “रुशत् रोचमानरूपं “प्र “अपिन्वत प्रासिञ्चत् । “अत्र इत्थमग्निव्यतिरिक्तः कश्चिदपि देवः “अस्मै कण्वाय “ऋतं यज्ञं “नकिः “अपीपेत् नावर्धयत् । 'युवं श्यावाय रुशतीमदत्तम् ' (ऋ. सं. १. ११७. ८) इत्युक्तम् ॥ ॥ २८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३१&oldid=202075" इत्यस्माद् पुनः प्राप्तिः