ऋग्वेदः सूक्तं १०.१३१
← सूक्तं १०.१३० | ऋग्वेदः - मण्डल १० सूक्तं १०.१३१ सुकीर्तिः काक्षीवतः |
सूक्तं १०.१३२ → |
दे. इन्द्रः, ४-५ अश्विनौ। त्रिष्टुप्, ४ अनुष्टुप् |
अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥१॥
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
युवं सुराममश्विना नमुचावासुरे सचा ।
विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥५॥
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥७॥
सायणभाष्यम्
‘ अप प्राचः' इति सप्तर्चं तृतीयं सूक्तं कक्षीवतः पुत्रस्य सुकीर्तेरार्षम् । चतुर्थ्यनुष्टुप् शिष्टाः षट् त्रिष्टुभः । चतुर्थीपञ्चम्यावश्विदेवत्ये शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तम्--- ‘ अप प्राचः सुकीर्तिः काक्षीवतो मध्येऽनुष्टुप्सोत्तरा चाश्विन्यौ ' इति । षष्ठेऽहनि ब्राह्मणाच्छंसिन उक्थशस्त्र एतत्सूक्तम् । सूत्रितं च --‘सुकीर्तिं ब्राह्मणाच्छंसी वृषाकपिं च पङ्क्तिशंसम् ' ( आश्व. श्रौ. ८.४) इति । चातुर्विंशिकेऽहनि माध्यंदिने सवने मैत्रावरुणस्य ‘ अप प्राचः' इत्येषारम्भणीया कद्वत्प्रगाथानन्तरं शंसनीया । सूत्रितं च----‘कद्वन्तः प्रगाथा अप प्राच इन्द्र विश्वाँ अमित्रान्' (आश्व. श्रौ. ७.४) इति । अहर्गणेष्वपि द्वितीयादिष्वहःसु तस्यैव तस्मिन्नेव शस्त्र आरम्भणीया । सूत्रितं च ----- ‘ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव' (आश्व. श्रौ. ७.१) इति ॥
अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥१
अप॑ । प्राचः॑ । इ॒न्द्र॒ । विश्वा॑न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒भि॒ऽभू॒ते॒ । नु॒द॒स्व॒ ।
अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ । उ॒रौ । यथा॑ । तव॑ । शर्म॑न् । मदे॑म ॥१
अप । प्राचः । इन्द्र । विश्वान् । अमित्रान् । अप । अपाचः । अभिऽभूते । नुदस्व ।
अप । उदीचः । अप । शूर । अधराचः । उरौ । यथा । तव । शर्मन् । मदेम ॥१
हे “इन्द्र “प्राचः प्रमुखमञ्चतः प्राग्देशे वर्तमानान् । अस्मत्तः पूर्वभागे वर्तमानानित्यर्थः । प्रपूर्वादञ्चतेः ‘ ऋत्विक् इत्यादिना क्विन् । ‘ अनिदिताम्' इति, नलोपः । शसि ‘ अचः । इत्यकारलोपे ' चौ ' इति दीर्घत्वम् ।“ अनिगन्तोऽञ्चतौ वप्रत्यये' (पा. सू. ६.२.५२) इति गतेः प्रकृतिस्वरत्वम् । तादृशान् “विश्वान् सर्वान् “अमित्रान् शत्रून् “अप “नुदस्व अस्मत्तोऽपगमय । तथा हे “अभिभूते शत्रूणामभिभवितरिन्द्र “अपाचः अपमुखमञ्चतः पृष्ठभागे वर्तमानान् सर्वान् शत्रून् अप नुदस्व । अपि च “उदीचः ऊर्ध्वमञ्चतः उपरिवर्तमानान् । उत्पूर्वादञ्चतेः पूर्ववत् क्विनि ‘ उद ईत्' इत्यञ्चतेरकारस्येकारः । पूर्ववत्स्वरः । तथाविधानपि शत्रून “अप नुदस्व। तथा हे “शूर शौर्यवन्निन्द्र “अधराचः अधरदेशमधोभागमञ्चतश्च अधस्तनानपि शत्रून् “अप नुदस्व । अधरशब्दोपपदादञ्चतेः शसि पूर्ववत् प्रक्रिया । “चौ ' इति पूर्वपदस्यान्तोदात्तः । “उरौ विस्तीर्णे “तव संबन्धिनि त्वया दत्ते “शर्मन् शर्मणि गृहे सुखे वा “यथा वयं “मदेम निरुपद्रवाः सन्तो हृष्येम तथा त्वं सर्वत्र वर्तमानानस्मदीयान् शत्रून् विनाशयेत्यर्थः ॥
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥२
कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ ।
इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥२
कुवित् । अङ्ग । यवऽमन्तः । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूय ।
इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःऽवृक्तिम् । न । जग्मुः ॥२
“अङ्ग हे इन्द्र “यवमन्तः यवादिधान्ययुक्ताः कर्षकाः “यवं “चित् । उपलक्षणमेतत् । यवगोधूमादीन् “अनुपूर्वं यो यो धान्यविशेषः प्रथमं पच्यते तेनानुपूर्व्येण “वियूय पृथक्कृत्य “यथा “कुवित् बहुलं "दान्ति लुनन्ति । ‘दाप् लवने ' । आदादिकः । विपूर्वात् यौतेर्ल्यपि ‘युप्लुवोर्दीर्घश्छन्दसि ( पा. सू. ६.४.५८ ) इति दीर्घः । एवम् “इहेह अस्मिन्नस्मिन् देशे सर्वस्मिन् “एषां यजमानानां “भोजनानि । धननामैतत् । भोगसाधनानि धनानि “कृणुहि कुरु। यस्मिन् यस्मिन् देशे यद्धनमपेक्षितं तदनुगुणं प्रयच्छेत्यर्थः ॥ ‘उतश्च प्रत्ययाच्छन्दसि वावचनम् ' (पा. सू. ६.४. १०६.१) इति हेर्लुगभावः । एषामित्युक्तं के पुनरिमे इत्यत आह । “ये यजमानाः “बर्हिषः यज्ञस्य “नमोवृक्तिं नमसो हविर्लक्षणस्यान्नस्य नमस्कारात्मकस्य स्तोत्रस्य वा वर्जनमकरणं “न “जग्मुः न प्राप्नुवन्ति किंतु सर्वदा हविर्भिर्यजन्ति स्तुतिभिः स्तुवन्ति च । एषां कृणुहीत्यन्वयः ॥
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥३
न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ।
ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ॥३
नहि । स्थूरि । ऋतुऽथा । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्ऽगमेषु ।
गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ॥३
एकेन धुर्येण युक्तमनः स्थूरि इत्युच्यते । "ऋतुथा ऋतौ यद्यस्मिन् काले प्राप्तव्यं तद्योग्यकाले “स्थूरि “अनः “यातं तं देशं प्राप्तं “नहि “अस्ति न हि भवति । एकेन धुर्येण युक्तः शकटः शीघ्रं गन्तव्यं न प्राप्नोतीत्यर्थः । “उत अपि च “संगमेषु संग्रामेषु “श्रवः अन्नं यशो वा “न “विविदे न लभते । इन्द्रस्तु उक्तविलक्षणः । “वृषणं वर्षितारं तम् “इन्द्रं “गव्यन्तः गा इच्छन्तः “विप्राः मेधाविनो वयं “सख्याय सखिकर्मणे आह्वयाम इति शेषः । कथंभूताः । “अश्वायन्तः अश्वानप्यात्मन इच्छन्तः “वाजयन्तः अन्नकामा बलकामाश्च ॥
सौत्रामण्यां सुराग्रहाणां पुरोनुवाक्या ‘युवम्' इत्येषा । सूत्रितं च -- युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या ' (आश्व. श्रौ. ३.९) इति ॥
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥४
यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ ।
वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥४
युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा ।
विऽपिपाना । शुभः । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥४
हे “अश्विना अश्विनौ हे “शुभस्पती उदकस्य शोभनालंकारस्य वा पती पालयितारौ “सुरामं सुष्ठु रमणसाधनमिदं हविः “विपिपाना विशेषेण पीतवन्तौ “युवं युवां “सचा सन्तौ संगतौ “आसुरे असुरपुत्रे “नमुचौ एतत्संज्ञे असुरे हन्तव्ये सति “कर्मसु योधनकर्मसु “इन्द्रम् “आवतम् अरक्षतम् ॥ विपिपाना।' पा पाने ' इत्यस्मात् लिटः कानच्। ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । शुभस्पती इति • सुबामन्त्रिते°' इति षष्ठ्यन्तस्य पराङ्गवद्भावात षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥
पूर्वोक्तानामेव ग्रहाणां ‘ पुत्रमिव' इति याज्या । सूत्रितं च – ‘पुत्रमिव पितरावश्विनोभेति याज्या' (आश्व. श्रौ. ३.९) इति ॥ ।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒ः काव्यै॑र्दं॒सना॑भिः ।
यत्सु॒रामं॒ व्यपि॑ब॒ः शची॑भि॒ः सर॑स्वती त्वा मघवन्नभिष्णक् ॥५
पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ । दं॒सना॑भिः ।
यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती । त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥५
पुत्रम्ऽइव । पितरौ । अश्विना । उभा । इन्द्र । आवथुः । काव्यैः । दंसनाभिः ।
यत् । सुरामम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघऽवन् । अभिष्णक् ॥५
हे “इन्द्र त्वां “पितरौ मातापितरौ “पुत्रमिव ॥ ‘ पिता मात्रा' (पा. सू. १.२.७०) इति पितुः शेषः । “उभा उभौ अश्विनौ “काव्यैः प्रशस्यैः “दंसनाभिः आत्मीयैः कर्मभिः “आवथुः । मध्यमो व्यत्ययेन । आवतुः ररक्षतुः । त्वं च “सुरामं सुखेन रमणसाधनं हविः “यत् यदा “शचीभिः शक्तिभिः सार्धं “व्यपिबः विशेषेण पीतवानसि तदा हे “मघवन् धनवन्निन्द्र “सरस्वती देवी “त्वा त्वाम् “अभिष्णक् उपासेवत । भिष्णक् उपसेवायाम् । कण्ड्वादिः । छान्दसो यगभावः । लङि ‘ बहुलं छन्दसि' इति शपो लुक् । 'हल्ङ्याब्भ्यः' इति लोपः ॥
इन्द्र॑ः सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥६
इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।
बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥६
इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृळीकः । भवतु । विश्वऽवेदाः ।
बाधताम् । द्वेषः । अभयम् । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥६
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑ः सनु॒तर्यु॑योतु ॥७
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥७
तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।
सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥७
‘ त्रातारमिन्द्रम्' इत्यस्मिन् वर्गे व्याख्याते (ऋ . सं. ६.४७.१२-१३) । अक्षरार्थस्तु । सुष्ठु त्राता धनवान् सर्वस्य वेदिता इन्द्रो रक्षणैः सुष्ठु सुखयिता भवतु शत्रूंश्च हिनस्तु भयराहित्यं च करोत्वस्माकम् । अतो वयं शोभनवीर्योप्रेतस्य धनस्य स्वामिनो भवेमेति ॥ सप्तम्यास्तु । तस्य यज्ञार्हस्य इन्द्रस्यानुग्रहबुद्धौ भजनीये सौमनस्ये च वयं विषयभूता भवेम । सुष्ठु त्राता धनवान् स इन्द्रोऽस्मत्तो दूर देशे द्वेष्टॄनन्तर्धानं योजयत्विति ॥ ॥ १९ ॥
टिप्पणी
कीर्ति उपरि संक्षिप्तटिप्पणी एवं संदर्भाः
अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसत्यपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूपमभयमिव हि यन्निच्छति - ऐ.ब्रा. ६.२२
....तथा ह राष्ट्रं पुनरवगच्छत्युपस्थायामित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येत्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा अनमित्रमभयं भवति - ऐ.ब्रा. ८.१०.८
अप प्राच इन्द्र विश्वान् अमित्रान् इति सौकीर्तिम् मैत्रावरुणो अपनुत्तवतीम् पाप्मन एव अपनुत्त्यै । - कौ.ब्रा. २९.४
पृष्ठ्यषडहे षष्ठम् अहः। शिल्पानि --- ...प्राणम् एव तद् यजमाना रोहन्ति । तम् ब्राह्मणाच्छंसिने प्रयच्छति । तम् स सुकीर्तिना योनिना प्रतिगृह्णाति जातम् । - कौ.ब्रा. ३०.५
अप प्राच इति सदा मैत्रावरुणस्योक्थमुखीया शांश्रौसू. १२.३.५
अप प्राच इति सुकीर्तिं शस्त्वा पङ्क्तिशंसं वृषाकपिं मध्यमस्य पादस्य द्वितीयोत्तमयोरक्षरयोर्न्यूङ्खयति शांश्रौसू. १२.१३.१
सोम पृष्ठ्य षडह षष्ठम् अहः-- अपप्राच इन्द्रे ति सुकीर्त्तिः २ तस्यार्धर्चशश्चतुर्थीं आश्रौसू ८.३.३
१०.१३१.४ यु॒वं सु॒राम॑मश्विना इति
मण्डल १० | ||||
---|---|---|---|---|