ऋग्वेदः सूक्तं १०.१३४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१३४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१३३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१३४
मान्धाता यौवनाश्वः (१-६), गोधा(७)
सूक्तं १०.१३५ →
दे. इन्द्रः । छ. महापंक्तिः (१-६), पंक्तिः (७)


उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१॥
अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् ।
अधस्पदं तमीं कृधि यो अस्माँ आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥२॥
अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् ।
शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥३॥
अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे ।
रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥४॥
अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः ।
दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥५॥
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥६॥
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि ।
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥७॥


सायणभाष्यम्

‘उभे यत्' इति सप्तर्चं षष्ठं सूक्तं युवनाश्वपुत्रस्य मान्धातुरार्षम् । 'पूर्वेण' इत्यर्धर्चसहितायाः सप्तम्यास्तु गोधा नाम ब्रह्मवादिन्यृषिः । सप्तमी पङ्क्तिः । शिष्टाः षळष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तम्---'उभे यन्मान्धाता यौवनाश्वो महापाङ्क्तं पङ्क्तिरन्या तामध्यर्धा गोधापश्यत्' इति । गतः सूक्तविनियोगः । चतुर्विंशिकेऽहनि माध्यंदिनेऽच्छावाकस्याद्यस्तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च--- 'उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो ' (आश्व. श्रौ. ७. ४) इति ॥


उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।

म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥१

उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । आ॒ऽप॒प्राथ॑ । उ॒षाःऽइ॑व ।

म॒हान्त॑म् । त्वा॒ । म॒हीना॑म् । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥१

उभे इति । यत् । इन्द्र । रोदसी इति । आऽपप्राथ । उषा:इव ।

महान्तम् । त्वा । महीनाम् । सम्ऽराजम् । चर्षणीनाम् ।। देवी । जनित्री। अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। १ ।।

हे “इन्द्र उभे रोदसी द्यावापृथिव्यौ "यत् यस्त्वम् "आपप्राथ तेजसाप्रासि आपूरयसि । प्रा पूरणे'। आदादिकः । छान्दसो लिट् । "उषाइव यथोषाः स्वभासा सर्वं जगदापूरयति तद्वत् । तं "महीनां महतां देवानामपि "महान्तम् अधिकं चर्षणीनां मनुष्याणामपि सम्राजम् ईश्वरमिन्द्रं “त्वा त्वां देवी देवनशीला “जनित्री साधु जनयित्री अदितिः "अजीजनत् अजनयत् । जनेर्ण्यन्तात्, लुङि चङि रूपमैतत् । यस्मादेषा “जनित्री ईदृशं पुत्रम् अजीजनत् अतः कारणात् सा भद्रा कल्याणी प्रशस्ता जाता। जनेर्ण्यन्तात् साधुकारिणि तृन् । ' जनिता मन्त्रे' इतीयादौ णिलोपो निपत्यते।'ऋश्वेभ्यः' इति ङीप् ॥


अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् ।

अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥२

अव॑ । स्म॒ । दुः॒ऽह॒ना॒य॒तः । मर्त॑स्य । त॒नु॒हि॒ । स्थि॒रम् ।

अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒ऽदिदे॑शति । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥२

अव । स्म । दुःऽहनायतः । मर्तस्य । तनुहि । स्थिरम् । अधःपदम् । तम् । ईम् । कृधि । यः । अस्मान् । आऽदिदेशति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री। अजीजनत् ॥ २ ॥

"दुर्हणायतः दुःखप्रदं हननमाचरतः "मर्तस्य मनुष्यस्य शत्रोः "स्थिरं दृढं बलम् "अव "तनुहि। अवततं नीचीनं कुरु। "स्म इति पूरकः । तं शत्रुम् "ईम् एनम् "अधस्पदं पादयोरधस्ताद्वर्तमानं "कृधि कुरु। “यः शत्रुः अस्मानादिदेशति जिघांसति । समानमन्यत् ॥


अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् ।

शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥३

अव॑ । त्याः । बृ॒ह॒तीः । इषः॑ । वि॒श्वऽच॑न्द्राः । अ॒मि॒त्र॒ऽह॒न् ।

शची॑भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥३

अव । त्याः । बृहतीः । इषः । विश्वऽचन्द्राः । अमित्रऽहन् ।

शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊतिऽभिः ।। देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। ३ ।।

हे "अमित्रहन् अमित्राणां शत्रूणां हन्तर्हे "शक "इन्द्र शचीभिः आत्मीयाभिः शक्तिभिः आत्मीयैः कर्मभिर्वा "त्याः ताः प्रसिद्धाः "बृहतीः महतीः । बृहन्महतोरुपसंख्यानम्' इति ङीप उदात्तत्वम् । “विश्वश्चन्द्राः । विश्वानि सर्वाणि चन्द्राणि हिरण्यानि यासां तादृशीः । 'ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे' इति सुडागमः। बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । एवंभूताः “इषः अन्नानि "विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः सार्धम् "अव “धूनुहि अस्मास्ववाड्मुखं कम्पय । अस्मदभिमुखं गमयेत्यर्थः । गतमन्यत् ॥


चातुर्विंशिकेऽहनि माध्यंदिनेऽच्छावाकस्य 'अव यत्त्वम्' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रं तु सूक्तादावुदाहृतम् ।।

अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे ।

र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥४

अव॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे ।

र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥४

अव । यत् । त्वम् । शतक्रतो इति शतऽक्रतो । इन्द्र । विश्वानि । धूनुषे ।।

रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिऽभिः ।। देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।।४।।

हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा "इन्द्र "सुन्वते सोमाभिषवं कुर्वते । सुनोतेर्लटः शतृ । 'हुश्नुवोः सार्वधातुके' इति यण् । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ईदृशाय यजमानाय “यत् यदा "त्वं “विश्वानि व्याप्तान्यन्नानि धनानि वा “अव “धूनुषे अभिगमयसि ददासीत्यर्थः । तदा "रयिं “न रयिं च पुत्ररूपं धनं च "सहस्रिणीभिः सहस्रसंख्यायुक्ताभिः “ऊतिभिः रक्षाभिः “सचा सह प्रदेहि । गतमन्यत् ॥


अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ ।

दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥५

अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ ।

दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥५

अव । स्वेदाःऽइव । अभितः । विष्वक् । पतन्तु । दिद्यवः ।

दूर्वायाःऽइव । तन्तवः । वि । अस्मत् । एतु । दुःऽमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ।। ५ ।।

“स्वेदाइव गात्रात् स्वेदबिन्दव इव “अभितः सर्वतः दिद्यवः द्योतमानान्यायुधानीन्द्रस्य दीप्तयो वा "विष्वक् नानामुखाः "अव “पतन्तु निपतन्तु । "दूर्वायाइव "तन्तवः । यथा दूर्वाकाण्डा बहुशः प्ररोहन्ति एवं बहुशो विस्तृता दृश्यन्ते। “दुर्मतिः दुष्टाभिसंधिः शत्रुः अस्मत् अस्मत्तः “वि “एतु वियुत्य गच्छतु । गतमन्यत् ॥


दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः ।

पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥६

दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ ।

पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥६

दीर्घम् । हि। अङ्कुशम् । यथा । शाक्तिम् । बिभर्षि । मन्तुऽमः ।

पूर्वेण । मघवन् । पदा। अजः । वयाम् । यथा । यमः ।। देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ ६ ॥

"दीर्घम् आयतम् "अङ्कुशं सृणिं "यथा “बिभर्षि एवमायतां शक्तिं हे "मन्तुमः। मन्तुर्ज्ञानम्। तद्वन् ।' मतुवसो रुः' इति संबुद्धौ नकारस्य रुत्वम् । ईदृशेन्द्र “बिभर्षि धारयसि ।' डुभृञ् धारणपोषणयोः। जौहोत्यादिकः । श्लौ भृञामित्' इत्यभ्यासस्येत्वम् । हे "मघवन् धनवन्निन्द्र यथा “पूर्वेण देहस्य पूर्वभागे वर्तमानेन “पदा पदेन अजः छागः “वयाँ शाखामाकर्षति तथा पूर्वोक्तया शक्त्याकृष्य "यमः शत्रून् नियच्छसि । यमेर्लेट्यागमः। 'बहुलं छन्दसि” इति शपो लुक् । गतमन्यत् ॥


नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि ।

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥७

नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ ।

प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥७

नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि ।।

पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥ ७ ॥

हे "देवाः इन्द्रादयः युष्मद्विषये "नकिः “मिनीमसि न किमपि हिंस्मः। मीङ् हिंसायाम् । क्रैयादिकः । मीनातेर्निगमे' इति ह्रस्वः । इदन्तो मसिः । आकारः समुच्चये। "नकिः न किंच “योपयामसि योपयामः। अननुष्ठानेन विमोहयामः । युप विमोहने । किं तर्हि । “मन्त्रश्रुत्यं मन्त्रेण स्मार्यं श्रुतौ विधिवाक्ये प्रतिपाद्यं युष्मद्विषयं कर्म तत् “चरामसि आचरामः । अनुतिष्ठामः। अपि च पक्षेभिः पक्षैः पक्षस्थानीयैः स्तुतशस्त्रैः “अपिकक्षेभिः । अपिकक्षो नाम बाह्वोर्मध्यभागः । यज्ञस्य अपिकक्षभूतैर्हविर्भिः “अत्र अस्मिन् यज्ञेऽभितः सर्वतो युष्मान् “सं “रभामहे सम्यगवलम्बामहे ॥ ॥ २२ ॥

[सम्पाद्यताम्]

टिप्पणी

मान्धाता उपरि आरम्भिक टिप्पणी


श्येनः (ऊह्यगानम्)

श्येनः (आरण्यकगानम्)

उभे यदिन्द्र रोदसी इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै.........श्येनो भवति। श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते। श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च - तां.ब्रा. १३.१०.१४

१०.१३४.६ दीर्घं ह्यंकुशं यथा इति

अङ्कुशोपरि टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३४&oldid=307129" इत्यस्माद् प्रतिप्राप्तम्