ऋग्वेदः सूक्तं १०.१६२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१६२ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१६१ ऋग्वेदः - मण्डल १०
सूक्तं १०.१६२
ब्राह्मो रक्षोहा
सूक्तं १०.१६३ →
दे. रक्षोहा। अनुष्टुप्


ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥१॥
यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥२॥
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस्ते जिघांसति तमितो नाशयामसि ॥३॥
यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
योनिं यो अन्तरारेळ्हि तमितो नाशयामसि ॥४॥
यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥५॥
यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥६॥


सायणभाष्यम्

' ब्रह्मणाग्निः ' इति षडृचमेकादशं सूक्तमानुष्टुभम् । ब्रह्मपुत्रो रक्षोहा नामर्षिः । अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम् । अनुक्रान्तं च --' ब्रह्मणा षड् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्टुभं हि इति । विनियोगो लिङ्गादवगन्तव्यः ।।


ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।

अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥ १

ब्रह्म॑णा । अ॒ग्निः । स॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।

अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥१

ब्रह्मणा । अग्निः । सम्ऽविदानः । रक्षःऽहा । बाधताम् । इतः ।

अमीवा । यः । ते । गर्भम् । दुःऽनामा । योनिम् । आऽशये ॥१

“ब्रह्मणा मन्त्रेण सह “संविदानः ऐकमत्यं प्राप्तः “रक्षोहा रक्षसां हन्ता “अग्निः “इतः अस्मात्स्थानात् राक्षसादिकं “बाधतां हिनस्तु । “यः राक्षसः “अमीवा रोगरूपः सन् “ते तव “गर्भम् “आशये आशेते । ' लोपस्त आत्मनेपदेषु ' इति तलोपः । हन्तुं प्राप्नोति । “दुर्नामा अर्शआख्यो रोगः । तद्रूपः सन् यश्च ते तव “योनिं रेतस आधानं गर्भस्थानमाशेते तं बाधतामित्यन्वयः।।


यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।

अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥ २

यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।

अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥२

यः । ते । गर्भम् । अमीवा । दुःऽनामा । योनिम् । आऽशये ।

अग्निः । तम् । ब्रह्मणा । सह । निः । क्रव्यऽअदम् । अनीनशत् ॥२

गतः पूर्वोऽर्धर्चः । गतः पूर्वोऽर्धर्चः । "तं "क्रव्यादं मांसाशिनं राक्षसादिकं "ब्रह्मणा सहितः "अग्निः निःशेषेण "अनीनशत् नाशयतु ।।


यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् ।

जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ ३

यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।

जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥३

यः । ते । हन्ति । पतयन्तम् । निऽसत्स्नुम् । यः । सरीसृपम् ।

जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥३

हे योषित् "ते तव गर्भाशये "पतयन्तं पतन्तं रेतोरूपेण गच्छन्तं तदनन्तरं तत्र "निषत्स्नुं निषीदन्तं च गर्भं "यः राक्षसादिः "हन्ति हिनस्ति ततो मासत्रयादूर्ध्वं प्राप्तसर्वावयवं "सरीसृपं सर्पणशीलं च गर्भं "यः हन्ति "जातं दशसु मासेषूत्पन्नं "ते तव शिशुं "यः राक्षसादिः प्रजिघांसति हन्तुमिच्छति "तमितः स्थानात् "नाशयामसि नाशयामः ।।


यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑ ।

योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥ ४

यः । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ ।

योनि॑म् । यः । अ॒न्तः । आ॒ऽरेळ्हि॑ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥४

यः । ते । ऊरू इति । विऽहरति । अन्तरा । दम्पती इति दम्ऽपती । शये ।

योनिम् । यः । अन्तः । आऽरेळ्हि । तम् । इतः । नाशयामसि ॥४

हे योषित् "ते तव "ऊरू पादमूलौ "यः राक्षसादिः "विहरति गर्भघाताय विश्लिष्टौ करोति "दंपती "अन्तरा जायापत्योर्मध्ये गर्भहननार्थं यश्च "शये शेते "यः च "योनिम् "अन्तः प्रविश्य "आरेळिह निषिक्तं रेतो जिह्वया आस्वादयति ।। भक्षयतीत्यर्थः । ' लिह आस्वादने ' । आदादिकः । कपिलकादित्वाल्लत्वविकल्पः । ।


यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।

प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ ५

यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते ।

प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥५

यः । त्वा । भ्राता । पतिः । भूत्वा । जारः । भूत्वा । निऽपद्यते ।

प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥५

हे योषित् "यः राक्षसः "भ्राता भ्रातृरूपो "भूत्वा "पतिः भर्तृरूपो वा भूत्वा त्वां "निपद्यते अभिगच्छति । अथवा "जारः उपपतिरूपो वा "भूत्वा अभिगच्छति । एवंभूतः "यः राक्षसादिः "ते तव "प्रजां "जिघांसति हन्तुमिच्छति । स्पष्टमन्यत् ।।


यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।

प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ ६

यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते ।

प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥६

यः । त्वा । स्वप्नेन । तमसा । मोहयित्वा । निऽपद्यते ।

प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥६

हे योषित् “यः राक्षसादिः “स्वप्नेन स्वप्नावस्थया “तमसा निद्रया “त्वा त्वां “मोहयित्वा मूढतां प्रापय्य “निपद्यते गर्भघाताय गच्छति । अन्यद्गतम् ।। ।। २० ।।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६२&oldid=203701" इत्यस्माद् प्रतिप्राप्तम्