ऋग्वेदः सूक्तं १०.१८८
← सूक्तं १०.१८७ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८८ आग्नेयः श्येनः |
सूक्तं १०.१८९ → |
दे. जातवेदा अग्निः। गायत्री। |
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
इदं नो बर्हिरासदे ॥१॥
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
महीमियर्मि सुष्टुतिम् ॥२॥
या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
ताभिर्नो यज्ञमिन्वतु ॥३॥
सायणभाष्यम्
‘प्र नूनम् ' इति तृचं सप्तत्रिंशं सूक्तमग्निपुत्रस्य श्येनस्यार्षं गायत्रम् । जातवेदोगुणकोऽग्निर्देवता । तथा चानुक्रान्तं-- प्र नूनं तृचमाग्नेयः श्येनो जातवेदस्यम्' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिनं॑ ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥१
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥१
प्र । नूनम् । जातऽवेदसम् । अश्वम् । हिनोत । वाजिनम् ।
इदम् । नः । बर्हिः । आऽसदे ॥१
"जातवेदसं जातानां वेदितारं जातधनादिकं वा “अश्वं कर्मभिर्व्याप्नुवन्तं “वाजिनम् अन्नवन्तं हे ऋत्विग्यजमानाः “नूनम् अवश्यं “प्र “हिनोत प्रवर्धयत । यद्वा । अश्वमिव स्तुतिभिः प्रेरयत । ‘ हि गतौ वृद्धौ च ' । अस्माल्लोटि तशब्दस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः । किमर्थम् । “नः अस्माकम् “इदं “बर्हिः आस्तीर्णम् “आसदे आसत्तुं प्राप्तुम् । बर्हिरासीदत्वित्यर्थः ॥ सदेः ‘कृत्यार्थे तवैकेन्” इति केन्प्रत्ययः ॥
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
म॒हीमि॑यर्मि सुष्टु॒तिं ॥२
अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ ।
म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥२
अस्य । प्र । जातऽवेदसः । विप्रऽवीरस्य । मीळ्हुषः ।
महीम् । इयर्मि । सुऽस्तुतिम् ॥२
“जातवेदसः जाताना वेदितुः “विप्रवीरस्य । विप्रा मेधाविनो यजमाना वीराः पुत्रा यस्य ।। तादृशस्य “मीळ्हुषः सेक्तुः “अस्य अग्नेः “महीं महतीं “सुष्टुतिं शोभनां स्तुतिं “प्र “इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ । जौहोत्यादिकः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् ॥
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।
ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥३
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः ।
ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥३
याः । रुचः । जातऽवेदसः । देवऽत्रा । हव्यऽवाहनीः ।
ताभिः । नः । यज्ञम् । इन्वतु ॥३
“जातवेदसः अग्नेः “याः “रुचः रोचमानाः कालीकालीप्रभृतयः सप्त जिह्वाः “देवत्रा देवान् प्रति ॥ ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यः' ( पा.सू. ५.४.५६ ) इत्यादिना द्वितीयाथें त्राप्रत्ययः ॥ “हव्यवाहनीः हव्यानां हविषां वोढ्र्यः प्रापयित्र्यो भवन्ति ॥ ‘वा छन्दसि ' इति जसि पूर्वसवर्णदीर्घः ॥ “ताभिः जिह्वाभिः “नः अस्माकं “यज्ञं यागसाधनं हविः “इन्वतु देवान् प्रापयतु । ‘इवि व्याप्तौ'। इदित्त्वान्नुम् ॥ ॥ ४६ ॥
मण्डल १० | ||||
---|---|---|---|---|