ऋग्वेदः सूक्तं १०.११५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.११४ ऋग्वेदः - मण्डल १०
सूक्तं १०.११५
वार्ष्टिहव्य उपस्तुतः
सूक्तं १०.११६ →
दे. अग्निः। जगती, ८ त्रिष्टुप्, ९ शक्वरी ।


चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे ।
अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥१॥
अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता ।
अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥२॥
तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् ।
आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥३॥
वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः ।
आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥४॥
स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः ।
अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥५॥
वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।
अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥६॥
एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः ।
मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥७॥
ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥८॥
इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् ।
ताँश्च पाहि गृणतश्च सूरीन्वषड्वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥९॥


सायणभाष्यम्

‘ चित्रः' इति नवर्चं तृतीयं सूक्तमाग्नेयम् । उपस्तुतो नाम वृष्टिहव्यपुत्र ऋषिः । अष्टमी त्रिष्टुप् । नवमी शक्करी। आदितः सप्त जगत्यः । तथा चानुक्रान्तं -- चित्र इन्नव वार्ष्टिहव्य उपस्तुत आग्नेयं जागतं त्रिष्टुप्शक्वर्यन्तम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम् । सूत्रितं च - चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम् ' ( आश्व. श्रौ. ४, १३ ) इति ॥


चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे ।

अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥१

चि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे ।

अ॒नू॒धाः । यदि॑ । जीज॑नत् । अध॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥

चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपिऽएति । धातवे ।

अनूधाः । यदि । जीजनत् । अध । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन् ॥

“शिशोः शिशुभूतस्य अत एव “तरुणस्य नूतनस्याग्नेः “वक्षथः । वक्षेरौणादिकोऽथप्रत्ययः ॥ हविर्वहनं “चित्र “इत् आश्चर्यभूतमेव “यः जातोऽग्निः “मातरौ सर्वस्य निर्मात्र्यौ मातृपितृभूते द्यावापृथिव्यावरण्यौ वा “धातवे “न “अप्येति ॥ ‘ धेट् पाने'। तुमर्थे तवेन्प्रत्ययः ॥ स्तनपानायापि न गच्छति ॥ ‘ इण् गतौ'। लट्युपसर्गेण समासः । ‘तिङि चोदात्तवति ' इति गतेर्निघातः ॥ “अनूधाः ।। नञ्बहुव्रीहिः । समासान्तस्यानङः स्त्रियामिष्टत्वादत्रानभावः ( पा. सू. ५.४.१३१) । प्रत्येकविवक्षयैकवचनम् ॥ ऊधोहितोऽयं लोकोऽसौ लोकश्चैनमग्निं “यदि “जीजनत् अजीजनत अजनयत् । तर्हि स्तनपानाय न गच्छतीति युक्तम् । तथा न भवति । किंतु द्यावापृथिव्यौ सर्वेषां कामदुघे खलु । तथापि न याति । तस्मादस्य हविर्वहनं चित्रम्। “अध “च उत्पत्त्यनन्तरमेव “नु अद्य अस्मिन् दिने “सद्यः तदानीमेव शीघ्रं “महि महत् "दूत्यम् ॥ ‘ दूतस्य भागकर्मणी ' ( पा. सू. ४. ४. १२०) इति कर्मणि यत्प्रत्ययः ॥ दूतकर्म “चरन् “ववक्ष । देवान् प्रति हवींषि वहति ॥


अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता ।

अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥२

अ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता ।

अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥

अग्निः । ह । नाम । धायि । दन् । अपःऽतमः । सम् । यः । वना । युवते । भस्मना । दता ।

अभिऽप्रमुरा । जुह्वा । सुऽअध्वरः । इनः । न । प्रोथमानः । यवसे । वृषा ॥

“अपस्तमः ॥ अपशब्दस्यान्तोदात्तत्वेन मत्वर्थो लुप्त इति ज्ञायते । अन्यथा आपः कर्माख्यायाम्' इत्यसुनि कृत आद्युदात्तत्वमेव स्यात् ॥ अपस्वितमः कर्मवत्तमः “अग्निः “नाम ॥ तृतीयाया लुक् ॥ नाम्ना नमयितृणा हविषा स्तोत्रेण वा “धायि यजमानैर्धार्यते खलु । यतः “दन् यष्टॄणां धनदाता ॥ ‘ डुदाञ् दाने ' । हेतौ छन्दस्युभयथा' इति शतुरार्धधातुकत्वेन आकारलोपः । अत एव शपोऽसंभवः ॥ “यः अग्निः “भस्मना भासकेन प्रकाशकेन तेजसा “दता दन्तेन च “वना वनान्यरण्यानि “सं “युवते संयुनक्ति । संदहतीति यावत् । ‘यु मिश्रणामिश्रणयोः'। व्यत्ययेन शः । आत्मनेपदं च । दता । दन्तशब्दस्य ‘पद्दन्' इत्यादिना दद्भावः । ‘ ऊडिदम्' इति विभक्तेराद्युदात्तत्वम् ॥ किंच “अभिप्रमुरा ॥ ‘मूर्च्छा मोहसमुच्छ्राययोः । अस्मात् क्विपि ‘राल्लोपः' इति छकारलोपः। “मुर संवेष्टने ' इत्यस्माद्वा क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ अभितः समुच्छ्रितेनोद्यतेन यद्वा सर्वतो हविर्भिः संवेष्टितेन “जुह्वा एतन्नामकेन पात्रविशेषेण “स्वध्वरः शोभनयज्ञोऽग्निः अदनीये हविषि चरतीति शेषः । तत्र दृष्टान्तः । “इनः समर्थः “प्रोथमानः पर्याप्तः पुष्टाङ्गः “वृषा “यवसे “न यथा वृषभो घासादिषु चरति ॥


तं वो॒ विं न द्रु॒षदं॑ दे॒वमंध॑स॒ इंदुं॒ प्रोथं॑तं प्र॒वपं॑तमर्ण॒वं ।

आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रजं॑त॒मध्व॑नः ॥३

तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् ।

आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥

तम् । वः । विम् । न । द्रुऽसदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्रऽवपन्तम् । अर्णवम् ।

आसा । वह्निम् । न । शोचिषा । विऽरप्शिनम् । महिऽव्रतम् । न । सरजन्तम् । अध्वनः ॥

हे स्तोतारः “वः यूयं “तम् अप्तिमभिष्टुत । कीदृशम् । “विं “न पक्षिणमिव “द्रुषदम् । दुर्वृक्षः । अरणिलक्षणे वृक्षे सीदन्तं “देवं द्योतमानम् “अन्धसः “इन्दुं स्तोतॄणामन्नस्य क्लेदयितारं प्रापयितारम् ॥ ‘ उन्देरिच्चादिः' ( उ. सू. १. १३ ) इत्युप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥ “प्रोथन्तं शब्दायमानं “प्रवपन्तम् अत्यर्थं वनानां दाहकम् “अर्णवम् ॥ अर्णसः सलोपश्च' इति मत्वर्थीयो वः ॥ ‘ अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेण उदकवन्तम् “आसा ॥ आस्यशब्दस्य 'पद्दन् इत्यादिनासन्नादेशः । वर्णलोपश्छान्दसः ॥ आस्येन “वह्निं हविषां वोढारम् । यद्वा । आसा । अन्तिकनामैतत् । देवानां समीपे हविषां प्रापकम् । वहने दृष्टान्तः । वह्निं न । ' वह्निर्वा अनड्वान् ' ( तै, ब्रा. १. ८. २. ५ ) इति श्रवणादनड्वाहमिव वहने समर्थं “शोचिषा स्वदीप्त्या “विरप्शिनम् । महन्नामैतत् । महान्तं “महिव्रतं “न महाकर्माणमादित्यमिव “अध्वनः “सरजन्तम् । मार्गान् सह युगपदेव' रञ्जयन्तम् । एवं गुणमग्निमभिष्टुत ॥ सरजन्तम् । ‘ रञ्ज रागे'। रञ्जेः शतरि ‘ रञ्जेश्च' ( पा. सू. ६. ४. २६ ) इति नलोपे सहस्य सभावे व कृते रूपम् । यद्वा । सरतीति सरः । सरस्योदकस्य जनयितारम् । जनेः तप्रत्यये कृते रूपमिति वा । व्युत्पत्त्यनवधारणादनवग्रहः ॥


वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाताः॒ परि॒ संत्यच्यु॑ताः ।

आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शंत॒ प्र शि॒षंत॑ इ॒ष्टये॑ ॥४

वि । यस्य॑ । ते॒ । ज्र॒य॒सा॒नस्य॑ । अ॒ज॒र॒ । धक्षोः॑ । न । वाताः॑ । परि॑ । सन्ति॑ । अच्यु॑ताः ।

आ । र॒ण्वासः॑ । युयु॑धयः । न । स॒त्व॒नम् । त्रि॒तम् । न॒श॒न्त॒ । प्र । शि॒षन्तः॑ । इ॒ष्टये॑ ॥

वि । यस्य । ते । ज्रयसानस्य । अजर । धक्षोः । न । वाताः । परि । सन्ति । अच्युताः ।

आ । रण्वासः । युयुधयः । न । सत्वनम् । त्रितम् । नशन्त । प्र । शिषन्तः । इष्टये ॥

हे “अजर जरारहित अग्ने “ज्रयसानस्य ॥ ज्रयतिर्गत्यर्थः ॥ बाहुलकादस्मादप्यसानच्प्रत्ययः ॥ गमनशीलस्य “धक्षोः ॥ दहेः सन् । ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' ( का. ६.१.८.१ ) इति द्विर्वचनाभावः । तदन्तादुप्रत्ययः । अरण्यदहनेच्छोः “यस्य “ते तव स्वभूताः “अच्युताः शत्रुभिः अच्यवनीयाः प्रभावाः “वाता “न वायव इव “वि “परि “सन्ति सर्वतो विशेषेण वर्तन्ते ॥ सन्ति । अस्तेर्लट् । यद्योगादनिघातः ॥ “युयुधयो “न । युधेः किन्प्रत्ययः ॥ योद्धार इव “रण्वासः शीघ्रं गन्तारः शब्दायमाना वा ऋत्विजः “इष्टये यागाय “प्र “शिषन्तः प्रकर्षेण सिषन्तः सिषासन्तः संभक्तुमिच्छन्तः “सत्वनं बलवन्तं “त्रितं त्रिष्वाहवनीयादिषु स्थानेषु ततं विस्तृतं त्वाम् “आ “नशन्त । स्तुतिभिर्हविर्भिश्च व्याप्नुवन्ति । आङ्पूर्वो नशिर्व्याप्तिकर्मा । ‘आक्षाण आनट्' इति व्याप्तिकर्मसु पाठात् ॥


स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः ।

अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥५

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।

अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥

सः । इत् । अग्निः । कण्वऽतमः । कण्वऽसखा । अर्यः । परस्य । अन्तरस्य । तरुषः ।

अग्निः । पातु । गृणतः । अग्निः । सूरीन् । अग्निः । ददातु । तेषाम् । अवः । नः ॥

“कण्वतमः ॥ कणतेः शब्दार्थात् अशिप्रुषि°' इत्यादिना क्वन्प्रत्ययः ॥ अतिशयेन स्तोता अत एव “कण्वसखा ।। बहुव्रीहित्वात् समासान्तोदात्ताभावः ॥ कण्वाः स्तोतारः सखायो यस्य स तादृशः “अर्यः ।। ' स्वामिन्यन्तोदात्तत्वं वक्तव्यम् ' ( पा. सू. ३.१.१०३. १ ) इत्यन्तोदात्तत्वम् । स्वामी सर्वस्येश्वरः “स “इत् स एव “अग्निः “परस्य विप्रकृष्टस्य बाह्यस्य “अन्तरस्य अव्यवहितस्य समीपे वर्तमानस्य च शत्रोः “तरुषः तारयिता विनाशयिता भवति । सः “अग्निः “गृणतः स्तोतॄन् अस्मान् “पातु रक्षतु ॥ ‘ गॄ शब्दे ' । क्र्यादिकः । ‘ शतुरनुमो नद्यजादी' इति विभक्तेरुदात्तत्वम् ।। तथा “सूरीन् । 'षू प्रेरणे'। हविषां प्रेरयितॄनस्मान् रक्षतु । किंच “तेषाम् एषां “नः अस्माकम् “अवः रक्षणमन्नं वा “अग्निर्ददातु प्रयच्छतु ॥ ॥ १८ ।।।


वा॒जिंत॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे ।

अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिंत॑माय॒ धन्व॒नेद॑विष्य॒ते ॥६

वा॒जिन्ऽत॑माय । सह्य॑से । सु॒ऽपि॒त्र्य॒ । तृ॒षु । च्यवा॑नः । अनु॑ । जा॒तऽवे॑दसे ।

अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर॑म् । स॒ते । म॒हिन्ऽत॑माय । धन्व॑ना । इत् । अ॒वि॒ष्य॒ते ॥

वाजिन्ऽतमाय । सह्यसे । सुऽपित्र्य । तृषु । च्यवानः । अनु । जातऽवेदसे ।

अनुद्रे । चित् । यः । धृषता । वरम् । सते । महिन्ऽतमाय । धन्वना । इत् । अविष्यते ॥

हे "सुपित्र्य । पितुरागतः पित्र्यः ॥ ‘ पितुर्यञ्च' ( पा. सू. ४. ३. ७९ ) इति यत्प्रत्ययः ।। शोभनपित्र्य हे अग्ने “वाजिन्तमाय अतिशयेनान्नवते अत्यन्तं बलवते वा ।। ‘ नाद्धस्य ' इति नुडागमः ।। "सह्यसे सहीयसे शत्रूणामतिशयेनाभिभवित्रे “जातवेदसे जातप्रज्ञाय तुभ्यं त्वां स्तोतुं “तृषु क्षिप्रम् “अनु “च्यवानः स्तुतिभिरनुगत उद्युक्तोऽस्मि ।। ‘ क्रियार्थोपपदस्य च कर्मणि ' इति जातवेदःशब्दस्य चतुर्थी । सह्यसे । सहस्विञ्शब्दादीयसुनि ‘विन्मतोर्लुक्' इतीयसुन ईकारलोपः छान्दसः।। “अनुद्रे’ “चित् उदकवर्जिते स्थले। आपदीत्यर्थः । शत्रुभिः संजातायामापदि “धृषता शत्रुधर्षणसमर्थेन “धन्वनेत् आत्मीयेन धनुषैव “अविष्यते पालकाय “सते भूष्णवे ।। ‘शतुरनुमः इति विभक्तेरुदात्तत्वम् ।। “महिन्तमाय पूज्यतमाय दातृतमाय वा ईदृशायाग्नये “यः अहं “वरं वरणीयं हविः प्रयच्छामि सोऽहं स्तुतिमपि तस्मै करोमीत्यर्थः ॥


ए॒वाग्निर्मर्तैः॑ स॒ह सू॒रिभि॒र्वसु॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ ।

मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि संति॒ मानु॑षान् ॥७

ए॒व । अ॒ग्निः । मर्तैः॑ । स॒ह । सू॒रिऽभिः॑ । वसुः॑ । स्त॒वे॒ । सह॑सः । सू॒नरः॑ । नृऽभिः॑ ।

मि॒त्रासः॑ । न । ये । सुऽधि॑ताः । ऋ॒त॒ऽयवः॑ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्ति॑ । मानु॑षान् ॥

एव । अग्निः । मर्तैः । सह । सूरिऽभिः । वसुः । स्तवे । सहसः । सूनरः । नृऽभिः ।

मित्रासः । न । ये । सुऽधिताः । ऋतऽयवः । द्यावः । न । द्युम्नैः । अभि । सन्ति । मानुषान् ॥

“सहसः बलस्य “सूनरः सुष्ठु प्रेरकः । यद्वा । सूनुरित्यस्य वर्णव्यत्ययः । सूनरः सूनुः । बलेन मथ्यमानत्वात्तस्य पुत्रः । “अग्निः “नृभिः कर्मनेतृभिः “मर्तैः मनुष्यैः “सह “सूरिभिः विद्वद्भिः अस्माभिः “वसु धनमभिलक्ष्य “एव एवं “स्तवे स्तूयते । वसु ष्टवे इस्यत्र संहितायां ‘ पूर्वपदात् । इति षत्वम् ।। “मित्रासो “न सुहृद इव “सुधिताः सुहितास्तृप्ताः ।। दधातेर्निष्ठायां सुधित वसुधित’ ' ( पा. सू. ७, ४, ४५ ) इति निपातितः । ‘ सुधितार्थास्तृप्त्यर्थाः ' इति काशिकायामुक्तम् ॥ “ऋतायवः यज्ञं कामयमानाः । ‘ न च्छन्दस्यपुत्रस्य' इति दीर्घत्वयोः प्रतिषेधः ।। ईदृशाः “ये सूरयः “द्यावो “न द्योतमाना इव “द्युम्नैः । द्युम्नं द्योततेर्यशो वान्नं बा' ( निरु. ५. ५ ) इति यास्कः । अग्निप्रदतैर्बलैरात्मीयैर्यशोभिर्वा “मानुषान् शात्रवान् जनान् “अभि “सन्ति अभिभवन्ति ।। यद्वृत्तयोगादनिघातः ।।


ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वंदते॒ वृषा॒ वाक् ।

त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥८

ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् ।

त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥

ऊर्जः । नपात् । सहसाऽवन् । इति । त्वा । उपऽस्तुतस्य । वन्दते । वृषा । वाक् ।

त्वाम् । स्तोषाम । त्वया । सुऽवीराः । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥

“ऊर्जा “नपात् । नपादित्यपत्यनाम । अन्नस्य पुत्र । ‘ अन्नं वा आज्यम्' इति श्रवणात्तेन प्रवृध्यमानत्वात् । बलस्य वा पुत्र ॥ ‘ सुबामन्त्रिते पराङ्गवत्स्वरे' इत्यूर्जं इत्यस्य पराङ्गवद्भावेन आमन्त्रितत्वे ' आमन्त्रितस्य च ' इति षाष्ठिकमाद्युदात्तत्वम् ॥ हे सहसावन सहस्विन्नग्ने “त्वा त्वाम् “इति एवम् “उपस्तुतस्य एतन्नामकस्यर्षेर्मम “वृषा हविषां वर्षयित्री तैः सहिता “वाक् स्तुतिः “वन्दते स्तौति ।। वृषा । ‘ इगुपधज्ञा' इति कः । अजाद्यतष्टाप् ।। किंच वयं “त्वां “स्तोषाम स्तवाम । स्तौतेर्लेट्याडागमः । ततः “त्वया “सुवीराः शोभनपुत्राः स्याम । “द्राघीयः दीर्घतमम् “आयुः जीवनं “प्रतरम् अत्यर्थं “दधानाः धारयन्तो भवेम ॥


इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् ।

तांश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥९

इति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् ।

तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥

इति । त्वा । अग्ने । वृष्टिऽहव्यस्य । पुत्राः । उपऽस्तुतासः । ऋषयः । अवोचन् ।

तान् । च । पाहि । गृणतः । च । सूरीन् । वषट् । वषट् । इति । ऊर्ध्वासः । अनक्षन् । नमः । नमः । इति । ऊर्ध्वासः । अनक्षन् ॥

हे “अग्ने “त्वा त्वाम् “इति एवमुक्तप्रकारेण “वृष्टिहव्यस्य एतन्नामकस्यर्षेः “पुत्राः “उपस्तुतासः उपस्तुता एतदभिधानाः “ऋषयः सूक्तद्रष्टारः “अवोचन् अभ्यष्टुवन् । “तान् ऋषीन् “च त्वं “पाहि रक्ष ॥ ‘ चवायोगे प्रथमा' इति न निघातः ॥ तथा “गृणतः स्तोतॄन सूरीन् विदुषः “च पाहि । “वषट् “वषडिति मन्त्रेण “ऊर्ध्वासः हविष्प्रदानार्थमूर्ध्वमुखहस्ताः सन्तः “अनक्षन् व्याप्नुवन् । नक्षतिर्व्याप्तिकर्मा । “नमो “नम “इति एवम् “ऊर्ध्वासः स्तोतुमुद्युक्ताः “अनक्षन् । य उक्तगुणाः तानुभयविधान् यष्टॄन् स्तोतॄन् पालय ॥ ॥ १९ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११५&oldid=175695" इत्यस्माद् पुनः प्राप्तिः