ऋग्वेदः सूक्तं १०.१९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१९
मथितो यामायनः, भृगुर्वारुणिर्वा, भार्गवश्च्यवनो वा
सूक्तं १०.२० →
दे. आपः, गावो वा, १ उत्तरार्धर्चस्य अग्नीषोमौ। अनुष्टुप्, ६ गायत्री



नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥१॥
पुनरेना नि वर्तय पुनरेना न्या कुरु ।
इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥२॥
पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ ।
इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥३॥
यन्नियानं न्ययनं संज्ञानं यत्परायणम् ।
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥४॥
य उदानड्व्ययनं य उदानट् परायणम् ।
आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥५॥
आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि ।
जीवाभिर्भुनजामहै ॥६॥
परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥७॥
आ निवर्तन वर्तय नि निवर्तन वर्तय ।
भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय ॥८॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अष्टके सप्तमे षष्ठं व्याख्याय श्रुतिकोविदः ।

सायणार्यस्ततोऽध्यायं सप्तमं व्याचिकीर्षति ॥


अथ द्वादशानुवाकात्मकस्य दशममण्डलस्य द्वितीयेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘नि वर्तध्वम्' इत्यष्टर्चं तृतीयं सूक्तम् । अस्य यमपुत्रो मथिताख्य ऋषिर्वरुणपुत्रो भृगुर्वाथवा भार्गवश्च्यवनः । षष्ठी गायत्री शिष्टा अनुष्टुभः । इदमब्देवताकं गोदेवताकं वा । ' अग्नीषोमा पुनर्वसू ' इत्यर्धर्चोsग्नीषोमदेवताकः । तथा चानुक्रान्तं -- नि वर्तध्वमष्टौ मथितो भृगुर्वा वारुणिर्भार्गवश्च्यवनो वापं गव्यं वानुष्टुभमग्नीषोमीयो द्वितीयोऽर्धर्चः षष्ठी गायत्री ' इति । गतो विनियोगः


नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः ।

अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिं ॥१

नि । व॒र्त॒ध्व॒म् । मा । अनु॑ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रे॒व॒तीः॒ ।

अग्नी॑षोमा । पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू । अ॒स्मे इति॑ । धा॒र॒य॒त॒म् । र॒यिम् ॥

नि । वर्तध्वम् । मा । अनु । गात । अस्मान् । सिसक्त । रेवतीः ।

अग्नीषोमा । पुनर्वसू इति पुनःऽवसू । अस्मे इति । धारयतम् । रयिम् ॥

हे गावो हे आपो वा यूयं “नि “वर्तध्वम् अस्मान् प्रत्यागच्छत । “मानु “गात अस्मद्व्यतिरिक्तं यजमानं मा गच्छत । आगत्य च हे "रेवतीः रेवत्यो धनवत्यो यूयम् “अस्मान् “सिषक्त सेचयत । अवगाहनगोदोहनस्नानपानादिद्वारेण सेवध्वमित्यर्थः। हे “पुनर्वसू पुनःपुनर्वस्तारौ स्तोतॄणां यष्टॄणामाच्छादयितारौ हे "अग्नीषोमा अग्नीषोमौ एतन्नामकौ देवौ युवाम् “अस्मे अस्मासु “रयिं व्रीह्यादिलक्षणं धनं “धारयतं स्थापयतम् ॥


पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु ।

इंद्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥२

पुनः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ । पुनः॑ । ए॒नाः॒ । नि । आ । कु॒रु॒ ।

इन्द्रः॑ । ए॒नाः॒ । नि । य॒च्छ॒तु॒ । अ॒ग्निः । ए॒नाः॒ । उ॒प॒ऽआज॑तु ॥

पुनः । एनाः । नि । वर्तय । पुनः । एनाः । नि । आ । कुरु ।

इन्द्रः । एनाः । नि । यच्छतु । अग्निः । एनाः । उपऽआजतु ॥

अत्र मन्त्रद्रष्टा स्वात्मानं प्रति ब्रूते । हे मदीयात्मन् त्वम् “एनाः एताः अन्यतोऽभिगन्त्रीर्गा अपो वा “पुनः “नि “वर्तय पुनःपुनर्मदभिमुखीकुरु । तदनन्तरम् “एनाः एताः “पुनः भूयो भूयो “न्या कुरु नियता आत्मायत्ताः कुरु। किंच “इन्द्रः अपि तव सहायभूतः सन् “एनाः एताः “नि “यच्छतु त्वदायत्ताः करोतु । “अग्निः च “एनाः एताः गा अपो वा “उपाजतु उपगमयतु उपक्षिपतु वा । उपयोग्याः करोत्वित्यर्थः ॥


पुन॑रे॒ता नि व॑र्तंताम॒स्मिन्पु॑ष्यंतु॒ गोप॑तौ ।

इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥३

पुनः॑ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽप॑तौ ।

इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥

पुनः । एताः । नि । वर्तन्ताम् । अस्मिन् । पुष्यन्तु । गोऽपतौ ।

इह । एव । अग्ने । नि । धारय । इह । तिष्ठतु । या । रयिः ॥

एना एता ईदृश्यो गाव आपो वा “पुनः “नि “वर्तन्तां भूयो भूयो मां प्रत्यागच्छन्तु । आगत्य च “गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां पालके “अस्मिन् ईदृशे मयि “पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टा भवन्तु । पुष्टाः सतीस्ता हे “अग्ने त्वम् “इहैव अस्मिन्नेव मयि “नि “धारय नियमेन स्थापय । "या “रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितम् “इह अस्मिन्नेव गोपतौ मयि “तिष्ठतु निवसतु ॥ ।


यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णं ।

आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥४

यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् ।

आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥

यत् । निऽयानम् । निऽअयनम् । सम्ऽज्ञानम् । यत् । पराऽअयनम् ।

आऽवर्तनम् । निऽवर्तनम् । यः । गोपाः । अपि । तम् । हुवे ॥

“नियानम् । अधिकरणे ल्युट् । नियमेन यान्त्यागच्छन्ति गावोऽत्रेति नियानं गोष्ठाख्यं स्थानम्। “यत् अस्तीति शेषः। यच्छब्दयोगात्तच्छब्दोऽध्याहर्तव्यः। हुव इति क्रियापदं सर्वत्रानुषज्यते । तत्स्थानं “हुवे आह्वयामि । आह्वानमभिमुखीकरणं तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं गोष्ठं प्रार्थय इत्यर्थः । “न्ययनम् । भावे ल्युट् । नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये। “निवर्तनं वने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये । “यः “अपि “गोपाः गवां पालकोऽस्ति “तम् अपि हुवे प्रार्थये । सर्वगुणोपेता गाः प्रार्थय इत्यर्थः ॥ (वैकल्पिकपाठः -- ग-प्रार्थये । यत्र संगच्छंते इतरेतरं जानंतस्तत् संज्ञानं । अथ ततश्चरणार्थं पराचीना यत्र यंति तत्परायणं । चरित्वाधा आवर्तंते तदावर्तनं; मु-प्रार्थये । संज्ञान गोभिः सह ऐकमत्यं यदस्ति तदपि प्रार्थये । परायणं परागमनं वनं प्रति गवां चरणाय गमनं यदस्ति तदपि प्रार्थये । आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनं यदस्ति तदपि प्रार्थये।)


य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णं ।

आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्ततां ॥५

यः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् ।

आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥

यः । उत्ऽआनट् । विऽअयनम् । यः । उत्ऽआनट् । पराऽअयनम् ।

आऽवर्तनम् । निऽवर्तनम् । अपि । गोपाः । नि । वर्तताम् ॥

“यः “गोपाः गोपालः “व्ययनं नष्टानां गवामन्वेषणार्थं विविधं गमनम् "उदानट् व्याप्नोति अनुभवति । “यः परायणं परागमनम् “उदानट् व्याप्नोति । वनं प्रति गवां चरणाय गमनमित्यर्थः। यश्च “आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनमनुभवति । यः “अपि गोपाः “निवर्तनं गोभिः सह वनाद्गृहं प्रति निर्गमनमनुभवति । सोऽपि गोपालः “नि “वर्ततां गोभिः सह वनाद्गृहं प्रति क्षेमेणागच्छतु ॥


आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इंद्र॒ गा दे॑हि ।

जी॒वाभि॑र्भुनजामहै ॥६

आ । नि॒ऽव॒र्त॒ । नि । व॒र्त॒य॒ । पुनः॑ । नः॒ । इ॒न्द्र॒ । गाः । दे॒हि॒ ।

जी॒वाभिः॑ । भु॒न॒जा॒म॒है॒ ॥

आ । निऽवर्त । नि । वर्तय । पुनः । नः । इन्द्र । गाः । देहि ।

जीवाभिः । भुनजामहै ॥

हे “इन्द्र त्वम् “आ “निवर्त आनिवर्तस्व अस्सदभिमुखो भव । ततोऽन्यतो गच्छन्तीर्गाः “नि “वर्तय अस्मदभिमुखीः कुरु । एवं कृत्वा च हे इन्द्र त्वं “पुनः पश्चात् “नः अस्मभ्यं “गाः “देहि प्रयच्छ। त्वया दत्ताभिः "जीवाभिः चिरं जीवन्तीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः “भुनजामहै वयं भुञ्जीमहि । यद्वा । भुजिरत्रान्तर्भावितण्यर्थः । देवपितॄन्' संभोजयेमहि ॥


परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा ।

ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जंतु नः ॥७

परि॑ । वः॒ । वि॒श्वतः॑ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन॑ । पय॑सा ।

ये । दे॒वाः । के । च॒ । य॒ज्ञियाः॑ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥

परि । वः । विश्वतः । दधे । ऊर्जा । घृतेन । पयसा ।

ये । देवाः । के । च । यज्ञियाः । ते । रय्या । सम् । सृजन्तु । नः ॥

हे देवाः “विश्वतः सर्वतः स्थितान् “वः युष्मान् "ऊर्जा गोसंबन्धिना दधिलक्षणेनान्नेन “घृतेन आज्येन “पयसा क्षीरेण च “परि “दधे संधारयामि । युष्मभ्यं हविर्द्वारेण प्रयच्छामि । न केवलमात्मानं पुष्णामीत्यर्थः । एतज्ज्ञात्वा “ये के च "देवाः “यज्ञियाः यज्ञार्हाः सन्ति “ते देवाः “नः अस्मान् “रय्या गोलक्षणेन धनेन “सं “सृजन्तु संयोजयन्तु ॥


आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय ।

भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥८

आ । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ । नि । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ ।

भूम्याः॑ । चत॑स्रः । प्र॒ऽदिशः॑ । ताभ्यः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ ॥

आ । निऽवर्तन । वर्तय । नि । निऽवर्तन । वर्तय ।

भूम्याः । चतस्रः । प्रऽदिशः । ताभ्यः । एनाः । नि । वर्तय ॥

मन्त्रद्रष्टर्षिः स्वात्मानं गाश्च संबोध्याह । हे मदीयात्मन् त्वं गाः “आ “वर्तय। आकारोऽप्यनेनापि संबध्यते । मदभिमुखीः कुरु । स्तुत्या यागेन च ताः प्रसाद्योपनमयेत्यर्थः । हे गावः यूयमपि प्रसाद्यमानाः “आ “निवर्तन आनिवर्तध्वम् । आभिमुख्येनागच्छत । पुनरप्याह । हे मदीयात्मन् त्वं “नि “वर्तय गोसंचरणस्थानादपगच्छन्तीर्गा इतोऽभिगन्त्रीः कुरु । यूयमपि हे गावो निवर्त्यमानाः सत्यः “निवर्तन निवर्तध्वम् । इदानीं स्वात्मा गावश्चर्षिं प्रति ब्रुवते । हे ऋषे अहं कुतो गा निवर्तयामीति कुतो वयं निवर्तयामह इत्यात्मना गोभिश्च पृष्टः सन्नाह । “भूम्याः पृथिव्याः “चतस्रः “प्रदिशः चतुःसंख्यायुक्ताः प्रकृष्टा या दिशः सन्ति "ताभ्यः दिग्भ्यः “एनाः गाः “नि “वर्तय हे आत्मन् मदभिमुखीः कुरु । हे गावो यूयमपि ताभ्यो दिग्भ्यो निवर्तध्वमिति सामर्थ्याल्लब्धम् । यद्वा । अब्दैवतपक्षेऽपि सूक्तार्थों यथा घटते तथा योजना कर्तव्या ॥ ॥ १ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१९&oldid=161122" इत्यस्माद् पुनः प्राप्तिः