ऋग्वेदः सूक्तं १०.१०३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१०२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०३
ऐन्द्रोऽप्रतिरथः
सूक्तं १०.१०४ →
दे. इन्द्रः, ४ बृहस्पतिः, १२ अप्वा देवी, १३ मरुतो वा। त्रिष्टुप्, १३ अनुष्टुप्


आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥१॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥२॥
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥३॥
बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः ।
प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥४॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥५॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥६॥
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाळयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥८॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥९॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।
उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१०॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥११॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥१२॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१३॥


सायणभाष्यम्

‘ आशुः शिशानः' इति त्रयोदशर्चं चतुर्थं सूक्तमिन्द्रपुत्रस्याप्रतिरथनाम्न आर्षम्। त्रयोदश्यनुष्टुप् शिष्टास्त्रिष्टुभः। बृहस्पते परि दीय' इत्यस्या बृहस्पतिर्देवता । ‘ अमीषां चित्तम्' इत्यस्या अप्वाख्या देवी देवता । शिष्टा ऐन्द्र्यः । त्रयोदशी विकल्पेन मारुती। तथा चानुक्रान्तम्- आशुः सप्तोनैन्द्रोऽप्रतिरथश्चतुर्थी बार्हस्पत्योपान्त्याप्वादेव्यन्त्यानुष्टुग्मारुती वा ' इति । साग्निचित्ये क्रतौ चित्यग्निषु प्रणीयमानेषु दक्षिणतो व्रजता ब्रह्मणैतत्सूक्तं जप्यम् । तथा च सूत्रितं- दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तं समाप्य' (आश्व. श्रौ. १. १२) इति । ‘ ब्रह्माप्रतिरथं जपित्वा' ( आश्व. श्रौ. ४. ८) इति च । युद्धार्थं राज्ञः संनहनेऽनेन सूक्तेन राजेक्षितव्यः । सूत्रितं च’ अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः' (आश्व. गृ. ३. १२. १३) इति ॥


आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नां ।

सं॒क्रंद॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिंद्रः॑ ॥१

आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् ।

स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥

आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् ।

सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥

अयमिन्द्रः “आशुः शीघ्रकारी व्यापको वा “शिशानः निशितः । शत्रूणां भयजनक इत्यर्थः । क इव । “वृषभो “न “भीमः । बिभेत्यस्मादिति भीमः । तादृशो वृषभ इव । स यथा तीक्ष्णाभ्यां ऋङ्गाभ्यां भीमो भवति तद्वत् । अथवा शिशानस्तीक्ष्णमतिः । व्यत्ययेनात्मनेपदम् । वृषभो न भीमः वृषभो यथा शृङ्गाभ्यां भयजनकः तद्वच्छत्रूणाँ भयजनकश्च । “घनाघनः घातकः शत्रूणाम् । हन्तेः पचाद्यचि • हन्तेर्घश्च ' (पा.सू. ६.१.१२.७) इति द्विर्वचनमभ्यासस्याडागमो घत्वं च धात्वभ्यासयोः । “चर्षणीनाम् । चर्षणयो मनुष्याः । मनुष्याणां द्वेष्याणां “क्षोभणः क्षोभयिता । “संक्रन्दनः सम्यक्क्रन्दयिता प्राणिनामाकर्षणेन प्रहारेण वा । “अनिमिषः चक्षुर्निमेषरहितः । सर्वदा स्वयज्ञगमनयुद्धादिकार्येष्वनलस इत्यर्थः । “एकवीरः । वीरयत्यमित्रानति वीरः । एकश्चासौ वीरश्च । अथवा एक एव विक्रान्तः । असाहाय्येन कार्यक्षम इत्यर्थः । ईदृशोऽयम् “इन्द्रः “शतं “सेनाः “साकं सह एकोद्योगेनैव “अजयत् जयति ॥


सं॒क्रंद॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।

तदिंद्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥२

स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ ।

तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥

सम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना ।

तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥

अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् तत्राह । “संक्रन्दनेनानिमिषेण चोक्तलक्षणेन “जिष्णुना जयशीलेन “युत्कारेण । योधनं युत् । युद्धकारिणा। कर्मण्यण् । “दुश्च्यवनेन अन्यैरविचाल्येन । ' च्युङ् प्रुङ् गतौ । छन्दसि गत्यर्थेभ्यः' (पा. सू. ३. ३. १२९ ) इति युच् । “धृष्णुना धर्षकेण ईदृशेन “इन्द्रेण “तत् युद्धं "जयत । “तत् शत्रुबलं “सहध्वम् अभिभवत । हे “युधः योद्धारो हे “नरः नेतारः । ‘ विभाषितं विशेषवचने बहुवचनम् ' (पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते । पुनः कीदृशेनेन्द्रेणेति । “इषुहस्तेन “वृष्णा वर्षित्रा च ॥


स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इंद्रो॑ ग॒णेन॑ ।

सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥३

सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ ।

सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥

सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः । वशी । सम्ऽस्रष्टा । सः । युधः । इन्द्रः । गणेन ।

संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥

पूर्वमन्त्र इन्द्रेण जयत इत्युक्तम् । अत्र इन्द्रस्य जयसाधनसमर्थत्वं दर्शयति । “सः इन्द्रः “इषुहस्तैः भटैः मरुदादिभिः “वशी वश्यैस्तद्वान् । तथा “निषङ्गिभिः युक्तः। निषङ्गः खड्गः। तद्वद्भिः “वशी । “सः च “इन्द्रः “युधः युध्यमानः सन् । इगुपधलक्षणः कः । अथवा युधो युद्धहेतोः “गणेन शत्रुसंघेन सह “संस्रष्टा एकीभवनशीलः । यत एवंविधोऽतः “संसृष्टजित् । ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता । तथा “सोमपाः सोमस्य पाता। “बाहुशर्धी । शर्धो बलम् । बाह्वोर्बलं बाहुबलम् । तद्वान् । मत्वर्थीय इनिः । यद्वा । ‘ शृधु प्रसहने ' । बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। ‘ सुप्यजातौ णिनिस्ताच्छील्ये' (पा. सू. ३. २. ७८ ) इति णिनिः। “उग्रधन्वा उद्यतधन्वा “प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिः “अस्ता मारयिता । यत्रेषून्मुञ्चति तत्र वृथा न भवन्तीत्यर्थः । ईदृशेनेन्द्रेण जयतेति संबन्धः ॥


बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः ।

प्र॒भं॒जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नां ॥४

बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः ।

प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥

बृहस्पते । परि । दीय । रथेन । रक्षःऽहा । अमित्रान् । अपऽबाधमानः ।

प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥

हे “बृहस्पते बृहतां पात: पालयितर्देव “रथेन “परि “दीय परिगच्छ । दीयतिर्गतिकर्मा। आगत्य च “रक्षोहा रक्षसां हन्ता “अमित्रान् शत्रून् “अपबाधमानः सर्वतो नाशयन् तथा “सेनाः शत्रुसंबन्धिनीः “प्रभञ्जन प्रकर्षेण नाशयन् “प्रमृणः प्रकर्षेण हिंसन् । “ मृण हिंसायाम् । इगुपधलक्षणः कः । केन हिंसन् । “युधा युद्धेन । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। "जयन् एवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वम् “अस्माकं “रथानाम् अविता “एधि भव ॥


ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।

अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥५

ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः ।

अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥

बलऽविज्ञायः । स्थविरः । प्रऽवीरः । सहस्वान् । वाजी । सहमानः । उग्रः ।

अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥

सर्वस्य भूतस्य बलं विजानातीति “बलविज्ञायः । यद्वा । बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूत इत्यर्थः । “स्थविरः महान् “प्रवीरः प्रकर्षेण वीरः “सहस्वान् पराभिभवसामर्थ्यवान् “वाजी वेजनवानन्नवान्वा “सहमानः शत्रूणामभिभविता “उग्रः उद्गूर्णबलः "अभिवीरः । अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः । “अभिसत्वा अभिगतसत्वा “सहोजाः सहसो बलाज्जातः एवंमहानुभावस्त्वं हे “इन्द्र “जैत्रं जयशीलं “रथम् “आ “तिष्ठ अस्मत्सहायार्थमारोढुमर्हसि । त्वं च "गोवित् उदकस्य स्तुतेर्वा लब्धा वेदिता वा ॥


गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जयं॑त॒मज्म॑ प्रमृ॒णंत॒मोज॑सा ।

इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिंद्रं॑ सखायो॒ अनु॒ सं र॑भध्वं ॥६

गो॒त्र॒ऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ।

इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥

गोत्रऽभिदम् । गोऽविदम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृणन्तम् । ओजसा ।

इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥

“गोत्रभिदम् । गा उदकानि त्रायन्त इति गोत्रा मेघाः । यद्वा गौर्भूमिः । तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं “गोविदम् उदकस्य लब्धारं “वज्रबाहुं वज्रहस्तम्। 'प्रहरणार्थेभ्यः (पा. सू. २. २. ३६. ४) इति परनिपातः । “जयन्तं जयनशीलम् "अज्म गमनशीलं शत्रुबलम् “ओजसा बलेन जयन्तं यद्वा अज्म आजिं जयन्तमोजसा बलेन “प्रमृणन्तं शत्रूनभिभवन्तमीदृशं महानुभावम् “इमम् इन्द्रं हे “सजाताः सहोत्पन्ना योद्धारो यूयम् “अनु वीरयध्वम् । एनमग्रतः कृत्वानु पश्चाद्वीरयध्वं वीरकर्मं युद्धं कुरुध्वम् । ‘शूर वीर विक्रान्तौ । वीरशब्दात् ‘तत्करोति तदाचष्टे इति णिच् । हे “सखायः परस्परं सखिभूता यूयमिमम् "इन्द्रं संरभमाणम् “अनु “सं “रभध्वम्॥॥२२॥


अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिंद्रः॑ ।

दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥७

अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ ।

दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥

अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतऽमन्युः । इन्द्रः ।

दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥

अयम् “इन्द्रः “गोत्राणि अभ्राणि मेघान “सहसा बलेन “अभि “गाहमानः प्रविशन् “अदयः निर्दयः "वीरः विक्रान्तः “शतमन्युः बहुयज्ञो बहुक्रोधो वा दुश्च्यवनः अन्यैरचाल्यः । स्वयं “पृतनाषाट् शत्रुसेनानामभिभविता । छन्दसि सहः' इति ण्विः । ‘ सहेः साडः सः' इति मूर्धन्यादेशः । “अयुध्यः संप्रहर्तुमशक्यः । ‘ युध संप्रहारे । छान्दसः क्यप् । ईदृगिन्द्रः “अस्माकं “सेनाः “युत्सु संग्रामेषु “प्र “अवतु प्रकर्षेण रक्षतु ॥


इंद्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।

दे॒व॒से॒नाना॑मभिभंजती॒नां जयं॑तीनां म॒रुतो॑ यं॒त्वग्रं॑ ॥८

इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ ।

दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥

इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः ।

देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥

“आसाम् अस्मत्सहायार्थमागतानाम् अयम् “इन्द्रः “नेता नायकोऽस्तु । तथा तस्य “बृहस्पतिः “पुर “एतु । एवं “दक्षिणा ““यज्ञः सोमः च पुर एत्विति प्रत्येकं संबन्धः । तथा “देवसेनानामभिभञ्जतीनाम् अस्मदमित्रानाभिमुख्येन मर्दयन्तीनां “जयन्तीनाम् । 'छन्दसि' इति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति ( पा. सू. ६. १. १७८)। तासाम् “अग्रं “मरुतो “यन्तु गच्छन्तु ॥


इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रं ।

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥९

इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् ।

म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥

इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।

महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥

“वृष्णः वर्षकस्य “इन्द्रस्य “राज्ञः “वरुणस्य “आदित्यानां “मरुतां च "उग्रम् उद्गूर्णं “शर्धः बलमस्माकं भवत्विति शेषः। किंच “महामनसाम् उदारमनसां “भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां “घोषः जयशब्दः “उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥


उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि ।

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यंतु॒ घोषाः॑ ॥१०

उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि ।

उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥

उत् । हर्षय । मघऽवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि ।

उत् । वृत्रऽहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥

हे “मघवन् इन्द्र अस्मदीयानि “आयुधानि “उद्धर्षय उत्कृष्टं हर्षय । प्रहरणेषूद्युक्तानि भवन्वित्यर्थः। “मामकानां मदीयानां “सत्वनां प्राणिनां सैनिकानां “मनांसि च “उत् हर्षय । हे “वृत्रहन् इन्द्र “वाजिनाम् अश्वानां “वाजिनानि वेगाः “उत् “यन्तु । तथा “जयतां “रथानां “घोषाः “उत् यन्तु ॥


अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यंतु ।

अ॒स्माकं॑ वी॒रा उत्त॑रे भवंत्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥११

अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।

अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥

अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।

अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥

“अस्माकं संबन्धिष्वेव “समृतेषु परसेनां संप्राप्तेषु “ध्वजेषु ध्वजवत्सु सैनिकेषु “इन्द्रः रक्षिता भवतु । तथा “अस्माकं “या “इषवः सन्ति “ताः एव “जयन्तु शत्रून् । तथा “अस्माकं “वीराः भटाः “उत्तरे उपरि “भवन्तु । हे “देवाः “अस्माँ “उ अस्मानेव “अवत रक्षत “हवेषु संग्रामेषु ॥


अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भयं॑ती गृहा॒णांगा॑न्यप्वे॒ परे॑हि ।

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑रं॒धेना॒मित्रा॒स्तम॑सा सचंतां ॥१२

अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ ।

अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥

अमीषाम् । चित्तम् । प्रतिऽलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।

अभि । प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम् ॥

हे “अप्वे पापाभिमानिनि देवते "अमीषां योद्धृणां शत्रूणां “चित्तं “प्रतिलोभयन्ती विमोहयन्ती सती “अङ्गानि तेषामवयवान् शिरआदिकान् गृहाण स्वीकुरु। “अभि “प्रेहि “अभिगच्छ। तेषां समीपं गत्वा च "हृत्सु हृदयेषु “शोकैः “निर्दह नितरां भस्मीकुरु । ते “अमित्राः अस्मच्छत्रवः “अन्धेन “तमसा “सचन्तां संगच्छन्ताम् ॥


प्रेता॒ जय॑ता नर॒ इंद्रो॑ वः॒ शर्म॑ यच्छतु ।

उ॒ग्रा वः॑ संतु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥१३

प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ ।

उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥

प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु ।

उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥

हे “नरः नेतारः संग्रामस्य निर्वोढारो योद्धारः “प्रेत प्रकर्षेण गच्छत ! गत्वा च "जयत तान्प्रतिभटान् । तिङः परत्वात् ' तिङ्ङतिङः' इति निघाताभावः। “वः युष्माकम् “इन्द्रः “शर्म सुखं “यच्छतु प्रयच्छतु । “वः “बाहवः “उग्रा: उद्गूर्णबलाः “सन्तु भवन्तु । “अनाधृष्याः अन्यैरनभिभाव्याः “यथा यूयम् "असथ भविष्यथ तथोग्राः सन्तु वो बाहवः ॥ ॥ २३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०३&oldid=180747" इत्यस्माद् पुनः प्राप्तिः