ऋग्वेदः सूक्तं १०.१६३
← सूक्तं १०.१६२ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६३ विवृहा काश्यपः |
सूक्तं १०.१६४ → |
दे. यक्ष्मनाशनम्। अनुष्टुप् |
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि ।
यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥३॥
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥४॥
मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥५॥
अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥६॥
सायणभाष्यम्
' अक्षीभ्याम् ' इति षडृचं द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः । यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम् । अनुक्रान्तं च -अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नम् ' इति । लैङ्गिको विनियोगः ।।
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥ १
अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ ।
यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥१
अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि ।
यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥१
हे यक्ष्मगृहीत “ते तव “अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं “वि “वृहामि उद्धारयामि । विश्लेषयामीत्यर्थः ।। ' ई च द्विवचने ' ( पा. सू ७.१. ७७) इत्यक्षिशब्दस्येकारान्तादेशः । स चोदात्तः ।। तथा “नासिकाभ्यां घ्राणेन्द्रियाच्च “कर्णाभ्यां श्रोत्राभ्यां च “छुबुकात् चुबुकादोष्ठस्याधःप्रदेशाच्च । अधिरनर्थकः । अपि च “शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः । ' भवे छन्दसि ' इति यत् । ' ये च तद्धिते ' ( पा. सू. ६. १. ६१) इति शिरसः शीर्षन्नादेशः । ' ये चाभावकर्मणोः ' ( पा. सू. ६.४.१६८) इति प्रकृतिभावः ।। ईदृशं “यक्ष्मं रोगं “ते तव “मस्तिष्कात् । शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः । तस्मात् “जिह्वायाः रसनायाश्च सकाशाद्वि वृहामि उद्धारयामि । पृथक्करोमीत्यर्थः । ' वृहू उद्यमने ' इति धातुः ।।
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् ।
यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥ २
ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् ।
यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्या॑म् । वि । वृ॒हा॒मि॒ । ते॒ ॥२
ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् ।
यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥२
हे व्याधिगृहीत “उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यः “ग्रीवाभ्यः गलगताभ्यो धमनीभ्यः “ते तव “यक्ष्मं “वि “वृहामि । तथा “कीकसाभ्यः अस्थिभ्यः “अनूक्यात् अस्थिसंधेश्च यक्ष्मं वि वृहामि । ' उच समवाये ' । अनूच्यते समवेयत इत्यस्थ्नः संधिरनूक्यः । ऋहलोर्ण्यत् । ' चजोः कु धिण्ण्यतोः ' इति कुत्वम् । तित्स्वरितः । अपि च दोष्णोर्भवं “दोषण्यम् । पूर्ववद्यति ' पद्दन्' इत्यादिना दोःशब्दस्य दोषन्नादेशः । पूर्ववत्प्रकृतिभावः । तमपि यक्ष्मं रोगं “ते तव “अंसाभ्यां “बाहुभ्यां च वि वृहामि । हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू ।।
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥ ३
आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ ।
यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥३
आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि ।
यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥३
हे यक्ष्माभिभूत “ते तव “आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम् । तत्संबन्धिभ्यः स्नायुभ्यः “गुदाभ्यः याभिर्नाडीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो नाडीभ्यश्च सकाशात् यक्ष्मं वि वृहामि । तथा “वनिष्ठोः स्थविरान्त्रात् “हृदयादधि हृदयपुण्डरीकाच्च यक्ष्मं वि वृहामि । अपि च “ते तव “मतस्नाभ्याम् । मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ । ताभ्यां “यक्नः। हृदयसमीपे वर्तमानः कालमांसविशेषो यकृत् । तस्माच्च । ' पद्दन् ' इत्यादिना यकृच्छब्दस्य यकन्नादेशः । “प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यश्च मांसेभ्यश्च “यक्ष्मं रोगं “वि “वृहामि उत्क्षिपामि ।।
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥ ४
ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् ।
यक्ष्म॑म् । श्रोणि॑ऽभ्याम् । भास॑दात् । भंस॑सः । वि । वृ॒हा॒मि॒ । ते॒ ॥४
ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् ।
यक्ष्मम् । श्रोणिऽभ्याम् । भासदात् । भंससः । वि । वृहामि । ते ॥४
हे रुग्ण “ते तव “ऊरुभ्याम् “अष्ठीवद्भ्यां जानुभ्यां च “यक्ष्मं “वि “वृहामि । तथा “पार्ष्णिभ्यां पादस्यापरभागाभ्यां “प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि । अपि च “श्रोणिभ्यां जघनाभ्यां च यक्ष्मं वि वृहामि । तथा “भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् “भससः भासमानात् पायोः “ते तव यक्ष्मं वि वृहामि ।।
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥ ५
मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥५
मेहनात् । वनम्ऽकरणात् । लोमऽभ्यः । ते । नखेभ्यः ।
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥५
“वनंकरणात् । वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनंकरणम् । तस्मात् “मेहनात् मेढ्रात् “ते तव “लोमभ्यः “नखेभ्यः च “यक्ष्मं “वि “वृहामि । किं बहुना । “इदम् इदानीं “तं यक्ष्मं “सर्वस्मादात्मनः कृत्स्नादेव “ते तव शरीरात् वि वृहामि ।।
अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥ ६
अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥६
अङ्गात्ऽअङ्गात् । लोम्नःऽलोम्नः । जातम् । पर्वणिऽपर्वणि ।
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥६
“अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यः “लोम्नोलोम्नः सर्वेभ्यो लोमभ्यश्च “पर्वणिपर्वणि अवयवानां संधौ “जातम् उत्पन्नं “यक्ष्मं “वि “वृहामि । अन्यद्गतम् ।। ।। २१ ।।
मण्डल १० | ||||
---|---|---|---|---|