ऋग्वेदः सूक्तं १०.१७९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१७८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७९
क्रमेण - शिबिरौशीनरः, काशिराजः प्रतर्दनः, रौहिदश्वो वसुमनाः।
सूक्तं १०.१८० →
दे. इन्द्रः। त्रिष्टुप्, १ अनुष्टुप्


उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥१॥
श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् ।
परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः ।
माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥३॥


सायणभाष्यम्

‘उत्तिष्ठत ' इति तृचमष्टाविंशं सूक्तमैन्द्रम् । आद्यानुष्टुप् शिष्टे त्रिष्टुभौ । उशीनरपुत्रः शिबिर्नाम राजा प्रथमाया ऋषिः । काशीनामधिपतिः प्रतर्दनो नाम द्वितीयायाः । रोहिदश्वपुत्रो वसुमना नाम तृतीयायाः। तथा चानुक्रान्तम्- उत्तिष्ठतैकर्चाः शिबिरौशीनरः काशिराजः प्रतर्दनो रौहिदश्वो वसुमना आद्यानुष्टुप्' इति । दधिधर्म आद्या वक्तव्या । सूत्रितं च- ‘ होतर्वदस्वेत्युक्त उत्तिष्ठताव पश्यतेत्याह' ( आश्व. श्रौ. ५. १३) इति ॥


उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् ।

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥१

उत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्विय॑म् ।

यदि॑ । श्रा॒तः । जु॒होत॑न । यदि॑ । अश्रा॑तः । म॒म॒त्तन॑ ॥१

उत् । तिष्ठत । अव । पश्यत । इन्द्रस्य । भागम् । ऋत्वियम् ।

यदि । श्रातः । जुहोतन । यदि । अश्रातः । ममत्तन ॥१

हे ऋत्विजः "उत्तिष्ठत । आसनादूर्ध्वमुत्तिष्ठत । नोपविशत । ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा. सू. १. ३. २४ )। उत्थाय “ऋत्वियम् ऋतौ वसन्तादिकाले भवम् “इन्द्रस्य “भागं भजनीयं दधिघर्मं पच्यमानम् “अव “पश्यत निरीक्षध्वम् ॥ ऋतुशब्दाद्भवार्थे छन्दसि घस् । 'सिति च ( पा. सू. १, ४, १६ ) इति पदसंज्ञया भसंज्ञाया बाधादोर्गुणाभावः। भजेः कर्मणि घञन्तो भागशब्दः । ‘ कर्षात्वतः०० इत्यन्तोदात्तत्वम् ॥ “यदि स भागः “श्रातः पक्वस्तर्हि “जुहोतन । इन्द्रार्थमग्नौ जुहुत । तप्तनप्तनथनाश्च' इति तस्य तनबादेशः । ‘भीह्री' (पा. सू. ६. १. १९२ ) इत्यादिना पिति प्रत्ययात्पूर्वस्योदात्तत्वम् । “यद्यश्रातः अपक्वः तर्हि “ममत्तन माद्यत । यद्वा । स्तुतिभिर्मादयत । अत्र तेनैव सूत्रेण तनबादेशः ॥


तस्यैव दधिघर्मस्य ‘श्रातं हविः' इत्येषानुवाक्या । सूत्रितं च- ‘ श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह ' ( आश्व. श्रौ. ५. १३) इति ॥

श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् ।

परि॑ त्वासते नि॒धिभि॒ः सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥२

श्रा॒तम् । ह॒विः । ओ इति॑ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम॑ । सूरः॑ । अध्व॑नः । विऽम॑ध्यम् ।

परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽभिः॑ । सखा॑यः । कु॒ल॒ऽपाः । न । व्रा॒जऽप॑तिम् । चर॑न्तम् ॥२

श्रातम् । हविः । ओ इति । सु । इन्द्र । प्र । याहि । जगाम । सूरः । अध्वनः । विऽमध्यम् ।

परि । त्वा । आसते । निधिऽभिः । सखायः । कुलऽपाः । न । व्राजऽपतिम् । चरन्तम् ॥२

हे “इन्द्र “हविः दधिघर्माख्यं त्वदीयं “श्रातं पक्वम् ॥ ‘ श्रीञ् पाके' इत्यस्मान्निष्टायाम् ‘ अपस्पृधेथाम्' इत्यादौ श्राभावो निपात्यते । “ओ अ उ “सु सुष्ठु “प्र “याहि प्रकर्षेण शीघ्रमागच्छ । “सूरः सूर्यः “अध्वनः गन्तव्यस्य मार्गस्य “विमध्यं विकल मध्यमीषदूनं मध्यभागं “जगाम गतवान् । तव यागार्थं मध्याह्नो जात इत्यर्थः । “सखायः समानख्याना ऋत्विजश्च “निधिभिः निहितैः अभिन्यासादितैः सोमैः सार्धं “त्वा त्वां “परि "आसते पर्युपासते । तत्र दृष्टान्तः । “कुलपा “न कुलस्य वंशस्य रक्षकाः पुत्रा यथा “व्राजपतिम् । व्राजा गन्तव्या गृहाः। तेषां पतिं "चरन्तं गच्छन्तमुपासते तथेत्यर्थः ॥ ‘ व्रज गतौ । अस्मात्कर्मणि घञ् । 'अजिव्रज्योश्च' (पा. सू. ७.३.६०) । इति कुत्वनिषेधः । ‘कर्षांत्वतः” इत्यन्तोदात्तत्वे ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् ।


तस्यैव दधिघर्मस्य ‘ श्रातं मन्ये ' इत्येषा याज्या । सूत्र्यते हि- ‘ श्रातं मन्य ऊधनि श्रातमग्नाविति यजति' (आश्व. श्रौ. ५. १३ ) इति

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।

माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥३

श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः ।

माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥३

श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽश्रातम् । मन्ये । तत् । ऋतम् । नवीयः ।

माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥३

“ऊधनि गोरूधस्येतद्दधिघर्माख्यं हविः पयोरूपेण “श्रातं पक्कमिति “मन्ये जाने । पुनश्च दुग्धं पयः “अग्नौ अपि “श्रातं पक्वम् । इदानीं दध्यवस्थमप्यग्नौ पच्यते । अतः “सुश्रातं सुपक्वमिति “मन्ये जाने । अत एतद्धविः “ऋतं सत्यभूतं "नवीयः नवतरं प्रत्यग्रतरं भवति । हे “वज्रिन् वज्रवन् हे “पुरुकृत् बहुकर्मकृत् “इन्द्र "जुषाणः प्रीयमाणस्त्वं “माध्यंदिनस्य मध्यंदिने भवस्य “सवनस्य सोमस्य संबन्धिनः “दध्नः । कर्मणि षष्ठी । दधिघर्माख्यं हविः “ पिब ॥ ॥ ३७॥

[सम्पाद्यताम्]

टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१