ऋग्वेदः सूक्तं १०.६८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.६८ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.६७ ऋग्वेदः - मण्डल १०
सूक्तं १०.६८
अयास्य आङ्गिरसः
सूक्तं १०.६९ →
दे. बृहस्पतिः। त्रिष्टुप् ।
बृहस्पतिदेवस्थानम्, दशाश्वमेधः, वाराणसी।


उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥२॥
साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः ।
बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् ।
बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥६॥
बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।
आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥७॥
अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् ।
निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥१२॥

सायणभाष्यम्

'उदप्रुतः' इति द्वादशर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘उदप्रुतः' इत्यनुक्रान्तम् । उक्थे ब्राह्मणाच्छंसिन एतत्सूक्तम् । सूत्रितं च--- प्र मंहिष्ठायोदप्रुतोऽच्छा म इन्द्रम् ' (आश्व.श्रौ. ६.१) इति ॥


उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।

गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥ १

उ॒द॒ऽप्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्यऽइव । घोषाः॑ ।

गि॒रि॒ऽभ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बृह॒स्पति॑म् । अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥१

उदऽप्रुतः । न । वयः । रक्षमाणाः । वावदतः । अभ्रियस्यऽइव । घोषाः ।

गिरिऽभ्रजः । न । ऊर्मयः । मदन्तः । बृहस्पतिम् । अभि । अर्काः । अनावन् ॥१

“उदप्रुतः उदकस्योद्गमयितारः “वयः पक्षिणः पक्वात्सस्यात् रक्षमाणाः कृषीवलाः । “न उपमार्थे । यथा शब्दायन्ते । यथा च “वावदतः पुनःपुनः शब्दायमानस्य “अभ्रियस्येव अभ्रसमूहस्य “घोषाः शब्दा यथा भवन्ति । किंच "गिरिभ्रजः गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गताः “ऊर्मयः अप्समूहा यथा “मदन्तः शब्दायमाना भवन्ति । तथा “अर्काः अर्चकाः स्तोतारः “बृहस्पतिम् “अभि अनावन् अभिष्टुवन्ति । ‘नु स्तवने ॥


सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।

जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥ २

सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ।

जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥२

सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःऽइव । इत् । अर्यमणम् । निनाय ।

जने । मित्रः । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥२

“आङ्गिरसः अङ्गिरसः पुत्रः “नक्षमाणः स्वतेजसा व्याप्नुवन् “भगइवेत् भगो देव इव स्थितो बृहस्पतिरेव “अर्यमणं स्तुतेः प्रेरकं स्तोतारं “गोभिः सह “सं “निनाय संनयति संयोजयति । “मित्रो “न मित्रो यथा “जने जनपदे स्वरश्मीन् संयोजयति तद्वत् “दंपती जायापती “अनक्ति संगमयति । स्वसामर्थ्येन तत्र स्थापयतीत्यर्थः । हे “बृहस्पते आशून् व्याप्तान् स्वरश्मीन् “वाजय तव स्तोतृषु गमय स्थापय । “आशूनिव व्याप्तानश्वान् “आजौ संग्रामे योद्धारो यथा संगमयन्ति तद्वत् ॥


सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒राः स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।

बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥ ३

सा॒धु॒ऽअ॒र्याः । अ॒ति॒थिनीः॑ । इ॒षि॒राः । स्पा॒र्हाः । सु॒ऽवर्णाः॑ । अ॒न॒व॒द्यऽरू॑पाः ।

बृह॒स्पतिः॑ । पर्व॑तेभ्यः । वि॒ऽतूर्य॑ । निः । गाः । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्यः॑ ॥३

साधुऽअर्याः । अतिथिनीः । इषिराः । स्पार्हाः । सुऽवर्णाः । अनवद्यऽरूपाः ।

बृहस्पतिः । पर्वतेभ्यः । विऽतूर्य । निः । गाः । ऊपे । यवम्ऽइव । स्थिविऽभ्यः ॥३

“साध्वर्याः साधूनां कल्याणानां पयसां नेत्रीः "अतिथिनीः सततं गच्छन्तीः “इषिराः एषणीयाः “स्पार्हा: स्पृहणीयाः “सुवर्णाः शोभनशुक्लादिवर्णोपेताः "अनवद्यरूपाः प्रशस्यरूपा एताः “गाः “पर्वतेभ्यः वलसंबन्धिभ्यः “वितूर्य निर्गमय्य “ऊपे देवसमीपे निर्वपति प्रापयति । तत्र दृष्टान्तः । “यवमिव । यथा यवं “स्थिविभ्यः कुसीदेभ्य आदाय निर्वपति । ‘डुवप् बीजसंताने'। लिटि रूपम् । यद्वा । साधुनयनादिगुणयुक्ता गा अपः पर्वतेभ्यो मेघेभ्य आहृत्य सर्वत्र वर्षति ॥


आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥ ४

आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः । उ॒ल्काम्ऽइ॑व । द्योः ।

बृह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ । उ॒द्नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥४

आऽप्रुषायन् । मधुना । ऋतस्य । योनिम् । अवऽक्षिपन् । अर्कः । उल्काम्ऽइव । द्योः ।

बृहस्पतिः । उद्धरन् । अश्मनः । गाः । भूम्याः । उद्नाऽइव । वि । त्वचम् । बिभेद ॥४

"मधुना उदकेन “आप्रुषायन् पृथिवीमाभिमुख्येन सिञ्चन् । ' प्रुष प्लुष स्नेहनसेचनपूरणेषु' । व्यत्ययेन विकरणस्य शायजादेशः । “ऋतस्य उदकस्य “योनिं मेघम् “अवक्षिपन् वृष्ट्यर्थमवकिरन् “अर्कः अर्चनीयः “बृहस्पतिः “द्योः द्युलोकात् "उल्कामिव उल्कां यथोद्धरति तद्वत् “अश्मनः शिलोच्चयाद्बलेनाधिष्ठितात् “गाः पणिभिरपहृतान् पशून् “उद्धरन् ऊर्ध्वं गमयन् “भूम्याः “त्वचं तेषां शफैः “वि “बिभेद विभिन्नामकार्षीत् । सर्वत्र गा वितता अकार्षीदित्यर्थः । तत्र दृष्टान्तः । उद्नेव । यथा वृष्ट्युदकेन पर्जन्यो भूमित्वचं विभिनत्ति तद्वत् ॥


अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।

बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥ ५

अप॑ । ज्योति॑षा । तमः॑ । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव । वातः॑ । आ॒ज॒त् ।

बृह॒स्पतिः॑ । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व । वातः॑ । आ । च॒क्रे॒ । आ । गाः ॥५

अप । ज्योतिषा । तमः । अन्तरिक्षात् । उद्नः । शीपालम्ऽइव । वातः । आजत् ।

बृहस्पतिः । अनुऽमृश्य । वलस्य । अभ्रम्ऽइव । वातः । आ । चक्रे । आ । गाः ॥५

सः "बृहस्पतिः “ज्योतिषा तमसावृते पर्वतविवरे कृतेन सूर्येण “अन्तरिक्षात् “तमः “अप “आजत् अपागमयत् । तत्र दृष्टान्तः । “उद्नः “शीपालमिव । यथोदकात् “वातः वायुः शीपालं शैवालमपगमयति तद्वत् । ततः सोऽयम् “अनुमृश्य अत्र गावस्तिष्ठन्तीति विचार्य निश्चित्य “वलस्य स्वभूतस्य पर्वतस्यान्तर्गताः “गाः “आ “चक्रे समन्तादकार्षीत् । कथमिव । “अभ्रमिव । यथा वायुरन्तरिक्षस्थितमभ्रं मेघमाकिरति तद्वत् ।


य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।

द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥ ६

य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः ।

द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥६

यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपःऽभिः । अर्कैः ।

दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदत् । आविः । निऽधीन् । अकृणोत् । उस्रियाणाम् ॥६

“पीयतः । पीयतिर्हिंसाकर्मा । हिंसकस्य “वलस्य “जसुम् आयुधं “यदा यस्मिन्काले “भेत् भिनत्ति । केन साधनेन । “अग्नितपोभिः अग्निवत्तपनशीलैः “अर्कैः अर्चनीयै रश्मिभिः अपि वा मन्त्रैर्भिनत्ति । किंच “दद्भिः । पद्दन्नोमास्°' इत्यादिना दन्तशब्दस्य दद्भावः । यथा दन्तैः परिविष्टं भक्ष्यं जिह्वा भक्षयति तद्वत् सः “परिविष्टं पर्वतं पणिभिः परिवृतं वलनामानं यदा “आदत् अभक्षयत् अवधीत् तदानीं तैरपहृतानाम् “उस्त्रियाणां गवां “निधीन् "आविः "अकृणोत् आविर्भूतमकरोत् ॥ ॥ १७ ॥


बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।

आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥ ७

बृह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् ।

आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥७

बृहस्पतिः । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् ।

आण्डाऽइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रियाः । पर्वतस्य । त्मना । आजत् ॥७

“बृहस्पतिः “गुहा गुहायां “सदने स्थाने “स्वरीणां शब्दायमानानाम् “आसां गवां “त्यत् तत् प्रसिद्धं “नाम नामधेयं “यत् यदा “अमत “हि ज्ञातवान् खलु। ‘ मनु अवबोधने'। लुङि ‘ तनादिभ्यस्तथासोः' (पा. सू. २, ४, ७९) इति सिचो लुक् । तदानीं “पर्वतस्य अन्तःस्थिताः “उस्रियाः गाः “त्मना आत्मनैवासहायेन पर्वतं “भित्त्वा “उत् "आजत् उदगमयत् । तत्र दृष्टान्तः । “आण्डेव यथा “शकुनस्य पक्षिण आण्डानि भित्त्वा तत्र स्थितं "गर्भम् उद्गमयति तद्वत् ॥


अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् ।

निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥ ८

अश्ना॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अ॒प॒श्य॒त् । मत्स्य॑म् । न । दी॒ने । उ॒दनि॑ । क्षि॒यन्त॑म् ।

निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः॑ । वि॒ऽर॒वेण॑ । वि॒ऽकृत्य॑ ॥८

अश्ना । अपिऽनद्धम् । मधु । परि । अपश्यत् । मत्स्यम् । न । दीने । उदनि । क्षियन्तम् ।

निः । तत् । जभार । चमसम् । न । वृक्षात् । बृहस्पतिः । विऽरवेण । विऽकृत्य ॥८

“बृहस्पतिः “अश्ना अश्मना व्याप्तया शिलया “अपिनद्धं पिहितं “मधु गोलक्षणं “पर्यपश्यत् परितोऽद्राक्षीत् । तत्र दृष्टान्तः । “मत्स्यं “न यथा “दीने शुष्के “उदनि । उदकशब्दस्योदन्नादेशः। उदके “क्षियन्तं निवसन्तं मत्स्यं यथा पश्यति तद्वत् । दृष्ट्वा च “तत् गोलक्षणं मधु “विरवेण विविधेन शब्देन “विकृत्य वलं छित्त्वा “निः "जभार पर्वतान्निर्जहार । कथमिव । “चमसं “न । चमन्ति भक्षयन्त्यत्रेति चमसः सोमपात्रम् । तं यथा “वृक्षात् निर्हरति तद्वत् । हरतेर्लिटि रूपम् । हृग्रहोर्भः ॥ ___


सोषाम॑विन्द॒त्स स्व१॒ः॑ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।

बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥ ९

सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒॑रिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि ।

बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥९

सः । उषाम् । अविन्दत् । सः । स्वरिति स्वः । सः । अग्निम् । सः । अर्केण । वि । बबाधे । तमांसि ।

बृहस्पतिः । गोऽवपुषः । वलस्य । निः । मज्जानम् । न । पर्वणः । जभार ॥९

“सः “बृहस्पतिः तत्र पर्वतविवरे गवां दर्शनाय “उषां उषसम् “अविन्दत् अलभत । “सः एव “स्वः आदित्यं “सः “अग्निं लब्ध्वा “अर्केण अर्चनीयेन तेजसा “तमांसि “वि “बबाधे अत्यर्थं बाधितवान् । ततः सः “गोवपुषः गोरूपशरीरस्य पशुभिः परिवृतस्य “वलस्य “पर्वणः पर्वतात् ता गा: “निः “जभार बलेन निर्जहार । वलादाहरणे दृष्टान्तः । “मज्जानं “न “पर्वणः । अस्थ्नो मज्जानं यथा अतिक्लेशेन निर्हरन्ति तद्वत् ॥


हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः ।

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥ १०

हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒लः । गाः ।

अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थः । उ॒त्ऽचरा॑तः ॥१०

हिमाऽइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वलः । गाः ।

अननुऽकृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथः । उत्ऽचरातः ॥१०

“हिमेव यथा हिमेन “पर्णा पर्णानि पद्मपत्राणि “मुषिता मुषितानि भवन्ति तद्वद्वलेन “वनानि वननीयानि गोधनानि मुषितान्यभूवन् । अथ गवामन्वेषणाय “बृहस्पतिना आगतेन हेतुना “वलः “अकृपयत् अस्मै ता मुषिताः “गाः प्रायच्छत् । तत्र “अननुकृत्यम् अननुकरणीयम् “अपुनः कर्तव्यं च तत्कर्म “चकार । यथा तत्पश्चात्करणीयं न भवति यथा पुनरकरणीयं तथाकार्षीदित्यर्थः। किं तदिति आह । “सूर्यामासा सूर्याचन्द्रमसौ “मिथः परस्परमहोरात्रयोः “उच्चरातः उच्चरत इति "यात् तच्चकार । यादिति दीर्घश्छान्दसः ॥


अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।

रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥ ११

अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ । द्याम् । अ॒पिं॒श॒न् ।

रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥११

अभि । श्यावम् । न । कृशनेभिः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् ।

रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः ॥११

“पितरः पालयितारो देवाः “द्यां द्युलोकं “नक्षत्रेभिः अश्विन्यादिभि: “अभि “अपिंशन् अभितोऽदीपयन्। ‘ पिश अवयवे'। अयं दीपनायां वर्तते । तत्र दृष्टान्तः। “श्यावं “न यथा श्याववर्णम् “अश्वं “कृशनेभिः सौवर्णैराभरणैरलंकुर्वन्ति तद्वत् । तथा “रात्र्यां “तमः निहितवन्तः । किंच “अहन् अह्नि “ज्योतिः आदित्याख्यम् “अदधुः । अदधुरित्युत्तरवाक्येन संबन्धः करणीयः । अन्यथा स्वरो न घटेत। अत्र तु वाक्यभेदादनिघातः । यदा "बृहस्पतिः “अद्रिं वलेनाधिष्ठितं शिलोच्चयं “भिनत अभिनत् विभिद्य च तत्र स्थितान् “गाः पशून् “विदत् अविदत् अलभत । विदेर्लुङि लृदित्त्दवाङ्। तदा देवा एवमकार्षुरित्यर्थः ॥


इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।

बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥ १२

इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति ।

बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥१२

इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आऽनोनवीति ।

बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृऽभिः । नः । वयः । धात् ॥१२

"अभ्रियाय अभ्रेषु भवायान्तरिक्षाय मध्यमाय बृहस्पतये “इदम् उक्तं “नमः स्तोत्रम् “अकर्म वयमकार्ष्म। “यः बृहस्पतिः “पूर्वीः बह्वीर्ऋचः “अनु अनुक्रमेण “आनोनवीति अत्यर्थमाभिमुख्येन ब्रवीति “सः “बृहस्पतिः एव “गोभिः “अश्वैः च युक्तं “वीरेभिः पुत्रैः “नृभिः भृत्यादिभिश्च सहितं “वयः अन्नं “नः अस्मभ्यं स्तोतृभ्यः “धात् दधातु प्रयच्छतु । तच्छब्दावृतिः आदरार्था ॥ ॥ १८ ॥ ॥ ५ ॥

[सम्पाद्यताम्]

टिप्पणी

अयास्यः (ऋषिः) - द्र. जै.उ.ब्रा. २.३.१.१, कौशीतकिब्रा. ३०.६

ब्राह्मणाच्छंसिनः उक्थानि - उदप्रुत इति चतुर्थे (अहनि) - शांश्रौसू. १२.१२.९

ब्राह्मणाच्छंसिनः उक्थानि - उदप्रुतो न वयो रक्षमाणाः इति बार्हस्पत्यं सांशंसिकम्। अहं चेति बृहस्पतिर् अब्रवीत्। देवतयोः संशंसायनतिशंसाय - गोब्रा. २.४.१६

उदग्रुतो न वयो रक्षमाणा इति बार्हस्पत्यं सांशंसिकम् - वै.श्रौ.सू. २५.८

बृहस्पतये वाचस्पतये नैवारं चरुं (तैसं १.८.१०.१) इत्यस्य पुरोनुवाक्या - उदप्रुतो न इति - तै.सं. ३.४.११.३


१०.६८.११ कृशनं

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन्। रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः॥ ११ यथा श्यावं, कृष्णं अश्वं कृशनेभिः, सुवर्णेभिः अलंकुर्वन्ति, एवं प्रकारेणैव पितरः नक्षत्रेभिः द्यामपिंशन्। अस्य पौराणिकं रूपं एवंप्रकारेण अस्ति - लक्ष्मीनारायणसंहिता ३.९१.७८ यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचि तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६८&oldid=314349" इत्यस्माद् प्रतिप्राप्तम्