सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९१

विकिस्रोतः तः
← अध्यायः ०९० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०९१
[[लेखकः :|]]
अध्यायः ०९२ →

3.91
श्रीनारायणीश्रीरुवाच
घातकिनां सतां योगो यदि नैवोपजायते ।
कथमुद्धरणं तेषां भवेत् कथय चोत्तमम् ॥ १॥
श्रीपुरुषोत्तम उवाच
साधवः सर्वतः श्रेष्ठा मिलेयुर्न तदा भुवि ।।
श्रेष्ठतीर्थेषु गन्तव्यमध्वराऽवभृथे च वा ॥ २ ॥
कुंभसूर्ये प्रगन्तव्यं तीर्थे स्नात्वा प्रमुच्यते ।
कुंकुमवापिकातीर्थे गोमतीतीर्थमित्यपि ॥ ३ ॥
स्वर्णरेखा महत्तीर्थं नारायणहृदः स्वयम् ।।
हिरण्यासंगमस्तीर्थं सोमनाथे महत्तमम् ।। ४ ॥
नर्मदासागरयोगश्चोंकारेश्वर इत्यपि ।।
श्रीशैलश्चापि सह्याद्रिः पंपासरस्तथोत्तमम् ॥ ५ ॥
दक्षिणोदधिभूतीरः सेतुः कन्याकुमारिका ।।
गोदावरी चन्द्रभागा कावेरी सरयूस्तथा ॥ ६ ॥
गंगा च यमुना ब्रह्मपुत्रा सिन्धुः सरस्वती ।।
चन्द्रवीना शालवीना मानपींगा तथा सरित् ।। ७ ॥
मेनकांगी च शिक्षांगी ह्यंगशिक्षांगिका तथा ।
होयांगहा चामुरा च वीना यानाक्षिका तथा ॥८॥
बालकृष्णसरश्चापि द्विकलाख्यसरस्तथा ।
ओवी च तेरिमा द्वीना वोल्गा च नीपरा तथा ॥ ९ ॥
नारायणी सर्वदीर्घा विषतुर्यसरोवरम् ।
कङ्गूनदी नायजीरा चित्तं तुंगानिकं सरः ॥3.91.१०॥
आमजाना सरिच्चापि मिशूरी मीनकंझुकी ।
सुलीवनसरो विनिपेगं सुपारयं सरः ॥११॥
एरसरः कारुलिंगी तथाऽन्याः सरितः शुभाः ।
यत्र यत्राऽहं मुनिभिः सह स्नातः सरित्सु वै ॥१२॥
सरोवरेषु खातेषु समुद्रेषु क्षितौ रमे ! ।
तत्र तत्रैव तीर्थस्य विधिना स्नानतस्तथा ॥१३॥
घातपापनि नश्यन्ति पुनश्चेन्नाऽऽचरेद् यदि ।
मत्प्रतिमाऽमृतवार्भिः स्नातः शुद्ध्यति तत्क्षणात् ॥१४॥
मत्प्रसादाऽशनेनाऽपि मम सेवादिभिस्तथा ।।
देवालयादिनिर्मित्या सद्यः शुद्ध्यति घातकः ॥१५॥
मन्दिरादेर्विनिर्माता मन्मूर्तिस्थापकस्तथा ।।
साध्वर्थे प्राणदाता च धर्मार्थे प्राणदायकः ॥१६॥
शुद्ध्यत्येव महापापाद् घातकाख्यात् समूलतः ।।
पुष्करं मानसं चापि हिमालयो गिरीश्वरः ॥१७॥
बद्रिकाश्रमतीर्थं च पावनानि समस्ततः ।
मातृतीर्थं पितृतीर्थं निषेवेत ह्यतन्द्रितः ॥१८॥
गुरुतीर्थं सतीतीर्थं निषेवेत प्रयत्नतः ।।
कान्ततीर्थं ज्ञानतीर्थं चात्मतीर्थं ततः परम् ॥१९॥
भक्तितीर्थं परं तस्मादहं सर्वोत्तमोत्तमः ।।
मां निषेवेत सततं मुच्यते सर्वपातकैः ॥3.91.२०॥
यस्य घातः कृतस्तस्मै स्वर्णदानं समर्पयेत् ।।
हस्तिदानं राज्यदानं ग्रामदानं समाचरेत् ॥२१॥
वंशस्य जीविकादानं कन्यादानं तथाऽऽचरेत् ।
गोदानं पृथिवीदानं दद्याद् घातविनाशकम् ॥२२॥
दद्याद् यद्वा स्वयं स्वं च भृत्यं यथाऽनुगं यथा ।
दासं यथा यथा शिष्यं यथा क्रय्यं तथाऽऽर्पयेत् ॥२३॥
तेनाऽऽपि घातपापस्य नाशो भवति पद्मजे ।
यथा तोषो भवेत् तच्च दद्यात् सर्वं विशेषतः ॥२४॥
गृहं भूषाऽम्बरसम्पत्पशून् दद्यात् समस्ततः ।।
घातपापस्य नाशो वै तेन संजायतेऽपि च ॥२५॥
प्रभासं नैमिषारण्यं गन्धमादनपर्वतम् ।
नीलाद्रिं चापि कैलासं क्षेत्रं च पौरुषोत्तमम् ॥२६॥
शुक्लतीर्थं भृगुतुङ्गं धर्मारण्यं च दण्डकम् ।
व्याघ्रारण्यं विपाशां च करतोयां च गण्डकीम् ॥२७॥
कर्मनाशां देवदारुवनं कालंजरं तथा ।
ब्रह्मसरो रामहृदं चित्रकूट च विन्ध्यकम् ॥२८॥
एवमादीनि तीर्थानि कृत्वा पापं विनश्यति ।
विख्यातो हिमवान् पुण्यः सिद्धनारायणाश्रितः ॥२९॥
तत्र प्राणी यदि यान्ति प्रपूज्य देवतामुनीन् ।
शुद्धः सिद्धो दिवं यायाद् ब्रह्मलोकं सनातनम् ॥3.91.३०॥
कामं क्रोध लोभमोहौ मदं जित्वाऽऽर्च्य मातरम् ।।
पितरं च गुरुं नत्वा गणेशं तीर्थमाविशेत् ॥३१॥
तस्य पातकनाशश्च तीर्थाभिगमनाद् भवेत् ।
अगम्यानि तु तीर्थानि स्मृत्वा पापमपानुदेत् ॥३२॥
ब्रह्म मेध्यं ब्रह्म पुण्यं ब्रह्म स्वर्ग्यमनुत्तमम् ।।
साधवो ब्रह्म चेत्युक्ताः पावनं ब्रह्म सर्वदा ॥३३॥
तदाश्रयं प्रकुर्याद्वै पावनाः साधवः सदा ।।
देवास्तु साधवो यज्ञमयजन्त हरिं हि माम् ॥३४॥
यज्ञेन कर्मणा नित्यभजनेन च सेवया ।।
सेवात्मकानि धर्माणि प्रथमान्युत्तमानि च ॥३५॥
आसँस्तैर्धर्मकार्यैश्च माहात्म्यं प्रसचन्त है ।।
नाकं नित्यानन्दयुक्तं धाम चापुर्हि साधवः ॥३६॥
यत्र साध्या नित्यमुक्ता देवा वसन्ति सेवकाः ।।
अनादिनश्च वै पूर्वे पूर्वतमा वसन्त्यपि ॥३७॥
तेषामाश्रयकरणान्मुक्तिरेव न संशयः ।।
इदं रहस्यं मे लक्ष्मि श्रीपतेः परमात्मनः ॥३८॥
ब्रह्मविद्या भजनं च मत्कथा ध्यानमुत्सवः ।।
मन्मन्त्रदानमित्येभिस्तारयन्ति निजाश्रितान् ॥३९॥
शरणागतरक्षा च मोक्षश्च पापनाशनम् ।
भक्तिलाभो ब्रह्मशीलं भवन्ति साधुसंगमात् ॥3.91.४०॥
इदं लक्ष्मि ! मतं कश्चिन्मम श्रीपरमात्मनः ।।
शृणुयात् स लभेद्धाम भजित्वा मां सतश्च मे ॥४१॥
सन्तश्चाऽहं निवसामि विश्वपट्टसरोऽभितः ।।
अनादिश्रीकृष्णनारायणः श्रीकृष्णनामधृक् ।।४२॥
यत्रेमे लोमशाद्याश्च ऋषयः साधवोऽपरे ।।
स्वतःप्रकाशाः ऋषयो वसन्ति चाक्षरे तले ॥४३॥
स देशः पावनो लक्ष्मि ! जलं पापप्रणाशनम् ।।
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन सेवया ॥४४॥
गतिं तां न लभेदश्वपट्टं संसेव्य यां लभेत् ।।
स्पृष्टान्यश्वपट्टसरोजलैर्गात्राणि देहिनाम् ॥४५॥
येषां तेषां भवेन्मुक्तिराक्षरी मे कृपालवात् ।
सर्वाण्यश्वपट्टसरोजलैः कार्याणि देहिनाम् ।।४६ ।।
कर्माणि ते भुवं त्यक्त्वा यास्यन्ति परमं पदम् ।
घातपापानि सर्वाणि नश्यन्त्यश्वसरोवरे ॥४७॥
यावदस्थि मनुष्यस्य सरोवरेऽत्र तिष्ठति ।।
तावद्वर्षसहस्राणि स्वर्गं भुक्त्वा प्रमुच्यते ।।४८॥
चान्द्रायणसहस्राणि चाश्वपट्टजलेन वै । ।
तुल्यानि नैव जायन्ते श्रेष्ठं चाश्वसरोजलम् ॥४९॥
कुंकुमवापिकातीर्थं चाश्वपट्टसरोवरम् ।।
लोमशस्याऽऽश्रमश्चैते सच्चिदानन्दरूपिणः ॥3.91.५०॥
अग्नौ निक्षिप्ततृणवत् पापान्यत्र सरोवरे ।।
स्नातस्यैव विनश्यन्ति मोक्षभाक् स भवेदिह ॥५१॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।।
गतिमन्वेष्यमाणानां चाऽश्वसरोऽधिका गतिः ॥५२॥
अनाचाराश्च ये केचिदधर्मशरणाश्च ये ।।
तेषां मुक्तिप्रदं चाश्वसरोवरं मयाऽऽश्रितम् ॥५३॥
अघैश्च प्रबलैर्व्याप्तान् पापिनः पुरुषाऽधमान् ।।
पततो नरके चाश्वसरः स्मृतं हि तारयेत् ॥५४।।
अमंगला अशिवाश्च कल्मषैः कृष्णतां गताः ।।
तेऽश्वपट्टजले स्नात्वा शिवाः शुक्ला भवन्ति वै ॥५५॥
कुंकुमवापिकाधूलिं जनो मूर्ध्ना बिभर्ति यः ।।
सोऽर्करूपस्त्विह भूत्वा याति ब्रह्म सनातनम् ।।५६॥
अश्वपट्टसरःक्षेत्राऽनिलः स्पृशति यं जनम् ।।
तस्य पाप्मा बहुरूपः सद्यो नश्यति मूलतः ॥५७॥
व्यसनैश्चापदाभिश्च विनाशोन्मुखमानवम् ।।
दर्शनादाक्षरं क्षेत्रं रक्षत्यथ पुनाति तम् ॥५८॥
वाङ्मनःकर्मणां पापैर्ग्रस्तं जनं तु पापिनम् ।।
कुंकुमवापिका तूर्णं स्मृता तारयति ध्रुवम् ॥५९॥
सप्ताऽवरान् सप्तपरान् पितॄन् तारयते सरः ।।
श्रुतं पीतं वीक्षितं च स्पृष्टं तथाऽवगाहितम् ॥3.91.६०॥
दर्शनात् स्पर्शनात् पानाचाश्वपट्टेतिकीर्तनात् ।।
पुनात्यपुण्यान् पुरुषान् शतशश्च सहस्रशः ॥६१॥
उत्क्रामद्भिश्च यः प्राणैः स्मरेत् लोमशीं भूमिकाम् ।।
नमेत् हृदाऽपि सहसा स गतिं परमां व्रजेत् ।।६२॥
न कालाच्च भयं तस्य न पापेभ्यो यमात्तथा ।
अश्वपट्टसरःस्नातस्यैव मोक्षार्थिनस्त्विह ॥६३॥
शृणु लक्ष्मि ! द्विजत्वं विप्रत्वं साधुत्वमित्यपि ।
गुणैः सञ्जायते सम्यग्गुणास्तीर्थनिषेवणात् ॥६४॥
तीर्थं तु स्थावरं चापि जंगमं चात्मसंस्थितम् ।
स्थावरं मम योगेन जंगमं साधवो मम ॥६५॥
आत्मस्थोऽहं चान्तरात्मा तीर्थत्रयं हि तारकम् ।।
गुणाः पुण्येन चायान्ति दोषाः पापेन देहिनाम् ॥६६।।
पुण्यं सत्कार्यकरणैः सन्ति कार्याणि वै शृणु ।
मम पूजा मम ध्यानं मम कीर्तनमुत्तमम् ॥६७॥
मम कर्मकलापश्च मम सेवा निरन्तरम् ।
मम सतां सेवनं च पुष्पहारार्चनादिभिः ॥६८॥
जलभोजनदानाद्यैः पादसंवाहनादिभिः ।
नैवेद्यार्पणगन्धाढ्याऽम्बरकुंकुमसत्फलैः।।६९॥
आरार्त्रिकनमः प्रदक्षिणस्तुतिक्षमापनैः ।
यज्ञयागादयश्चापि होमा अतिथिसेवनम् ॥3.91.७०॥
अनाथबालादिसेवा सतीसाध्वीप्रपूजनम् ।
महीमानस्वागतादि गोविप्रादिप्रसेवनम् ।।७१॥
भक्तानां जरठानां च पित्रोर्गुरोश्च सेवनम् ।
मालाजपश्च लोकानामुपकारविधापनम् ।।७२॥
इत्येवमादीनि कार्याणि कूपसरोविधापनम् ।।
उद्यानशालाकरणं विश्रान्तिद्रुमरोपणम् ॥७३॥
प्रपासत्रादिकरणं दानक्षेत्रादिरक्षणम् ।
वृद्धानां माननं नित्यं चाश्रितानां च रक्षणम् ।।७४॥
दैवं पैत्र्यं साधवं च सत्कार्यं स्वेष्टदैविकम् ।।
दैशिकं ज्ञानदानादि भक्तिदानादिकं तथा ।।७५॥
एवमादीनि कुर्वीत सत्कार्याणि शुभानि वै ।।
तेन गुणाभवन्त्येव शीलव्रतादयः शुभाः ॥७६॥
गुणैः साधुत्वमेवाऽपि ब्रह्मिष्ठत्वं च जायते ।।
भुक्तिर्मुक्तिः करे तस्य कर्तव्यं नाऽवशिष्यते ॥७७॥
पुरा कश्चिद् द्विजापुत्रो नाम्ना कृशांग ऐच्छिकम् ।
महिषं नवधुर्यं चोवाह शकटयोजितम् ॥७८॥
दण्डेन ताडयामास तीव्रशंकुयुतेन वै ।।
रुधिरं तेन निर्भिद्य निःसृतं तन्नितम्बतः ॥७९॥
तद् दृष्ट्वा महिषी माता सशोका पुत्रगृद्धिनी ।
शोचन्तं तं सुतं प्राह मा शुचः पुत्र ! पापिनि ॥3.91.८०॥
नाऽयं द्विजो भवत्येषश्चाण्डालो वाहकस्तव ।
द्विजे दारुणता नास्ति द्विजो मैत्रो भवेत् सदा ॥८१॥
द्विजः सत्त्वयुतः स्याद्धि दयावान् रक्षकस्तथा ।।
अहिंस्रो भक्तिसम्पन्नः सर्वेष्वात्मसमः शुचिः ॥८॥
अदोषे दण्डपाते तु चाण्डालो लुब्धकोऽथवा ।
प्रवर्तते घातकश्च क्रूरो निर्दय उद्वृषः ॥८३॥
अयं पापो दयाहीनः स्वजातिं त्वनुवर्तते ।।
श्रुत्वैवं दारुणं वाक्यं महिष्यास्तु कृशांगकः ॥८४॥
पप्रच्छ महिषीं नत्वा ब्रूहि जानासि मां यदि ।।
माता मे ब्राह्मणी चास्ते केन वा दूषिता भवेत् ॥८५॥
चाण्डालो हि कथं चाऽहं महिषि ! शंस मे द्रुतम् ।
महिषी प्राह विप्रायां वृषलेन जनिस्तव ॥८६॥
क्षेत्रे सस्याऽन्विते रात्रै शय्यायां ते पितुस्तदा ।
पितरि निर्गते क्षेत्रे सुप्तोऽभूद् वृषलोऽनुगः ।।८७॥
कर्मचारी स्ववाट्याश्च सस्त्रीकोऽपि तदैकलः ।।
अन्धकारे ह्यनावीक्ष्याऽऽगत्य ते जननी तदा ॥८८॥
शय्यायां सह सुप्ता च कामभावं गता सती ।
लब्धवती ततो गर्भं दैवात् त्वं वृषलस्ततः ॥८९॥
जानाम्यहं समीपस्था क्षेत्रे बद्धा च बालिका ।
स त्वं वृषलाद् विप्रायां जातश्चाण्डालको ह्यसि ।।3.91.९०॥
दुर्गुणास्ते निषेकाद्वै वर्तन्ते घातमारकाः ।।
श्रुत्वा कृशांगकस्तूर्णं नत्वा च जननीं तदा ।।९१॥
महिषीं च ततो नत्वा क्षमाप्य महिषं ततः ।।
पापजन्मविनाशार्थं तपस्येव स्थितोऽभवत् ॥९२॥
शतवर्षं तत्र भूमौ क्षेत्रे तेपे सुदारुणम् ।।
तापयामास देवाँश्च महेन्द्रस्तमुपाययौ ।।९३॥
कृशांग ! तप्स्यसे किं त्वं कृषिं त्यक्त्वा सुखप्रदाम् ।
वरं ददामि वद मे ह्यनवाप्यं ददामि ते ॥९४॥
कृशांगः प्राह चाण्डालश्चाऽहं विप्रत्वकांक्षया ।
तपामि देहि विप्रत्वं पितृदोषं निवारय ।।९५॥
महेन्द्रः प्राह तं चाहो विप्रत्वं दुर्लभं तव ।।
पितृदोषेण बीजं त्वं शुद्धो भवितुं नाऽर्हसि ॥९६।।
प्रविनंक्ष्यसि प्रत्युत तदुपारम यत्नतः ।।
पावित्र्यं प्राप्यते चापि चाण्डालत्वं न नश्यति ॥९७॥
एवमुक्त्वा ययाविन्द्रः कृशांगस्तु स्थितस्तथा ।।
तपस्येव निधनार्थं वैप्र्यार्थं वा दृढक्रियः ॥९८॥
अतिष्ठदेकपादेनाऽपरं वर्षशतं तथा ।
पुनश्चेन्द्रः समागत्योवाच विरम यत्नतः ॥९९।।
ब्राह्मण्यं दुर्लभं चैतत् साहसेन विनङ्क्ष्यसि ।
नहि शक्यं निषेकस्थं वृषलत्वं व्यपोहितुम् ॥3.91.१००॥
एवंस्थिते तपोयत्नः शीघ्रं त्वं न भविष्यसि ।।
तिर्यग्योनिगतः सर्वो यदि मानुष्यमृच्छति ।।१०१॥
केनचित् पुण्ययोगेन चाण्डालो जायते पुरा ।।
ततः सहस्रकालान्ते शूद्रत्वं विन्दते मुहुः ॥१०२।।
अथ कालान्तरे वैश्यो मुहुर्भूत्वा ततः परम् ।।
क्षत्रियः पुण्ययोगेन जायते च ततः परम् ॥१०३॥
ब्रह्मबन्धुश्च कालेन ततो विप्रः प्रजायते ।
ततः कालान्तरे स्याच्च श्रोत्रियश्च ततः परम् ॥१०४।।
विप्रधर्मान् पालयित्वा तितिक्षुः साधुतां व्रजेत् ।।
तत्र चेद्धर्षशोकौ च कामद्वेषौ कृशांगकः ॥१०५॥
अतिमानाऽतिवादौ चाऽऽविशेते पात्यते तु तैः ।।
तस्मात्ते वृषलोत्थत्वं दूरं न स्यात् कदाचन ॥१०६॥
इत्युक्त्वा प्रययाविन्द्रः कृशांगश्च ततो दृढः ।
सहस्रवर्षमपरं चैकपदा ह्यतिष्ठत ।।१०७॥
ब्रह्मचर्यपरः शुद्धो गृणन् ब्रह्म सनातनम् ।
अथाऽऽययौ महेन्द्रश्च प्राह वरं वृणु ध्रुवम् ॥१०८॥
कृशांगः प्राह शीलं मे सहस्रवर्षमुत्तमम् ।।
तेन मे दीयतां विप्रत्वं महेन्द्र न चाऽपरम् ।।१०९॥
इन्द्रः प्राह परं कामं वृणीष्व मा तु विप्रताम् ।।
चाण्डालबीजजातस्य वृथा तेऽयं परिश्रमः ॥3.91.११०॥
इत्युक्त्वा प्रययाविन्द्रः कृशांगश्च ततः परम् ।।
अश्वपट्टसरः प्राप्याऽतिष्ठद् वर्षसहस्रकम् ।।१११॥
वायुमात्राशनः कृशोऽभवच्छुष्कस्तरुर्यथा ।
पपातोर्व्यां मरणाय तावदिन्द्र उपाययौ ।।११।।
जग्राह पतितं चैनं वरदानदयापरः ।।
प्राह वरं वृणीष्वाऽत्र ददामि ते कृशांगक ! ॥११३॥
कृशांगको वरं वव्रे ब्राह्मण्यं देहि मे सदा ।।
इन्द्रः प्राह न ते तद्वै दुर्लभं सुलभं क्वचित् ॥११४॥
कोटिवर्षतपोभिश्च प्राप्यते न तु सर्वथा ।
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतादयः ॥११५॥
भूदेवो ब्राह्मणश्चास्ते ब्राह्मण्यं तव दुर्लभम् ।।
अन्यं वरं वृणीष्व त्वं पूज्यत्वं श्रेष्ठतां च वा ।।११६॥
कृशांगः प्राह चेन्द्र ! त्वं समर्थो नैव दृश्यसे ।।
किं मां तुदसि दुःखाढ्यं मृतं मारयसे कथम् ॥११७॥
द्विजत्वं तु त्रिभिर्वर्णैः प्राप्यते गुणकर्मभिः ।
द्विजत्वं चापि विप्रत्वं समानं गुणकर्मभिः ॥११८॥
उपवीतेन द्विजन्मा विज्ञानेन च विप्रता।
ब्रह्मयोगेन तत्रैव ब्राह्मणत्वं प्रकीर्तितम् ॥११९॥
निष्ठया ब्रह्मणि ब्रह्मिष्ठता मोक्षे तु साधुता ।
इत्येवं गुणयोगेन सर्वं भवति साधितम् ।।3.91.१२०॥
वह्निपाकेन . पृथिवी बहुरत्नोत्तमोत्तमा ।।
पुण्यपाकेन देहाश्च विप्रसाधुस्वरूपिणः ।।१२१॥
गुणैः पशुर्गुणैर्यक्षो राक्षसोऽपि गुणैरिह ।
विप्रो गुणैः क्षत्रियादिः साधुर्गुणैश्च मुक्तराट् ॥१२२॥
नरो नारायणश्चाऽपि कर्मगुणैः प्रजायते ।
शोच्यस्त्वं नैव जानीषे ब्राह्मण्यं धनमुत्तमम् ॥१२३॥
लब्ध्वाऽपि नैव जानीषे क्षत्रो भवसि मानवान् ।
न योग्यस्त्वं वरं दातुं याहि शक्र ! निजालयम् ।।१२४॥
विप्रगुणान् समास्थाय कथं नार्हामि. विप्रताम् ।
तपसा मे मातृदोषः पितृदोषः क्षयं गतः ॥१२५॥
ब्राह्मणोऽस्मि न सन्देहो याहि शक्र ! निजालयम् ।
एवमुक्तो महेन्द्रो वै लक्ष्मि ! ददौ वरं शुभम् ।।१२६।।
कृशांग ! त्वं तपोभिश्च शुद्धोऽसि पावितोऽस्यपि ।
कृशानुरग्निरूपस्त्वं ब्रह्मक्षत्रात्मको भव ॥१२७॥
सर्वपूज्यो ब्राह्मणानां सदा पूज्यः सुरोत्तमः ।
विप्रोत्तमश्च ब्रह्मिष्ठो भव कल्पान्तरेष्वपि ॥१२८॥
गुणैस्त्वयाऽर्जितं चात्र विप्रत्वं च गुणैस्ततः ।
ब्रह्मिष्ठत्वं सदा प्राप्तं चाग्नित्वं प्राप्तमेव ह ॥१२९॥
इत्येवं वरदानं तु दत्वा शक्रो ययौ दिवम् ।
कृशांगोऽभूत् कृशानुश्च ह्यश्वपट्टसरोवरे ।। 3.91.१३०॥
कृशानुतीर्थमत्राऽऽस्ते रमे ! ब्रह्मिष्ठताप्रदम् ।
साधुत्वं. पावनत्वं निर्लेपत्वं प्राप्यतेऽत्र वै ॥१३१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने घातकिनां तीर्थयोगेन पावनत्वं, जंगमतीर्थं साधुजनादयः, अश्वपट्टसरोवरे पुरा द्विजापुत्रस्य कृशांगस्य वृषलोद्भवस्य चाण्डालत्वेऽपि तपोभिश्चेन्द्रवरेण ब्रह्मिष्ठत्वब्राह्मण्यमयं कृशानुत्वं चाऽभवदित्यादिनिरूपणनामा चैकनवतितमोऽध्यायः ॥ ९१ ॥