ऋग्वेदः सूक्तं १०.८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.७ ऋग्वेदः - मण्डल १०
सूक्तं १०.८
त्रिशिरास्त्वाष्ट्रः
सूक्तं १०.९ →
दे. अग्निः, ७-९ इन्द्रः। त्रिष्टुप्


प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥१॥
मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् ।
स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥२॥
आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।
अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥३॥
उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।
ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै ॥४॥
भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥५॥
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥६॥
अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य ।
सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥७॥
स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् ।
त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥८॥
भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् ।
त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥९॥


सायणभाष्यम्

‘प्र केतुना' इति नवर्चमष्टमं सूक्तं त्रैष्टुभम् । त्वष्टृपुत्रस्त्रिशिरा नामर्षिः । आदितः षडाग्नेय्यस्ततस्तिस्र ऐन्द्र्यः । तथा चानुक्रान्तं- प्र केतुना नव त्रिशिरास्वाष्ट्रस्तृचोऽन्त्य ऐन्द्रः' इति । आदितः षण्णां प्रातरनुवाकाश्विनशस्त्रयोराग्नेयक्रतावुक्तो विनियोगः ॥


प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति ।

दि॒वश्चि॒दंताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥१

प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ।

दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥

प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति ।

दिवः । चित् । अन्तान् । उपऽमान् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥

“अग्निः “बृहता महता “केतुना प्रज्ञानेन युक्तः सन् “आ इदानीं “रोदसी द्यावापृथिव्यौ “प्र “याति प्रकर्षेण गच्छति । किंच देवानामाह्वानकाले “वृषभः इव “रोरवीति अत्यर्थं शब्दं करोति । “दिवश्चित् द्युलोकस्यापि “अन्तान् अवसानान् “उपमान् समीपांश्च प्रदेशान् ज्वलनात्मनादित्यात्मना वा स्थितः “उदानट् ऊर्ध्वं व्याप्नोति । “अपां वृष्टिलक्षणानामुदकानाम् “उपस्थे उपस्थानेऽन्तरिक्षे वैद्युतात्मना “महिषः महान् ववर्ध वर्धते ॥


मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् ।

स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥२

मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् ।

सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥

मुमोद । गर्भः । वृषभः । ककुत्ऽमान् । अस्रेमा । वत्सः । शिमीऽवान् । अरावीत् ।

सः । देवऽताति । उत्ऽयतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति ॥

“गर्भः द्यावापृथिव्योरन्तर्गतः “वृषभः कामानां वर्षिताग्निः “ककुद्मान् उन्नततेजस्कः "मुमोद मोदते । किंच “अस्रेमा । प्रशस्यनामैतत् । प्रशस्तः "वत्सः नक्तोषसोर्वत्सभूतः सायंप्रातराहुत्युपजीवनात् “शिमीवान् हविर्वहनदेवाहृानादिकर्मवानग्निः अरावीत् देवाह्वानादिशब्दं करोति । “सः अग्निः “देवताति यज्ञे “उद्यतानि उद्यमान्युत्साहकर्माणि कृण्वन् कुर्वन् “स्वेषु “क्षयेषु आत्मीयेष्वाहवनीयादिस्थानेषु स्थितः “प्रथमः देवानां स्थानेषु मुख्यः “जिगाति गच्छति ॥


आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ ।

अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषंत ॥३

आ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ ।

अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥

आ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः ।

अस्य । पत्मन् । अरुषीः । अश्वऽबुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त ॥

“यः अग्निः “पित्रोः मातापितृभूतयोर्द्यावापृथिव्योः “मूर्धानम् “आ “अरब्ध स्वतेजोभिरारभते । यद्वा । मातापितृभूतयोररण्योर्मूर्धानं शिरोवत् प्रधानभूतं मन्थनप्रदेशम् । आङीषदर्थे। आरब्ध ईषद्धिनस्ति । निर्मथनकालेऽपि दाहेन दग्धुं समर्थः । “सूरः सुवीर्यस्याग्नेः "अर्णः गमनशीलं तेजः “अध्वरे यज्ञे “नि “दधिरे । यष्टारो नियमेन धारयन्ति । “अस्य अग्नेः “पत्मन् पतने “अरुषीः आरोचमानाः “ऋतस्य यज्ञस्य “योनौ स्थाने अश्वबुध्नाः व्याप्तमूला अशनबन्धना वा । हविराहारान्विता इत्यर्थः । “तन्वः तदीयास्तनूः "जुषन्त कवयः सेवन्ते ॥


उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ ।

ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥४

उ॒षःऽउ॑षः । हि । व॒सो॒ इति॑ । अग्र॑म् । एषि॑ । त्वम् । य॒मयोः॑ । अ॒भ॒वः॒ । वि॒भाऽवा॑ ।

ऋ॒ताय॑ । स॒प्त । द॒धि॒षे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् । त॒न्वे॑ । स्वायै॑ ॥

उषःऽउषः । हि । वसो इति । अग्रम् । एषि । त्वम् । यमयोः । अभवः । विभाऽवा ।

ऋताय । सप्त । दधिषे । पदानि । जनयन् । मित्रम् । तन्वे । स्वायै ॥

हे “वसो स्वेन तेजसा सर्वस्याच्छादयितर्वसुमन् वा प्रशस्य वा अग्ने “त्वम् "उषउषः सर्वस्या एवोषसः “अग्रं पूर्वम् “एषि प्राप्नोषि । अपि च “यमयोः युग्मयोः परस्परमवियुक्तयोरहोरात्रयोः “विभावा दीप्तिमान् “अभवः भवसि । “तन्वे “स्वायै आत्मीयाच्छरीरात् “मित्रम् आदित्यं “जनयन् उत्पादयन् “सप्त “पदानि सप्तसंख्याकानि धिष्ण्यादिस्थानानि “ऋताय यज्ञार्थं “दधिषे धारयसि ।।


भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ ।

भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥५

भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ ।

भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥

भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि ।

भुवः । अपाम् । नपात् । जातऽवेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः ॥

“महः महतः “ऋतस्य यज्ञस्य हे अग्ने त्वं “चक्षुः इव प्रकाशकः “भुवः भवसि । “गोपाः यज्ञस्य रक्षकस्त्वमेव भवसि । “यत् यदा “ऋताय सोमरसलक्षणस्योदकस्यादानार्थं वरुणः आदित्यः “वेषि गच्छसि तदा त्वमेव “भुवः भवसि । हे “जातवेदः जातप्रज्ञाग्ने “अपां वृष्टिलक्षणानामुदकानां “नपात् पौत्रस्त्वमेव “भुवः भवसि । अद्भ्यो हि मेघो जायते मेघादग्निर्विद्यद्रूपो जायत इत्यपां पौत्रत्वमुच्यते । “यस्य यजमानस्य “हव्यं हविः “जुजोषः सेवसे तस्य “दूतः “भुवः भवसि ॥ ॥३॥


दर्शपूर्णमासयोराग्नेयस्य याज्या ‘भुवो यज्ञस्य' इत्येषा । सूत्रितं च--’तासां याज्यानुवाक्या अग्निर्मूर्धा भुवो यज्ञस्य ' (आश्व. श्रौ. १.६ ) इति । आग्नेयी काचित् काम्येष्टिः । तस्यामेषैव याज्या । सूत्रितं च- आग्नेय्या उत्तरे नित्ये मूर्धन्वतः' (आश्व. श्रौ. २. १०) इति ॥

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।

दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं॑ ॥६

भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युत्ऽभिः॑ । सच॑से । शि॒वाभिः॑ ।

दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्वः॒ऽसाम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽवाह॑म् ॥

भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुत्ऽभिः । सचसे । शिवाभिः ।

दिवि । मूर्धानम् । दधिषे । स्वःऽसाम् । जिह्वाम् । अग्ने । चकृषे । हव्यऽवाहम् ॥

हे अग्ने त्वं “यत्र यस्मिन्नन्तरिक्षे “शिवाभिः कल्याणीभिः “नियुद्भिः नियुत्संज्ञकाभिरश्वजातिभिः संबद्धं वायुं “सचसे संगच्छसे तस्मिन्नन्तरिक्षे “यज्ञस्य “रजसश्च उदकस्य च ”नेता प्रापयिता "भुवः भवसि । ‘अग्निर्वा इतो वृष्टिं समीरयति' ( निरु. ७. २४ ) इति श्रुतेः । किंच “दिवि द्युलोके "मूर्धानं शिरोवत्प्रधानभूतं “स्वर्षां सर्वस्य संभक्तारमादित्यं “दधिषे हविर्वहनद्वारेण धारयसि । हे “अग्ने त्वं “जिह्वां ज्वालां “हव्यवाहं हविषां वोढ्रीं “चकृषे करोषि ॥


अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अं॒तरि॒च्छंधी॒तिं पि॒तुरेवैः॒ पर॑स्य ।

स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥७

अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य ।

स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥

अस्य । त्रितः । क्रतुना । वव्रे । अन्तः । इच्छन् । धीतिम् । पितुः । एवैः । परस्य ।

सचस्यमानः । पित्रोः । उपऽस्थे । जामि । ब्रुवाणः । आयुधानि । वेति ॥

अस्मिंस्तृच इममर्थं ब्रवीति । हे त्रित सर्वेषामायुधानि वेत्ता त्वं त्वष्टृपुत्रस्य त्रिशिरसो वधार्थं मम साहाय्यं कुर्वितीन्द्रेणैवं पृष्टस्त्रितः स्ववीर्यवृद्ध्यर्थं यज्ञभागं वव्रे । स चेन्द्रस्तस्मै पाणिप्रक्षालनार्थं च जलं यज्ञभागं च दत्तवान् । अनेन यज्ञभागेन वृद्धवीर्यः “त्रितः एतत्संज्ञक ऋषिः “एवैः आत्मनो रक्षणैर्युक्तः “अन्तः यज्ञस्य मध्ये “धीतिं भागम् “इच्छन् “परस्य उत्कृष्टस्य “पितुः सर्वस्य जगतः पालयितुः “अस्य इन्द्रस्य “क्रतुना त्रिशिरसो मम वधार्थं साहाय्यभूतेन कर्मणा निमित्तेन “वव्रे सखायं वृतवान् । किंच “पित्रोः मातापितृभूतयोर्द्यावापृथिव्योः “उपस्थे समीपस्थे यज्ञे “सचस्यमानः ऋत्विग्भिः सेव्यमानस्त्रितः “जामि योग्यमिन्द्रस्यानुरूपं स्तोत्रं “ब्रुवाणः इन्द्रस्य बलवृद्ध्यर्थमुच्चारयन् “आयुधानि स्वभूतानि “वेति । त्वष्टृपुत्रस्य मम वधार्थमागच्छति ॥


स पित्र्या॒ण्यायु॑धानि वि॒द्वानिंद्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।

त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वांत्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥८

सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।

त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥

सः । पित्र्याणि । आयुधानि । विद्वान् । इन्द्रऽइषितः । आप्त्यः । अभि । अयुध्यत् ।

त्रिऽशीर्षाणम् । सप्तऽरश्मिम् । जघन्वान् । त्वाष्ट्रस्य । चित् । निः । ससृजे । त्रितः । गाः ॥

“आप्त्यः आप्त्यस्य पुत्रोऽपां पुत्रो वा। तकारोपजनश्छान्दसः । “सः त्रितः “पित्र्याणि स्वपितृसंबन्धीनि “आयुधानि “विद्वान् जानन् “इन्द्रेषितः त्रिशिरसा मया सह युद्धार्थमिन्द्रेण प्रेषितः सन् "अभ्ययुध्यत् अभिमुख्येन युद्धवान् । तदनन्तरं सप्तरश्मिं शत्रुनियमनार्थं सप्तप्रग्रहहस्तम् । यद्वा । सप्तरश्मिरादित्यः । तत्सदृशम् । “त्रिशीर्षाणं त्रिशिरस्कं मां “जघन्वान् हतवान् । मूर्च्छितं कृतवानित्यर्थः । किं च “त्रितः “त्वाष्ट्रस्य “चित् त्वष्टृपुत्रस्य ममापि “गाः पशून् “निः “ससृजे विसृष्टवान् । अपहृतवानित्यर्थः ॥


भूरीदिंद्र॑ उ॒दिन॑क्षंत॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानं ।

त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥९

भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् ।

त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । व॒र्गिति॑ वर्क् ॥

भूरि । इत् । इन्द्रः । उत्ऽइनक्षन्तम् । ओजः । अव । अभिनत् । सत्ऽपतिः । मन्यमानम् ।

त्वाष्ट्रस्य । चित् । विश्वऽरूपस्य । गोनाम् । आऽचक्राणः । त्रीणि । शीर्षा । परा । वर्गिति वर्क् ॥

“सत्पतिः सतां पालकः “इन्द्रः भूरीत् बह्वेव पूर्वतुल्यमतिरिक्तं वा “ओजः बलम् "उदिनक्षन्तं व्याप्नुवन्तं “मन्यमानं शूरमित्यात्मानं चिन्तयन्तम् । यद्वा । मन्यतिर्दीप्तिकर्मा क्रोधक वा । दीप्यमानं क्रुध्यन्तं वा । त्वष्टृपुत्रं माम् “अवाभिनत् वज्रेण विदारितवान् । विदार्य “त्वाष्ट्रस्य “चित् त्वष्टृपुत्रस्यापि “गोनां गवाम् । स्वामिन इति शेषः । “विश्वरूपस्य मम “त्रीणि “शीर्षा शीर्षाणि “आचक्राणः आ समन्ताच्छब्दं कुर्वन् "परा “वर्क् पराङ्मुखस्य वृक्णवान् छिन्नवानित्यर्थः । ईदृशं भावि वस्तु विश्वरूपः स्वप्नान्तेऽनेन तृचेन दृष्टवान् ॥ ॥ ४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८&oldid=166114" इत्यस्माद् पुनः प्राप्तिः